काशाः पुनर्भवा ये च बर्हणा उपबर्हणाः। अथ ते पितरो देवा देवाश्च पितरः पुनः ।। १३.
पुष्पगन्धादिधूपानामेष मन्त्र उदाहृतः। आहृत्य दक्षिणायान्तु होमार्थे विप्रयत्नतः ।। १३.
सोमाय वै पितृमते स्वधा अङ्गिरसे नमः। अस्वर्ग्यं लौकिकं वापि जुहुयात्कर्म्मसिद्धये ।। १३.
अन्तराधाय समिधं तथा होमो विधीयते १३.
अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः। यमाय चैवाङ्गिरसे स्वधा नम इति ब्रुवन् ।। १३.
इत्येते वै होममन्त्रा मन्त्राणामनु पूर्व्वशः। दक्षिणातोऽग्नये नित्यं सोमायान्तरतस्तथा ।। १३.
एतयोरन्तरं नित्यं जुहुयाद्वै विवस्वते। उपचारं स्वधाकारं तथैवोल्लेखनञ्च यत् ।। १३.
होमजप्ये नमस्कारः प्रोक्षणञ्च विशेषतः। अञ्जनाभ्यञ्जने चैव पिण्डसंवपनं तथा ।। १३.
अश्वमेधफलेनैव तत्स्मृतं मन्त्रपूर्व्वकम्। क्रियाः सर्व्वा यथो द्दिष्टाः प्रयत्नेन समाचरेत् ।। १३.
बहुहव्यत्वमेवाग्नौ सुसमिद्धे विशेषतः। विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ।। १३.
अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने। यजमानो भवेदन्धः सोऽपुत्र इति नः श्रुतम् ।। १३.
अल्पेन्धनो वा रूक्षो वा विस्फुलिङ्गश्च सर्व्वशः । ज्वाला धूमोपसेव्यश्च स तु वह्निर्न सिद्धये ।। १३.
दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः। भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ।। १३.
अर्चिष्मान् पिण्डितशिखः सर्पिःकाञ्चनसम्भवः। स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्य्यसिद्धये ।। १३.
नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम्। अक्षयाः पूजितास्तेन भवन्ति पितरोऽव्ययाः ।। १३.
स्थाल्युदुम्बरपात्राणि फलानि समिधस्तथा। श्राद्धे चातिपवित्राणि मेध्यानीति विशेषतः ।। १३.
पवित्रं वा द्विजश्रेष्ठ शुद्धये जन्मकर्म्मसु। पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ।। १३.
तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम्। कृत्वा समाहितं चित्तमग्रये वै करोम्यहम् ।। १३.
अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः। पत्नीमादाय पुत्रांश्च जुहुयाद्धव्यवाहनम् ।। १३.
समानप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः। उदुम्बरास्तथा बिल्वचन्दना यज्ञियाश्च ते ।। १३.
सरलो देवदारुश्च शालश्च खदिरस्तथा। समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः ।। १३.
ग्राम्याः कम्टकिनश्चैव यज्ञिया येन केन च। पूजिताः समिदर्थे तु पितॄणां वचनं तथा ।। १३.
समिद्भिः कल्कलेयाभिर्ज्जुहुयाद्यो हुताशनम् । फलं यत् कर्मणस्तस्य तन्मे निगदतः श्रृणु ।। १३.
आयसं सर्व्वकामीयमश्वमेधफलं हि तत्। श्लेष्मातको नक्तमालः कपित्थः शाल्मलिस्तथा ।। १३.
नीपो विभी तकश्चैव वल्लीभिश्च तथैव च। शकुनानां निवासश्च वर्जयेच्च महीरुहान्। अयज्ञीयाः स्मृता ये च वृक्षांश्चैव तु वर्जयेत् ।। १३.
स्वधेति चैव मन्त्रान्ते पितॄणां वचनं तथा। स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ।। १३.
सूत उवाच। देवाश्च पितरश्चैव तेभ्योऽन्ये पितरस्तथा। आथर्वणविधिर्ह्येष प्रत्युवाच बृहस्पतिः ।। १४.
पूजयेच्च पितृन् पूर्व्वं देवाश्चापि विशेषतः। देवेभ्योऽपि पितृन् पूर्वमर्चयन्तीह यत्नतः ।। १४.
दक्षस्य दुहिता ख्याता लोके विश्वेति नामतः। विधिना सा तु धर्म्मज्ञ दत्ता धर्म्माय धर्म्मतः। तस्याः पुत्रा महात्मानो विश्वेदेवा इति श्रुतिः ।। १४.
प्रख्यातास्त्रिषु लोकेषु सर्व्वलोकनमस्कृताः। समस्तास्ते महात्मानश्वेरुरुग्रं महत्तपः ।। १४.