एकं पवित्रं हस्तेन पितॄन्सर्वान्सकृत्सकृत्। चैलमन्त्रेण पिण्डेभ्यो दत्त्वा दर्शनजं हितम् ।। १३.
सदा सर्पिस्तिलैर्युक्तां स्त्रीन् पिण्डान्निर्वपेद्भुवि। जानुं कृत्वा तथा सव्यं भूमौ पितृपरायणः ।। १३.
पितॄन् पितामहांश्चैव तथैव प्रपितामहान्। आहूय च पितॄन् प्राञ्चान् पितृतीर्थेन यत्नतः। पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ।। १३.
अन्नेनाद्भिश्च पुष्पैश्च भक्ष्यैश्चैव पृथग्विधैः। पृथग् मातामहानान्तु केचिदिच्छन्ति मानवाः ।। १३.
त्रीन् पिण्डानानुपूर्व्व्येण साङ्गुष्ठान्पुष्टिवर्द्धनान् । जान्वन्तराभ्यां यत्नेन पिण्डान् दद्याद्यथाक्रमम् ।। १३.
सव्योत्तराभ्यां पाणिभ्यां धर्मे मन्त्रे च पर्य्ययः। नमो वः पितरः सूक्ष्मैः सदा ह्येवमतन्द्रितः ।। १३.
दक्षिणस्यान्तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत्। नमो वः पितरः सौम्याः पठन्नित्यमतन्द्रितः ।। १३.
सव्योत्तराभ्यां पाणिभ्यां धर्मे सर्व्वमतन्द्रितः। उलूखलस्य लेखाया मुदपात्राच्च सेवनम् ।। १३.
क्षौमसूत्रं नवं दद्याच्छोणं कार्पासिकं तथा। पत्रोर्णं पितृसूत्रञ्च कौशेयं परिवर्जयेत् ।। १३.
वर्जयेत्तद्दशां यज्ञे यदप्यहतवस्त्रजाम्। न प्रीणन्ति तथैतानि दातुराप्यायतो भवेत् ।। १३.
श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च। कृष्णेभ्यश्च तिलेभ्यश्च यत्तैलं परिरक्षितम् ।। १३.
चन्दनागुरुणी चोभे तमालोशीरपझकम्। धूपं च गुग्गुलश्रेष्ठं तुरुष्कं धूपमेव च ।। १३.
शुक्लाः सुमनसः श्रेष्ठास्तथा पझोत्पलानि च। गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ।। १३.
जवासुमनसो भण्डीरूपकामकुरण्डकाः। पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ।। १३.
यानि गन्धादपेतानि उपगन्धीनि यानि च। वर्जनीयानि पुष्पाणि भूतिमन्विच्छता तदा ।। १३.
द्विजातयस्तथान्विष्ठा नियताः स्युरुदङ्मुखाः। पूजयेद्यजमानस्तु विधिवद्दक्षिणामुखः ।। १३.
तेषामभिमुखो दद्याद्दर्भान्पिण्डांश्च यत्नतः। अनेन विधिना साक्षादर्च्चयेत् स्वान् पितामहान् ।। १३.
हरिता वै सपिञ्जल्याः पुष्पस्निग्धाः समाहिताः। रत्निमात्रप्रदानेन पितृतीर्थेन संस्थिताः ।। १३.
उपमूले तथा नीलाः प्रस्तराद्यकुलोद्यमाः । तथा श्मामाकनीवारा दुर्वाराः समुदाहृताः ।। १३.
पूर्व्वंकीर्त्तितवाञ्छ्रेष्ठो बभूवाथ प्रजापतिः । तस्य वाला निपतिता भूमौ चाकाशमार्गतः ।। १३.
तस्मान्मेध्या समाकाशाः श्राद्धकर्मणि पूजिताः । पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता ।। १३.
प्रजापुष्टिर्द्युतिः कीर्त्तिः प्रजाकान्तिसमन्विता। भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः ।। १३.
सकृदेवास्तरेद्दर्भान् पिण्डार्थं दक्षिणामुखः। प्राग्दक्षिणाग्रनियतो विधिञ्चाप्यनुवक्ष्यति ।। १३.
न दीनो वापि वा क्रुद्धो न चैवान्यमना नरः। एकाग्रमाधाय मनः श्राद्धं कुर्य्यात्सदा बुधः ।। १३.
निहन्मि सर्व्वं यदमेध्यवद्भवेद् हताश्च सर्व्वे सुरदानवा मया। रक्षांसि यक्षाश्च पिशाचसङ्घा हता मया यातुधानाश्च सर्व्वे ।। १३.
एवं पित्रे दृष्टमन्नं हि यस्य तस्यासुरा वर्जयन्तीह सर्व्वे। यस्मिन्देशे पठ्यते एष मन्त्रस्तं वै देशं राक्षसा वर्जयन्ति ।। १३.
अनेन विधिना नित्यं श्राद्धं कुर्य्याद्द्विजः सदा। मनसा काङ्क्षितं यद्यत्तत्तद्दद्युः पितामहाः ।। १३.
पितरो हृष्टमनसो रक्षांसि विमनांसि च। भवन्त्येव कृते श्राद्धे नित्यमेव प्रयत्नतः ।। १३.
शूद्राः श्राद्धे क्षीरवाशु बल्वजास्तरवस्तथा। वारणाश्च लवाश्चैव लववर्षाश्च नित्यशः। एवमादीन्यथान्यानि तृणानि परिवर्जयेत् ।। १३.
अञ्जनाभ्यञ्जनागन्धामानुप्रलयनं तथा । काशैः पुनर्भवैः कार्य्यं सर्व्वमेव फलं भवेत् ।। १३.