तेजसा यशमा चैव कान्त्या चैव बलेन च। भुवि प्रकाशो भवति भ्राजते च त्रिविष्टपे। अप्सरोभिः परिवृतो विमानाग्रे स मोदते ।। १३.
गन्धान्पुष्पाणि धूपांश्च दद्यादाज्यादुतीश्च वै। फलमूलनमस्कारैः पिदॄणां प्रयतः शुचिः। पूर्व कृत्वा द्विजान्पश्वात्पूजयेदन्नसम्पदा ।। १३.
श्राद्धकाले तु सततं वायुभूताः पितामहाः। आविशन्ति द्विजान्दृष्ट्वा तस्मादेतद्ब्रवीमि ते ।। १३.
वस्त्रैरन्नैः प्रदानैस्तैर्भक्ष्यपेयैस्तथैव च। गोभिरश्वैस्तथा ग्रामैः पूजयित्वा द्विजोत्तमान् ।। १३.
भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु। तस्मादन्नेन विधिवत् पूजयेद्द्विजसत्तमान् ।। १३.
सव्योत्तराभ्यां पाणिभ्यां कुर्य्यादुल्लेखनं द्विजः। प्रोक्षणञ्च तथा कुर्याच्छ्राद्धकर्म्मण्यतन्द्रितः ।। १३.
दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च। गन्धदानमलङ्कारमेकैकं निर्वपेद्वुधः ।। १३.
पोषयित्वा जनं सम्यग्वैश्वः स्यादुत्तरो द्विजः। अभ्यङ्ग दर्भपिञ्जालैस्त्रिभिः कुर्याद्यथाविधि ।। १३.
अपसव्यं पितृभ्यश्च दद्यादन्नमनुत्तमम्। तमुच्चार्य्याथ सर्वेषां वस्त्रार्थं सूत्रमेव च ।। १३.
खण्डनं पोषणं चैव तथैवोल्लेखनं तथा। सकृदेव हि देवानां पितॄणां त्रिभिरुच्यते ।। १३.
एकं पवित्रं हस्तेन पितॄन्सर्वान्सकृत्सकृत्। चैलमन्त्रेण पिण्डेभ्यो दत्त्वा दर्शनजं हितम् ।। १३.
सदा सर्पिस्तिलैर्युक्तां स्त्रीन् पिण्डान्निर्वपेद्भुवि। जानुं कृत्वा तथा सव्यं भूमौ पितृपरायणः ।। १३.
पितॄन् पितामहांश्चैव तथैव प्रपितामहान्। आहूय च पितॄन् प्राञ्चान् पितृतीर्थेन यत्नतः। पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः ।। १३.
अन्नेनाद्भिश्च पुष्पैश्च भक्ष्यैश्चैव पृथग्विधैः। पृथग् मातामहानान्तु केचिदिच्छन्ति मानवाः ।। १३.
त्रीन् पिण्डानानुपूर्व्व्येण साङ्गुष्ठान्पुष्टिवर्द्धनान् । जान्वन्तराभ्यां यत्नेन पिण्डान् दद्याद्यथाक्रमम् ।। १३.
सव्योत्तराभ्यां पाणिभ्यां धर्मे मन्त्रे च पर्य्ययः। नमो वः पितरः सूक्ष्मैः सदा ह्येवमतन्द्रितः ।। १३.
दक्षिणस्यान्तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत्। नमो वः पितरः सौम्याः पठन्नित्यमतन्द्रितः ।। १३.
सव्योत्तराभ्यां पाणिभ्यां धर्मे सर्व्वमतन्द्रितः। उलूखलस्य लेखाया मुदपात्राच्च सेवनम् ।। १३.
क्षौमसूत्रं नवं दद्याच्छोणं कार्पासिकं तथा। पत्रोर्णं पितृसूत्रञ्च कौशेयं परिवर्जयेत् ।। १३.
वर्जयेत्तद्दशां यज्ञे यदप्यहतवस्त्रजाम्। न प्रीणन्ति तथैतानि दातुराप्यायतो भवेत् ।। १३.
श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च। कृष्णेभ्यश्च तिलेभ्यश्च यत्तैलं परिरक्षितम् ।। १३.
चन्दनागुरुणी चोभे तमालोशीरपझकम्। धूपं च गुग्गुलश्रेष्ठं तुरुष्कं धूपमेव च ।। १३.
शुक्लाः सुमनसः श्रेष्ठास्तथा पझोत्पलानि च। गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ।। १३.
जवासुमनसो भण्डीरूपकामकुरण्डकाः। पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ।। १३.
यानि गन्धादपेतानि उपगन्धीनि यानि च। वर्जनीयानि पुष्पाणि भूतिमन्विच्छता तदा ।। १३.
द्विजातयस्तथान्विष्ठा नियताः स्युरुदङ्मुखाः। पूजयेद्यजमानस्तु विधिवद्दक्षिणामुखः ।। १३.
तेषामभिमुखो दद्याद्दर्भान्पिण्डांश्च यत्नतः। अनेन विधिना साक्षादर्च्चयेत् स्वान् पितामहान् ।। १३.
हरिता वै सपिञ्जल्याः पुष्पस्निग्धाः समाहिताः। रत्निमात्रप्रदानेन पितृतीर्थेन संस्थिताः ।। १३.
उपमूले तथा नीलाः प्रस्तराद्यकुलोद्यमाः । तथा श्मामाकनीवारा दुर्वाराः समुदाहृताः ।। १३.
पूर्व्वंकीर्त्तितवाञ्छ्रेष्ठो बभूवाथ प्रजापतिः । तस्य वाला निपतिता भूमौ चाकाशमार्गतः ।। १३.