तत्स्थापयेदमावास्यां गर्त्ते भूचतुरङ्गुले । त्रिःसप्तसंज्ञास्ते यज्ञास्त्रैलोक्यं धार्य्यते तु वै ॥ १२.
तस्य पुष्टिरथैश्वर्य्यमायुः सन्ततिरेव च। विचित्रा भजते लक्ष्मीर्मोक्षं च लभते क्रमात् ॥ १२.
पाप्मापहं पावनीयमश्वमेधफलं तथा। अश्वमेधफलं ह्येतद्द्विजैः सत्कृत्य पूजितम्। मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ॥ १२.
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च। नमः स्वधायै स्वाहायै नित्यमेव भवन्त्युत ॥ १२.
आद्यावसाने श्राद्धस्य त्रिरावर्त्तं जपेत्सदा। पिण्डनिर्वपणे चैव जपेदेतत्समाहितः। पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ १२.
पितॄंस्तत्र्त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत। पठ्यमानः सदा श्राद्धे नियतं ब्रह्मवादिभिः ॥ १२.
राज्यकामो जपेदेनं सदा मन्त्रमतन्द्रितः। वीर्य्यशौचार्थसत्त्वञ्च श्रीरायुर्बलवर्द्धनम् ॥ १२.
प्रीयन्ते पितरो येन जप्येन नियमेन च। सप्तार्च्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ १२.
अमूर्तानां समूर्तानां पितॄणां दीप्त तेजसाम्। नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगचक्षुषा ॥ १२.
इन्द्रादीनां जनयितारो भृगुमारीचयोस्तथा। सप्तर्षीणां पितॄणाञ्च तान्नमस्यामि कामदान् ॥ १२.
मन्वादीनां सुरेशानां सूर्य्याचन्द्रमसोस्तथा। तान्नमस्कृत्य सर्वान्वै पितॄन्कुशलदायकान् ॥ १२.
नक्षत्राणां चरादीनां पितॄनथ पितामहान्। द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ १२.
देवर्षीणाञ्जनयितॄंश्च सर्वलोकनमस्कृतान्। अभयस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः ॥ १२.
प्रजा पतेः कश्यपाय सोमाय वरुणाय च। योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥ १२.
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु। स्वयम्भुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ १२.
एतदुक्तं ससप्तर्षिब्रह्मर्षिगणपूजितम् । पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥ १२.
अनेन विधिना युक्तस्त्रीन्वरान् लभते नरः। अन्नमायुः सुतांश्चैव ददते पितरो भुवि ॥ १२.
भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः। सप्तार्च्चिषं जपेद्यस्तु नित्यमेव समाहितः। सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ॥ १२.
यत्किंचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव च। अनिवेद्य न भोक्तव्यं तस्मिन्नायतने सदा ॥ १२.
क्रमशः कीर्त्तयिष्यामि बलिपात्राण्यतः परम्। येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रृणु ॥ १२.
बृहस्पतिरुवाच।। पालाशं ब्रह्मवर्चस्यमश्वत्थे राज्यभावना। सर्वभूताधिपत्यं च प्लक्षे नित्यमुदाहृतम् ।। १३.
पुष्टिकामं च न्यग्रोधं बुद्धिं प्रज्ञां धृतिं स्मृतिम्। रक्षोघ्नं च यशस्यं च काश्मर्य्यं पात्रमुच्यते ।। १३.
सौभाग्यमुत्तमं लोके मधुके समुदाहृतम्। फल्गुपात्रे च कुर्वाणः सर्वान्कामानवाप्नुयात् ।। १३.
परा द्युतिरथो कर्त्तुः प्राकाश्यं च विशेषतः । बिल्वे लक्ष्मीस्तथा मेधा नित्यमायुष्यमेव च ।। १३.
क्षेत्रारामतडागेषु सर्वसस्येषु चैव हि। वर्षेदजस्रं पर्जन्यो वेणुपात्रेषु कुर्व्वतः ।। १३.
एतेष्वेव सुपात्रेषु ये चैवाग्रयणं ददुः। सकृदप्यत्र यज्ञानां सर्वेषां फलमुच्यते ।। १३.
पितृभ्यो यस्तु माल्यानि सुगन्धीनि च सर्वशः । सदा दद्याच्छ्रिया युक्तः स विभाति दिवाकरः ।। १३.
गुग्गुलादींस्तथा धूपान् पितृभ्यो यः प्रयच्छति। संयुक्तान्मधुसर्पिर्भ्यां सोऽश्वमेधफलं लभेत् ।। १३.
धूपं गन्धगुणोपेतं कान्तं पितृपरायणम्। लभते स्त्रीष्वपत्यानि इह चामुत्र चोभयोः। दद्यादेव पितृभ्यस्तु नित्यमेव ह्यतन्द्रितः ।। १३.
दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति। स लोकेऽप्रतिमं चक्षुः सदा च लभते शूभम् ।। १३.