६२.१४२ तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ । आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः
न चास्य कर्म वै विद्वो न तथा लक्षणं यशः । स्तोत्रं येनास्य कुर्यावो राज्ञस्तेजस्विनो द्विजाः
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । दानधर्मरतो नित्यं सत्यवान् स जितेन्द्रियः । ज्ञानशीलो वदान्यस्तु संग्रामेष्वपराजितः
यानि कर्माणि कृतवान् पृथुश्चापि महाबलः । तानि शीलेन बद्धानि स्तुवद्भिः सूतमागधैः
ततः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः । अनूपदेशं सूताय मगधं मागधाय च
तदा वै पृथिवीपालाः स्तूयन्ते सूतमागधैः । आशीर्वादैः प्रबोध्यन्ते सूतमागधबन्दिभिः
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः । एष वो वृत्तिदो वैन्यो भवन्त्विति नराधिपः
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः । त्वन्नो वृत्तिं विधत्स्वेति महर्षेर्वचनात्तदा । सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया
धनुर्गृहीत्वा बाणांश्च वसुधामार्द्दयद्बली । अस्यार्द्दनभय त्रस्ता गौर्भूत्वा प्राद्रवन्मही
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत । सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात्तदा । ददर्श चाग्रतो वैन्यं कार्मुकोद्यतधारिणम् ॥२.१.
६२.१५२ ज्वलद्भिर्विशिखैर्बाणैर्दीप्ततेजसमच्युतम् । महायोगं महात्मानं दुर्द्धर्षममरैरपि
अलभन्ती तदा त्राणं वैन्यमेवान्वपद्यत । कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सदा
उवाच वैन्यं नाधर्मं स्त्रीवधे परिपश्यसि । कथं धारयिता चासि प्रजा राजन् मया विना
मयि लोकाः स्थिता राजन् मयेदन्धार्यते जगत् । मदृते च विनश्येयुः प्रजाः पार्थिवसत्तम
न मामर्हसि वै हन्तुं श्रेयश्चेत्त्वं चिकीर्षसि । प्रजानां पृथिवीपाल श्रृणु चेदं वचो मम ॥१५५ . उपायतः समारब्धाः सर्वे सिद्धन्त्युपक्रमाः. हत्वापि मां न शक्तस्त्वं प्रजानां पालने नृप
अन्नभूता भविष्यामि जहि कोपं महाद्युते । अवध्याश्च स्त्रियः प्राहुस्तिर्यग्योनिशतेष्वपि । मत्वैवं पृथिवीपाल धर्मं न त्यक्तुमर्हसि
एवं बहुविधं वाक्यं श्रुत्वा राजा महामनाः । क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत्
एकस्यार्थाय यो हन्यादात्मनो वा परस्य वा । एकं प्राणं बहून् वापि कामं तस्यास्ति पातकम्
यस्मिंस्तु निहते भद्रे लभन्ते बहवः सुखम् । तस्मिन्हते शुभे नास्ति पातकञ्चोप पातकम् ॥२.१.
६२.१६२ सोऽहं प्रजानिमित्तं त्वां वधिष्यामि वसुन्धरे । यदि मे वचनं नाद्य करिष्यसि जगद्धितम्
त्वां निहत्याद्य बाणेन मच्छासनपराङ्मुखीम् । आत्मानं प्रथयित्वेह धारयिष्याम्यहं प्रजाः
सा त्वं वचनमासाद्य मम धर्मभृतां वरे । सञ्जीवय प्रजा नित्यं शक्ता ह्यसि न संशयः
दुहितृत्वञ्च मे गच्छ एवमेतं महद्वरम् । नियच्छे त्वान्तु धर्मार्थं प्रयुक्तं घोरदर्शने
प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही । एवमेतदहं राजन् विधास्यामि न संशयः
वत्सन्तु मम तं यच्छ क्षरेयं येन वत्सला । समाञ्च कुरु सर्वत्र मां त्वं धर्मभृतां वर । यथा विष्यन्दमानञ्च क्षीरं सर्वत्र भावये
तत उत्सारयामास शिलाजालानि सर्वशः । धनुष्कोट्या ततो वैन्यस्तेन शैला विवार्द्धिताः
मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा । स्वभावेनाभवंस्तस्याः समानि विषमाणि च
न हि पूर्वनिसर्गे वै विषमे पृथिवीतले । प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते
न सस्यानि न गोरक्षा न कृषिर्न वणिक्पथः । चाक्षुषस्यान्तरे पूर्वमेतदासीत्पुरा किल । वैवस्वतेऽन्तरे तस्मिन्सर्वस्यैतस्य सम्भवः ॥२.१.
६२.१७२ समत्वं यत्र यत्रासीद्भूयस्तस्मिंस्तदेव हि । तत्र तत्र प्रजास्ता वै निवसन्ति स्म सर्वदा