राजते हि स्वधा दुग्धा पात्रेऽस्मिन्पितृभिः पुरा। स्वधादायार्थिभिस्तात तस्मिन्दत्ते तदक्षयम् ॥ १२.
कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव वा। रक्षोघ्नं ब्रह्मवर्च्चस्यं पितॄंस्तत्तद्वितारयेत् ॥ १२.
काञ्चनं राजतं ताम्रं दौहित्रं कुतपस्तिलाः। वस्त्रञ्च पावनीयानि त्रिदण्डो योगमेव च ॥ १२.
श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्यः सनातनः। आयुः कीर्त्तिः प्रजाश्चैव प्रज्ञासन्ततिवर्द्धनः ॥ १२.
दिशि दक्षिणपूर्वस्यां विदिकूस्थानं विशेषतः। सर्वतोरत्निमात्रन्तु चतुरस्रं सुसंहितम् ॥ १२.
वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासनात्। धन्यमारोग्यमायुष्यं बलवर्णविवर्द्धनम् ॥ १२.
तत्र गर्त्तास्त्रयः कार्य्यास्त्रयो दण्डाश्च खादिराः। रत्निमात्रास्तु ते कार्य्या रजतेन विभूषिताः। तेवितस्त्यायताः कार्य्याः सर्व्वतश्चतुरङ्गुलाः ॥ १२.
प्राग्दक्षिणमुखान्भूमौ स्थितानसुषिरंस्तथा। अद्भिः पवित्रपूताभिः प्लावयेत्सततं शुचिः ॥ १२.
पयसा ह्याजगव्येन शोधनं वाग्भिरेव तु। तर्पणात्सततं ह्येवं तृप्तिर्भवति शाश्वती ॥ १२.
इह चामुत्र च श्रीमान्सर्वकर्मसमन्वितः। एवं त्रिषवणस्नातो योऽर्चयेत पितॄन्सदा । मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥ १२.
तत्स्थापयेदमावास्यां गर्त्ते भूचतुरङ्गुले । त्रिःसप्तसंज्ञास्ते यज्ञास्त्रैलोक्यं धार्य्यते तु वै ॥ १२.
तस्य पुष्टिरथैश्वर्य्यमायुः सन्ततिरेव च। विचित्रा भजते लक्ष्मीर्मोक्षं च लभते क्रमात् ॥ १२.
पाप्मापहं पावनीयमश्वमेधफलं तथा। अश्वमेधफलं ह्येतद्द्विजैः सत्कृत्य पूजितम्। मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् ॥ १२.
देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च। नमः स्वधायै स्वाहायै नित्यमेव भवन्त्युत ॥ १२.
आद्यावसाने श्राद्धस्य त्रिरावर्त्तं जपेत्सदा। पिण्डनिर्वपणे चैव जपेदेतत्समाहितः। पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च ॥ १२.
पितॄंस्तत्र्त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत। पठ्यमानः सदा श्राद्धे नियतं ब्रह्मवादिभिः ॥ १२.
राज्यकामो जपेदेनं सदा मन्त्रमतन्द्रितः। वीर्य्यशौचार्थसत्त्वञ्च श्रीरायुर्बलवर्द्धनम् ॥ १२.
प्रीयन्ते पितरो येन जप्येन नियमेन च। सप्तार्च्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ १२.
अमूर्तानां समूर्तानां पितॄणां दीप्त तेजसाम्। नमस्यामि सदा तेभ्यो ध्यानिभ्यो योगचक्षुषा ॥ १२.
इन्द्रादीनां जनयितारो भृगुमारीचयोस्तथा। सप्तर्षीणां पितॄणाञ्च तान्नमस्यामि कामदान् ॥ १२.
मन्वादीनां सुरेशानां सूर्य्याचन्द्रमसोस्तथा। तान्नमस्कृत्य सर्वान्वै पितॄन्कुशलदायकान् ॥ १२.
नक्षत्राणां चरादीनां पितॄनथ पितामहान्। द्यावापृथिव्योश्च तथा नमस्यामि कृताञ्जलिः ॥ १२.
देवर्षीणाञ्जनयितॄंश्च सर्वलोकनमस्कृतान्। अभयस्य सदा दातॄन्नमस्येऽहं कृताञ्जलिः ॥ १२.
प्रजा पतेः कश्यपाय सोमाय वरुणाय च। योगयोगेश्वरेभ्यश्च नमस्यामि कृताञ्जलिः ॥ १२.
पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु। स्वयम्भुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ १२.
एतदुक्तं ससप्तर्षिब्रह्मर्षिगणपूजितम् । पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम् ॥ १२.
अनेन विधिना युक्तस्त्रीन्वरान् लभते नरः। अन्नमायुः सुतांश्चैव ददते पितरो भुवि ॥ १२.
भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः। सप्तार्च्चिषं जपेद्यस्तु नित्यमेव समाहितः। सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् ॥ १२.
यत्किंचित्पच्यते गेहे भक्ष्यं वा भोज्यमेव च। अनिवेद्य न भोक्तव्यं तस्मिन्नायतने सदा ॥ १२.
क्रमशः कीर्त्तयिष्यामि बलिपात्राण्यतः परम्। येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रृणु ॥ १२.