आज्यपा नाम पितरः कर्दमस्य प्रजापतेः । समुत्पन्नस्य पुलहादुत्पन्नास्तस्य वै पुनः ।। ११.
लोकेष्वेतेषु वर्त्तन्ते कामगेषु विहङ्गमाः । एतान्वैश्यगणाः श्राद्धे भावयन्ति फलार्थिनः ।। ११.
एतेषां मानसी सन्या विरजा नाम विश्रुता । ययातेर्जननी साध्वी पत्नी सा नहुषस्य तु ।। ११.
सुकाला नाम पितरो वसिष्ठस्य प्रजापतेः । हिरण्यगर्भस्य सुताः शूद्रास्तान्बावयन्त्युत ।। ११.
मानसा नाम ते लोका वहन्ते यत्र ते दिवि। एतेषां मानसी कन्या नर्मदा सरितां वरा ।। ११.
सा भावयति भूतानि दक्षिणापथगामिनी । जननी त्रसद्दस्योर्हि पुरुकुत्सपरिग्रहः ।। ११.
एतेषामभ्युपगमान्मातुर्मन्वन्तरेश्वरः । मन्वन्त रादौ श्राद्धानि प्रवर्त्तयति सर्वशः ।। ११.
पिदॄणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः । तस्मादिह स्वधर्मेण श्राद्धं देयन्तु श्रद्धया ।। ११.
सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः। दत्तं स्वधां पुरोधाय तथा प्रीणाति वै पितॄन् ।। ११.
सोमस्याप्यायनं कृत्वा ह्यग्नेर्वैवस्वतस्य च। उद गायनञ्चाग्नौ च अश्वमेधं तदामुयात् ।। ११.
पितॄन् प्रीणाति वै भक्त्या पितरः प्रीणयन्ति तम्। पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः। पुष्टिं प्रजां च स्वर्गं प्रयच्छन्ति न संशयः ।। ११.
देवकार्य्यादपि सदा पितृकार्य्यं विशिष्यते। देवताभ्यः पितॄणां हि पूर्व्वमाप्यायनं स्मृतम् ।। ११.
न हि योगगतिः सूक्ष्मा पितॄणामपि तृप्तयः। तपसा हि प्रसिद्धेन दृश्यन्ते मांसचक्षुषा ।। ११.
इत्येते पितरश्चैव लोका दुहितरश्च वै। दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति तान् ।। ११.
चत्वारो मूर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः। तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्व्वन्ति यत्नतः ।। ११.
भक्ताः प्राञ्जलयः सर्वे सेन्द्रास्तद्घतमानसाः। विश्वे च सिकताश्चैव पृश्निजाः श्रृङ्गिणस्तथा ।। ११.
कृष्णाः श्वेतास्त्वजाश्चैव विधिवत्पूजयन्त्युत। प्रजास्ता वातरशना दिवाकीर्त्त्यास्तथैव च ।। ११.
लेखाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः। अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व्व एव च ।। ११.
यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह। पितॄंस्त्वपूजयन्सर्वे नित्यमेव फलार्थिनः ।। ११.
एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः। सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः ।। ११.
हित्वा त्रैलोक्यसंसारं जरामृत्युभयं तथा। मोक्षं योगमयैश्वर्य्यं प्रयच्छन्ति पितामहाः ।। ११.
मोक्षोपायमथैश्वर्य्यं सूक्ष्मदेहाश्च देवताः। कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ।। ११.
ऐश्वर्य्यं विहितं योगमैश्वर्य्यं वित्तमुत्तमम्। योगैश्वर्य्यदृते मोक्षः कथञ्चिन्नोपपद्यते ।। ११.
अपक्षस्यैव गमनं गगने पक्षिणो यथा । वरिष्ठः सर्वधर्म्माणां मोक्षो धर्म्मः सनातनः ।। ११.
विमानानां सहस्राणि युक्तान्यप्सरसांगणैः। सर्वकामप्रसिद्धानि प्रयच्छन्ति पितामहाः ।। ११.
प्रज्ञा पुष्टिः स्मृतिर्मेधा राज्यमारोग्यमेव च। पितॄणां हि प्रसादेन प्राप्यते सुमहात्मना ।। ११.
मुक्तावैढूर्य्यवासांसि वाजिनागायुतानि च। कोटिशश्चापि रत्नानि प्रयच्छन्ति पितामहाः ।। ११.
हंसबर्हिणयुक्तानि मुक्तावैढूर्य्यवन्ति च। किङ्किणीजालनद्धानि सदा पुष्पफलानि च। प्रीत्या नित्यं प्रयच्छन्ति मनुष्याणां पितामहाः ।। ११.
सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते। रजतं रजताक्तं वा पितॄणां पात्रमुच्यते ॥ १२.
रजतस्य तथा चापि दर्शनं दानमेव च। अनन्तमक्षयं स्वर्ग्यं पितॄणां दानमुच्यते। पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥ १२.