सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे। तस्मादमावस्वपत्यत्वं प्रेत्य प्राप्स्यसे फलम् ।। ११.
इत्युक्त्या वै पितरः पुनस्ते तु प्रसादिताः। ध्यात्वा प्रसादं सञ्चक्रुस्तस्यास्ते त्वनुकम्पया ।। ११.
अवश्यम्भाविनं दृष्ट्वा ह्यर्थमूचुस्ततः सुराः । सोमपाः पितरः कन्यां राज्ञश्चैव ह्यमावसोः ।। ११.
उत्पन्नस्य पृथिव्यां तु मानुषत्वे महात्मनः। कन्या भूत्वा त्विमाँल्लोकान्पुनः प्राप्स्यसि स्वानिति ।। ११.
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा। अस्यैव राज्ञो दुहिता अद्रिकायां ह्यमावसोः ।। ११.
पराशरस्य दायादं ऋषेस्त्वं जनयिष्यसि। स वेदमेकं विप्रर्षिश्चतुर्धा वै करिष्यति ।। ११.
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ। विचित्रवीर्य्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि ।। ११.
चित्राङ्गदं चराजानं तेजोबलगुणान्वितम्। एतानुत्पाद्य पुत्रं स्वं पुनर्लोकानवाप्स्यसि ।। ११.
व्यतिक्रमात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम्। तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि ।। ११.
कन्या भूत्वा ततश्च त्वमिमान् लोकानवाप्स्यसि। एवमुक्ता तु दाशेयी जाता सत्यवती तु सा ।। ११.
अद्रिकायां सुता मत्स्यां सुता जाता ह्यमावसोः। अद्रि कामत्स्यसम्भूता गङ्गायामनुसङ्गमे ।। ११.
तस्य राज्ञो हि सा कन्या राज्ञो वीर्य्ये सदैव हि। विरजा नाम ते लोका दिवि रोचन्ति ते गणाः ।। ११.
अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्वरप्रभाः । तान्दानवगणा यक्षा रक्षोगन्धर्व्वकिन्नराः। भूतसर्पपिशाचाश्च भावयन्ति फलार्थिनः ।। ११.
एते पुत्राः समाख्याताः पुलहस्य प्रजापतेः। त्रय एते गणाः प्रोक्ता धर्ममूर्तिधराः शुभाः ।। ११.
एतेषां मानसी कन्या पीवरी नाम विश्रुता। योगिनी योगपत्नी च योगमाता तथैव च ।। ११.
भविता द्वापरं प्राप्य अष्टाविंशन्तु दैवतम्। पराशरकुलोद्भूतः शुको नाम महातपाः ।। ११.
श्रीमान्योगी महायोगी योगस्तस्माद्द्विजोत्तमः। व्यासादरण्यां सम्भूतो विधूम इव पावकः ।। ११.
स तस्यां पितृकन्यायां योगाचार्यान्परिश्रुतान् । कृष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं ववौ ।। ११.
कन्यां कीर्त्तिमतीञ्चैव योगिनीं योगमातरम् । ब्रह्मदत्तस्य जननी महिषी त्वणुहस्य तु ।। ११.
एतानुत्पाद्य धर्मात्मा पुत्रान्योगमवाप्य च। महायोगतपाश्चैव अपरावर्त्तिनीं गतिम् ।। ११.
आदित्यकिरणोपेतं त्वपुनर्भावमास्थितः। सर्वव्यापि विनिर्मुक्तो भविष्यति महामुनिः ।। ११.
अमूर्त्तिमन्तः पितरो धर्ममूर्त्तिधरास्तु ये। त्रय एते गणास्तेषां चत्वारोऽन्ये निबोधत ।। ११.
यान्वक्ष्यामि द्विजश्रेष्ठा मूर्त्तिमन्तो महाप्रभाः। उत्पन्नास्ते स्वधायास्तु कन्या ह्यग्नेः कवेः सुताः ।। ११.
पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः। सर्वकामसमृद्धेषु द्विजा स्तान्भावयन्त्युत ।। ११.
एतेषां मानसी कन्या गौर्नाम दिवि विश्रुता। दत्तसेना कुमारेण शुक्रस्य महिषी प्रिया ।। ११.
एकत्रिंशच्च विख्याता भृगूणां कीर्त्तिवर्द्धनाः। मरीचिगर्भास्ते लोकाः समावृत्य दिवि स्थिताः ।। ११.
एते ह्यङ्गिरसः पुत्राः साध्यैः सह विवर्द्धिताः। उपहूताः स्मृतास्ते तु पितरो भास्वरा दिवि। तान्क्षत्रियगणान्दृष्ट्वा भावयन्ति फलार्थिनः ।। ११.
एतेषां मानसी कन्या यशोदा नाम विश्रुता। पत्नी सा विश्वमहतः स्नुषा वै विश्वशर्म्मिणः ।। ११.
राजर्षेर्जननी देवी खट्वाङ्गस्य महात्मनः। यस्य यज्ञे पुरा गीता गाथा गीतैर्महर्षिभिः ।। ११.
अग्नेर्जन्म तथा दृष्ट्वा शाण्डिल्यस्य महात्मनः। यजमानं दिलीपं ये पश्यन्ति सुसमाहिताः। सत्यव्रतं महात्मानं ते स्वर्गजयिनोऽमराः ।। ११.