मयूरः कुक्कुटश्चैव पताका चैव वायुना। यस्य दत्ता सरस्वत्या महावीणा महास्वना। अजः स्वयम्भुवा दत्तो मेषो दत्तश्च शम्भुना ।। ११.
माया विहरणे विप्रा गिरौ क्रौञ्चे निपातिते। तारके चासुरवरे समुदीर्णे निपातिते ।। ११.
सेन्द्रोपेन्द्रैर्महाभागैर्देवरैग्निसुतः प्रभुः । सेनापत्येन दैत्यारिरभिषिक्तः प्रतापवान् ।। ११.
देवसेनापतिस्त्वेवं पठ्यते नरनायकः। देवारिस्कन्दनः स्कन्दः सर्वलोकेश्वरः प्रभुः ।। ११.
प्रमथैर्विविधैर्दवैस्तथा भूत गणैरपि । मातृभिर्विविधाभिश्च विनायकगणैस्तथा ।। ११.
सा त्वपश्यद्विमानानि पतन्ती सा दिवश्च्युता । त्रसरेणुप्रमाणानि तेष्वपश्यच्च्युतान् पितॄन् ।। ११.
सुसूक्ष्मानपरित्यक्तानग्नीनग्निष्विवाहितान्। त्रायध्वमित्युवाचाथ पतन्ती तानवाक्शिराः ।। ११.
तैरुक्ता सा तु माभैषीरित्युक्ताधिष्ठिताभवत्। ततः प्रासादयत्सा वै पितॄंस्तान् दीनया गिरा ।। ११.
ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात्। भ्रष्टैश्वर्या स्वदोषेण तपसि त्वं शुचिस्मिते ।। ११.
यैः क्रियन्ते च कर्म्माणि शरीरैरिह दैवतैः । तैरेव तत्कर्मफलं प्राप्नुवन्तीह देवताः ।। ११.
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे। तस्मादमावस्वपत्यत्वं प्रेत्य प्राप्स्यसे फलम् ।। ११.
इत्युक्त्या वै पितरः पुनस्ते तु प्रसादिताः। ध्यात्वा प्रसादं सञ्चक्रुस्तस्यास्ते त्वनुकम्पया ।। ११.
अवश्यम्भाविनं दृष्ट्वा ह्यर्थमूचुस्ततः सुराः । सोमपाः पितरः कन्यां राज्ञश्चैव ह्यमावसोः ।। ११.
उत्पन्नस्य पृथिव्यां तु मानुषत्वे महात्मनः। कन्या भूत्वा त्विमाँल्लोकान्पुनः प्राप्स्यसि स्वानिति ।। ११.
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा। अस्यैव राज्ञो दुहिता अद्रिकायां ह्यमावसोः ।। ११.
पराशरस्य दायादं ऋषेस्त्वं जनयिष्यसि। स वेदमेकं विप्रर्षिश्चतुर्धा वै करिष्यति ।। ११.
महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ। विचित्रवीर्य्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि ।। ११.
चित्राङ्गदं चराजानं तेजोबलगुणान्वितम्। एतानुत्पाद्य पुत्रं स्वं पुनर्लोकानवाप्स्यसि ।। ११.
व्यतिक्रमात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम्। तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि ।। ११.
कन्या भूत्वा ततश्च त्वमिमान् लोकानवाप्स्यसि। एवमुक्ता तु दाशेयी जाता सत्यवती तु सा ।। ११.
अद्रिकायां सुता मत्स्यां सुता जाता ह्यमावसोः। अद्रि कामत्स्यसम्भूता गङ्गायामनुसङ्गमे ।। ११.
तस्य राज्ञो हि सा कन्या राज्ञो वीर्य्ये सदैव हि। विरजा नाम ते लोका दिवि रोचन्ति ते गणाः ।। ११.
अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्वरप्रभाः । तान्दानवगणा यक्षा रक्षोगन्धर्व्वकिन्नराः। भूतसर्पपिशाचाश्च भावयन्ति फलार्थिनः ।। ११.
एते पुत्राः समाख्याताः पुलहस्य प्रजापतेः। त्रय एते गणाः प्रोक्ता धर्ममूर्तिधराः शुभाः ।। ११.
एतेषां मानसी कन्या पीवरी नाम विश्रुता। योगिनी योगपत्नी च योगमाता तथैव च ।। ११.
भविता द्वापरं प्राप्य अष्टाविंशन्तु दैवतम्। पराशरकुलोद्भूतः शुको नाम महातपाः ।। ११.
श्रीमान्योगी महायोगी योगस्तस्माद्द्विजोत्तमः। व्यासादरण्यां सम्भूतो विधूम इव पावकः ।। ११.
स तस्यां पितृकन्यायां योगाचार्यान्परिश्रुतान् । कृष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं ववौ ।। ११.
कन्यां कीर्त्तिमतीञ्चैव योगिनीं योगमातरम् । ब्रह्मदत्तस्य जननी महिषी त्वणुहस्य तु ।। ११.
एतानुत्पाद्य धर्मात्मा पुत्रान्योगमवाप्य च। महायोगतपाश्चैव अपरावर्त्तिनीं गतिम् ।। ११.