महायोगबलोपेता महादेवमुपस्थिता। दन्तकाण्वोशना तस्याः पुत्रो वै भृगुनन्दनः ।। ११.
असितस्यैकपर्णी तु पत्नी साध्वी दृढव्रता। दत्ता हिमवता तस्मै योगाचार्याय धीमते। देवलं सुषुवे सा तु ब्रह्मिष्ठं मानसं सुतम् ।। ११.
या चैतासां कुमारीणां तृतीया त्वेकपाटला। पुत्रं शतशिलाकस्य जैगीषव्यमुपस्थिता ।। ११.
तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ। इत्येता वै महाभागाः कन्या हिमवतः शुभाः ।। ११.
रुद्राणी सा तु प्रवरा स्वगुणैरतिरिच्यते। अन्योन्यप्रीतिरनयोरुमाशङ्करयोर्यथा ।। ११.
श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा। ताभ्यां मैथुनसक्ताभ्यामपत्योद्भवभीरुणा। तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ।। ११.
अनयो रतिविघ्नञ्च त्वमाचर हुताशन। सर्वत्र गत एव त्वं न दोषो विद्यते तदा ।। ११.
इत्येवमुक्ते तु तथा वह्निना च तथा कृतम्। उमादेहं समुत्सृज्य शुक्रं भूमौ विसर्जितम् ।। ११.
ततो रुषितया देव्या शप्तोऽग्निः शांशपायन। इदं चोक्तवती वह्निं रोषगद्घदया गिरा ।। ११.
यस्मान्मय्यवितृप्तायां रतिविघ्नं हुताशन। कृतवानस्यकर्त्तव्यं तस्मात्त्वमसि दुर्मते ।। ११.
यदेवं विभृतं गर्भं रौद्रं शुक्रं महाप्रभम्। गर्भं त्वं धारयस्वैवमेषा ते दण्डधारणा ।। ११.
स शापरोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः। बहून्वर्षगणान् गर्भं धारयामास वै द्विजाः ।। ११.
स गङ्गामुपगम्याह श्रूयतां सरिदुत्तमे। सुमहान् परिखेदो मे गर्भधारणकारणात् ।। ११.
मद्धितार्थमिमं गर्भमतो धारय निम्नगे। मत्प्रसादाच्च खेदो वै मन्दस्तव भविष्यति ।। ११.
तथेत्युक्त्वा तदा सा तु सम्प्रहृष्ट महानदी। तं गर्भं धारयामास दह्यमानेन चेतसा ।। ११.
सापि कृच्छ्रेण महता खिद्यमाना महानदी। कालं प्रकृष्टं सुमहद्घर्भधारणतत्परा ।। ११.
तया परिगतं गर्भं कुक्षौ हिमवतः शुभे। शुभं शरवणं नाम चित्रं पुष्पितपादपम्। तत्र तं व्यसृजद्गर्भं दीप्यमानामिवानलम् ।। ११.
रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः । आदित्यशतसङ्काशो महातेजाः प्रतापवान् ।। ११.
तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते। विमानयानैराकाशं पतत्रिभिरिवावृतम् ।। ११.
देवदुन्दुभयो नेदुराकाशे मधुरस्वराः। मुमुचुः पुष्पवर्षञ्च खचराः सिद्धचारणाः ।। ११.
जगुर्गन्धर्व्वमुख्याश्च सर्व्वशस्तत्र तत्र ह। यक्षा विद्याधराः सिद्धाः किन्नराश्चैव सर्वशः ।। ११.
महानाग सहस्राणि प्रवराश्च पतत्रिणः । उपतस्थुर्महाभागमाग्नेयं शङ्करात्मजम्। प्रभावेण तदा तेन दैत्यदानवराक्षसाः ।। ११.
सह सप्तर्षिभार्याभिरादावे वाग्निसम्भवः। अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम् ।। ११.
ताभिः स बालार्कनिभो रौद्रः परिवृतः प्रभुः । स्निह्यमानाभिरत्यर्थं स्वकाभिरिव मातृभिः ।। ११.
युगपत्सर्वदेवीर्हि दिदृक्षुर्जाह्नवीसुतः। षप्मुखो व्यसृजच्छ्रीमांस्तासां प्रीत्या महाद्युतिः ।। ११.
श्रीमान् कमलपत्राक्षस्तरुणादित्य सन्निभः। येन जातेन लोकानामाक्षेपस्तेजसा कृतः ।। ११.
तेन जातेन महता देवानामसहिष्णवः। स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान् ।। ११.
कृत्तिकाभिस्तु यस्मात् संवर्द्धितः स पुरातनः। कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः ।। ११.
जृम्भतस्तस्य दैत्यारेर्ज्वालामालाकुलात्तदा। मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता ।। ११.
क्रीडार्थञ्चैव स्कन्दस्य विष्णुना प्रभविष्णुना। गरुडादिति सृष्टौ हि पक्षिणौ हि प्रभद्रकौ ।। ११.