जातः सर्वैषधिधरः सर्वरत्नाकरात्मवान्। पर्वतः प्रवरः पुण्यः क्रौञ्चस्तस्यात्मजोऽभवत् ।। ११.
तिस्रः कन्यास्तु मेनायां जनयामास शैलराट्। अपर्णामेकपर्णाञ्च तृतीयामेकपाटलाम् ।। ११.
आश्रिते द्वे ह्यपर्णा तु अनिकेता तपोऽचरत्। न्यग्रोधमेकपर्णी तु पाटलामेकपाटला। शतं वर्षसहस्राणि दुश्चरं देवदानवैः ष।। ११.
आहारमेकपर्णेन एकपर्णी समाचरत्। पाटलेनैव चैकेन विदध्यादेकपाटला ।। ११.
पूर्णे पूर्णे सहस्रे द्वे आहारं वै प्रजक्रतुः । एका तत्र निराहारा तां माता प्रत्यभाषत ।। ११.
निषेधयन्ती ह्युमेति माता स्रेहेन दुःखिता। सा तथोक्ततया देवी मात्रा दुश्चरचारिणी ।। ११.
उमेति सा महाभागा त्रिषु लोकेषु विश्रुता । तथेति नाम्ना तेनासौ निरुक्ता कर्मणा शुभा ।। ११.
एतत्तु त्रिकुमारीकं जगत्स्यास्यति शाश्वतम्। एतासां तपसा दृप्तं यावद्भूमिद्धरिष्यति ।। ११.
तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः। देव्यस्ताः सुमहाभागाः सर्व्वाश्च स्थिरयौवनाः ।। ११.
सर्वाश्च ब्रह्मवादिन्यः सर्वा श्चैवोर्द्ध्वरेतसः। उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ।। ११.
महायोगबलोपेता महादेवमुपस्थिता। दन्तकाण्वोशना तस्याः पुत्रो वै भृगुनन्दनः ।। ११.
असितस्यैकपर्णी तु पत्नी साध्वी दृढव्रता। दत्ता हिमवता तस्मै योगाचार्याय धीमते। देवलं सुषुवे सा तु ब्रह्मिष्ठं मानसं सुतम् ।। ११.
या चैतासां कुमारीणां तृतीया त्वेकपाटला। पुत्रं शतशिलाकस्य जैगीषव्यमुपस्थिता ।। ११.
तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ। इत्येता वै महाभागाः कन्या हिमवतः शुभाः ।। ११.
रुद्राणी सा तु प्रवरा स्वगुणैरतिरिच्यते। अन्योन्यप्रीतिरनयोरुमाशङ्करयोर्यथा ।। ११.
श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा। ताभ्यां मैथुनसक्ताभ्यामपत्योद्भवभीरुणा। तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः ।। ११.
अनयो रतिविघ्नञ्च त्वमाचर हुताशन। सर्वत्र गत एव त्वं न दोषो विद्यते तदा ।। ११.
इत्येवमुक्ते तु तथा वह्निना च तथा कृतम्। उमादेहं समुत्सृज्य शुक्रं भूमौ विसर्जितम् ।। ११.
ततो रुषितया देव्या शप्तोऽग्निः शांशपायन। इदं चोक्तवती वह्निं रोषगद्घदया गिरा ।। ११.
यस्मान्मय्यवितृप्तायां रतिविघ्नं हुताशन। कृतवानस्यकर्त्तव्यं तस्मात्त्वमसि दुर्मते ।। ११.
यदेवं विभृतं गर्भं रौद्रं शुक्रं महाप्रभम्। गर्भं त्वं धारयस्वैवमेषा ते दण्डधारणा ।। ११.
स शापरोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः। बहून्वर्षगणान् गर्भं धारयामास वै द्विजाः ।। ११.
स गङ्गामुपगम्याह श्रूयतां सरिदुत्तमे। सुमहान् परिखेदो मे गर्भधारणकारणात् ।। ११.
मद्धितार्थमिमं गर्भमतो धारय निम्नगे। मत्प्रसादाच्च खेदो वै मन्दस्तव भविष्यति ।। ११.
तथेत्युक्त्वा तदा सा तु सम्प्रहृष्ट महानदी। तं गर्भं धारयामास दह्यमानेन चेतसा ।। ११.
सापि कृच्छ्रेण महता खिद्यमाना महानदी। कालं प्रकृष्टं सुमहद्घर्भधारणतत्परा ।। ११.
तया परिगतं गर्भं कुक्षौ हिमवतः शुभे। शुभं शरवणं नाम चित्रं पुष्पितपादपम्। तत्र तं व्यसृजद्गर्भं दीप्यमानामिवानलम् ।। ११.
रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः । आदित्यशतसङ्काशो महातेजाः प्रतापवान् ।। ११.
तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते। विमानयानैराकाशं पतत्रिभिरिवावृतम् ।। ११.
देवदुन्दुभयो नेदुराकाशे मधुरस्वराः। मुमुचुः पुष्पवर्षञ्च खचराः सिद्धचारणाः ।। ११.