कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसि। विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ।। १०.
द्यौरन्तरिक्षं पृथिवी नक्षत्राणि दिशस्तथा। सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च ।। १०.
न बभूवुस्तदा तात तमोभूतमिदं जगत्। ब्रह्मैको दुश्चरं तत्र चचार परमं तपः ।। १०.
शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम्। सर्वदैव व्रतस्नातं सर्वज्ञानविदांवरम् ।। १०.
कीदृशं सर्वभूते शस्तपस्तेपे प्रजापतिः। एवमुक्तो बृहत्तेजा बृहस्पतिरुवाच तम् ।। १०.
सर्वेषां तपसां युक्तिस्तपोयोगमनुत्तमम्। ध्यायंस्तदा तद्भगवांस्तेन लोकनवासृजत् ।। १०.
भूतभव्यानि ज्ञानानि लोकान्वेदांश्च कृत्स्नशः। योगमाविश्य तत्सृष्टं ब्रह्मणा योगचक्षुषा ।। १०.
लोकाः सान्तानिका नाम यत्र तिष्ठन्ति भास्वराः। ते वैराजा इति ख्याता देवानां दिवि देवताः ।। १०.
योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः। देवानसृजत ब्रह्मा योगं युक्त्वा सनातनम् ।। १०.
आदिदेवा इति ख्याता महासत्त्वा महौजसः। सर्वकामप्रदाः पूज्या देवदानवमानवैः ।। १०.
तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः । अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु सुमूर्त्तयः ।। १०.
उपरिष्टात्रयस्तेषां वर्त्तन्ते भावमूर्त्तयः। तेषामधस्ताद्वर्त्तन्ते चत्वारः सूक्षममूर्त्तयः ।। १०.
ततो देवास्ततो भूमिरेषा लोकपरम्परा। लोके वर्त्तन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसम्भवः । वृष्टिर्भवति तैर्वृष्ट्या लोकानां सम्भवः पुनः ।। १०.
आप्याययन्ति ते यस्मात्सोमञ्चान्नञ्च योगतः। ऊचुस्तान्वै पितॄंस्तस्माल्लोकानां लोकसत्तमाः ।। १०.
मनोजवाः स्वधाभक्षाः सर्वकामपरिच्छदाः। लोभमोहभयापेता निश्चिताः शोकवर्जिताः ।। १०.
एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान्। दिव्याः पुण्या महात्मानो विपाप्मानो भवन्त्युत ।। १०.
ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः। प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्त्तयः ।। १०.
व्यक्ताव्यक्तं परित्यज्य महायोगबलेन वा । नश्यन्त्युल्केव गगने क्षीणविद्युत्प्रभेव च ।। १०.
उत्सृज्य देहजातानि महायोगबलेन च। निराख्योपाख्यतां यान्ति सरितः सागरे यथा ।। १०.
क्रियया गुरुपूजाभिर्ये च कुर्वन्ति नित्यशः। ताभिराप्याययन्त्येते पितरो योगवर्द्धनाः ।। १०.
श्राद्धे प्रीताः पुनः सोमं पितरो योगमास्थिताः। आप्याययन्ति योगेन त्रैलोक्यं येन जीवति ।। १०.
तस्माच्छ्राद्धानि देयानि योगिभ्यो यत्नतः सदा। पितॄणां हि बलं योगो योगात्सोमः प्रवर्त्तते ।। १०.
सहस्रशस्तु विप्रान्वै भोजयेद्यावदागतान् १०.
कल्पितानां सहस्रेण स्नातकानां शतेन च। योगाचार्येण यद्भुक्तं त्रायते महतो भयात् ।। १०.
गृहस्थानां सहस्रेण वानप्रस्थशतेन च। ब्रह्मचारिसहस्रेण योगी ह्येको विशिष्यते ।। १०.
नास्तिको वा विकर्मा वा सङ्कीर्णस्तस्करोऽपि वा। नान्यत्र कारणं दानं योगेष्वाह प्रजापतिः ।। १०.
पितरस्तस्य तुष्यन्ति सुवृष्टेनेव कर्षकाः। पुत्रो वाप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ।। १०.
अलाभे ध्यानिभिक्षूणां भोजयेद्ब्रह्मचारिणौ । तदलाभेप्युदासीनं गृहस्थमपि भोजयेत् ।। १०.
यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः । ध्यानयोगी परस्तस्मादिति ब्रह्मानुशासनम् ।। १०.
सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम्। तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः ।। १०.