एतद्ब्रह्मवचः श्रुत्वा सूतस्य विहितात्मनः । पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ।। १०.
कियन्तो वै पितृगणाः कस्मिन्काले च ते गणाः । वर्त्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ।। १०.
एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम्। शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ।। १०.
बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम्। पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ।। १०.
क एते पितरो नाम कियन्तः के च नामतः। समुद्भूताः कथञ्चैते पितृत्वं समुपागताः ।। १०.
कस्माच्च पितरं पूर्वं यज्ञे युज्यन्ति नित्यशः। क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम् ।। १०.
कस्मै श्राद्धानि देयानि किञ्च दत्तं महाफलम्। केषु वाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ।। १०.
केषु वै सर्वमाप्नोति श्राद्धं कृत्वा द्विजोत्तमः। कश्च कालो भवेच्च्राद्धे विधिः कश्चानुवर्त्तते ।। १०.
एतदिच्छामि भगवन् विस्तरेण यथातथम्। व्याख्यातुमानुपूर्व्येण यत्र चोदाहृतं मया ।। १०.
बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः। व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ।। १०.
कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसि। विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ।। १०.
द्यौरन्तरिक्षं पृथिवी नक्षत्राणि दिशस्तथा। सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च ।। १०.
न बभूवुस्तदा तात तमोभूतमिदं जगत्। ब्रह्मैको दुश्चरं तत्र चचार परमं तपः ।। १०.
शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम्। सर्वदैव व्रतस्नातं सर्वज्ञानविदांवरम् ।। १०.
कीदृशं सर्वभूते शस्तपस्तेपे प्रजापतिः। एवमुक्तो बृहत्तेजा बृहस्पतिरुवाच तम् ।। १०.
सर्वेषां तपसां युक्तिस्तपोयोगमनुत्तमम्। ध्यायंस्तदा तद्भगवांस्तेन लोकनवासृजत् ।। १०.
भूतभव्यानि ज्ञानानि लोकान्वेदांश्च कृत्स्नशः। योगमाविश्य तत्सृष्टं ब्रह्मणा योगचक्षुषा ।। १०.
लोकाः सान्तानिका नाम यत्र तिष्ठन्ति भास्वराः। ते वैराजा इति ख्याता देवानां दिवि देवताः ।। १०.
योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः। देवानसृजत ब्रह्मा योगं युक्त्वा सनातनम् ।। १०.
आदिदेवा इति ख्याता महासत्त्वा महौजसः। सर्वकामप्रदाः पूज्या देवदानवमानवैः ।। १०.
तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः । अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु सुमूर्त्तयः ।। १०.
उपरिष्टात्रयस्तेषां वर्त्तन्ते भावमूर्त्तयः। तेषामधस्ताद्वर्त्तन्ते चत्वारः सूक्षममूर्त्तयः ।। १०.
ततो देवास्ततो भूमिरेषा लोकपरम्परा। लोके वर्त्तन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसम्भवः । वृष्टिर्भवति तैर्वृष्ट्या लोकानां सम्भवः पुनः ।। १०.
आप्याययन्ति ते यस्मात्सोमञ्चान्नञ्च योगतः। ऊचुस्तान्वै पितॄंस्तस्माल्लोकानां लोकसत्तमाः ।। १०.
मनोजवाः स्वधाभक्षाः सर्वकामपरिच्छदाः। लोभमोहभयापेता निश्चिताः शोकवर्जिताः ।। १०.
एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान्। दिव्याः पुण्या महात्मानो विपाप्मानो भवन्त्युत ।। १०.
ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः। प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्त्तयः ।। १०.
व्यक्ताव्यक्तं परित्यज्य महायोगबलेन वा । नश्यन्त्युल्केव गगने क्षीणविद्युत्प्रभेव च ।। १०.
उत्सृज्य देहजातानि महायोगबलेन च। निराख्योपाख्यतां यान्ति सरितः सागरे यथा ।। १०.
क्रियया गुरुपूजाभिर्ये च कुर्वन्ति नित्यशः। ताभिराप्याययन्त्येते पितरो योगवर्द्धनाः ।। १०.