उक्तञ्च पितरोऽस्माकमिति वै तनयाः स्वकाः। पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः ।। १०.
तेनैव वचसा पुत्रा ब्रह्मणः परमेष्ठिनः। पुत्राः पितृत्त्वमाजग्मुः पुत्रत्वं पितरः पुनः ।। १०.
तस्मात्ते पितरः पुत्राः पितृत्वे तेषु तत्स्मृतम् । एवं स्मृत्वा पितॄन् पुत्रान्पुत्राश्च पितरस्तथा। व्याजहार पुनर्ब्रह्मा पिदॄनात्मविवृद्धये ।। १०.
यो ह्यनिष्ट्वा पितॄञ्छ्राद्धे क्रियां काञिचित्करिष्यति। राक्षसा दानवाश्चैव फलं प्राप्स्यन्ति तस्य तत् ।। १०.
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम्। आप्याय्यमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः ।। १०.
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति । कृत्स्रं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ।। १०.
श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः। तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ।। १०.
श्राद्धे येभ्यः प्रदास्यन्ति त्रीन् पिण्डान् नामगोत्रतः। सर्वत्र वर्त्तमानास्ते पितरः प्रपितामहम्। तेषामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः ।। १०.
एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना। तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः ।। १०.
ते तु ज्ञानप्रदातारः पितरो वो न संशयः। इत्येते पितरो देवा देवाश्च पितरः पुनः । अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ।। १०.
एतद्ब्रह्मवचः श्रुत्वा सूतस्य विहितात्मनः । पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ।। १०.
कियन्तो वै पितृगणाः कस्मिन्काले च ते गणाः । वर्त्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ।। १०.
एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम्। शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ।। १०.
बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम्। पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ।। १०.
क एते पितरो नाम कियन्तः के च नामतः। समुद्भूताः कथञ्चैते पितृत्वं समुपागताः ।। १०.
कस्माच्च पितरं पूर्वं यज्ञे युज्यन्ति नित्यशः। क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम् ।। १०.
कस्मै श्राद्धानि देयानि किञ्च दत्तं महाफलम्। केषु वाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ।। १०.
केषु वै सर्वमाप्नोति श्राद्धं कृत्वा द्विजोत्तमः। कश्च कालो भवेच्च्राद्धे विधिः कश्चानुवर्त्तते ।। १०.
एतदिच्छामि भगवन् विस्तरेण यथातथम्। व्याख्यातुमानुपूर्व्येण यत्र चोदाहृतं मया ।। १०.
बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः। व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ।। १०.
कथयिष्यामि ते तात यन्मां त्वं परिपृच्छसि। विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ।। १०.
द्यौरन्तरिक्षं पृथिवी नक्षत्राणि दिशस्तथा। सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च ।। १०.
न बभूवुस्तदा तात तमोभूतमिदं जगत्। ब्रह्मैको दुश्चरं तत्र चचार परमं तपः ।। १०.
शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम्। सर्वदैव व्रतस्नातं सर्वज्ञानविदांवरम् ।। १०.
कीदृशं सर्वभूते शस्तपस्तेपे प्रजापतिः। एवमुक्तो बृहत्तेजा बृहस्पतिरुवाच तम् ।। १०.
सर्वेषां तपसां युक्तिस्तपोयोगमनुत्तमम्। ध्यायंस्तदा तद्भगवांस्तेन लोकनवासृजत् ।। १०.
भूतभव्यानि ज्ञानानि लोकान्वेदांश्च कृत्स्नशः। योगमाविश्य तत्सृष्टं ब्रह्मणा योगचक्षुषा ।। १०.
लोकाः सान्तानिका नाम यत्र तिष्ठन्ति भास्वराः। ते वैराजा इति ख्याता देवानां दिवि देवताः ।। १०.
योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः। देवानसृजत ब्रह्मा योगं युक्त्वा सनातनम् ।। १०.
आदिदेवा इति ख्याता महासत्त्वा महौजसः। सर्वकामप्रदाः पूज्या देवदानवमानवैः ।। १०.