अत्र वो वर्णयिष्यामि यथाप्रज्ञं यथाश्रुतम्। मन्वन्तरेषु जायन्ते पितरो देवसूनवः ।। १०.
अतीतानागते ज्येष्ठाः कनिष्ठाः क्रमशस्तु ते। देवैः सार्द्धं पुरातीताः पितरो येऽन्तरेषु वै। वर्त्तन्ते साम्प्रतं ये तु तान्वै वक्ष्यामि निश्चयात् ।। १०.
श्राद्धञ्चैषां मनुष्याणां श्राद्धमेव प्रवर्त्तते। देवानसृजन् ब्रह्मा नायक्षन्निति वै पुनः । तमुत्सृज्य तदात्मानमसृजंस्ते फलार्थिनः ।। १०.
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ। न स्म किञ्चिद्विजानन्ति ततो लोके ह्यमुह्यत ।। १०.
ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम्। अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ।। १०.
प्रायश्चित्तं चरध्वं वै व्यभिचारो हि यः कृतः । पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ।। १०.
ततस्ते स्वान्सुतांश्चैव प्रायश्चित्तजिघृक्षवः। अपृच्छन् संयतात्मानो विधिवच्च मिथो मिथः ।। १०.
तेभ्यस्ते नियतात्मानः पुत्राः शंसुरनेकधा। प्रायश्चित्तानि धर्मज्ञा वाङ्मनः कर्म्मजानि तु ।। १०.
ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः। यूयं वै पितरोऽस्माकं ये वयं प्रतिबोधिताः। धर्मज्ञानञ्च कामश्च को वरो वः प्रदीयताम् ।। १०.
पुनस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः। तस्माद्यदुक्तं युष्माभिस्तत्तथा न तदन्यथा ।। १०.
उक्तञ्च पितरोऽस्माकमिति वै तनयाः स्वकाः। पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः ।। १०.
तेनैव वचसा पुत्रा ब्रह्मणः परमेष्ठिनः। पुत्राः पितृत्त्वमाजग्मुः पुत्रत्वं पितरः पुनः ।। १०.
तस्मात्ते पितरः पुत्राः पितृत्वे तेषु तत्स्मृतम् । एवं स्मृत्वा पितॄन् पुत्रान्पुत्राश्च पितरस्तथा। व्याजहार पुनर्ब्रह्मा पिदॄनात्मविवृद्धये ।। १०.
यो ह्यनिष्ट्वा पितॄञ्छ्राद्धे क्रियां काञिचित्करिष्यति। राक्षसा दानवाश्चैव फलं प्राप्स्यन्ति तस्य तत् ।। १०.
श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम्। आप्याय्यमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः ।। १०.
श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति । कृत्स्रं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ।। १०.
श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः। तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ।। १०.
श्राद्धे येभ्यः प्रदास्यन्ति त्रीन् पिण्डान् नामगोत्रतः। सर्वत्र वर्त्तमानास्ते पितरः प्रपितामहम्। तेषामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः ।। १०.
एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना। तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः ।। १०.
ते तु ज्ञानप्रदातारः पितरो वो न संशयः। इत्येते पितरो देवा देवाश्च पितरः पुनः । अन्योन्यं पितरो ह्येते देवाश्च पितरश्च ह ।। १०.
एतद्ब्रह्मवचः श्रुत्वा सूतस्य विहितात्मनः । पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ।। १०.
कियन्तो वै पितृगणाः कस्मिन्काले च ते गणाः । वर्त्तन्ते देवप्रवरा देवानां सोमवर्द्धनाः ।। १०.
एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम्। शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ।। १०.
बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम्। पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ।। १०.
क एते पितरो नाम कियन्तः के च नामतः। समुद्भूताः कथञ्चैते पितृत्वं समुपागताः ।। १०.
कस्माच्च पितरं पूर्वं यज्ञे युज्यन्ति नित्यशः। क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम् ।। १०.
कस्मै श्राद्धानि देयानि किञ्च दत्तं महाफलम्। केषु वाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ।। १०.
केषु वै सर्वमाप्नोति श्राद्धं कृत्वा द्विजोत्तमः। कश्च कालो भवेच्च्राद्धे विधिः कश्चानुवर्त्तते ।। १०.
एतदिच्छामि भगवन् विस्तरेण यथातथम्। व्याख्यातुमानुपूर्व्येण यत्र चोदाहृतं मया ।। १०.
बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः। व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ।। १०.