६२.१२० तस्मात् प्रमथ्यमानाद्वै जज्ञे पूर्वमभिश्रुतः । ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि तथा द्विजाः
स भीतः प्राञ्जलिश्चैव स्थितवान् व्याकुलेन्द्रियः । तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन् किल
निषादवंशकर्त्ताऽसौ बभूवानन्तविक्रमः । धीवरानसृजत्सोऽपि वेनकल्मषसम्भवान्
ये चान्ये विन्ध्यनिलयास्तुम्बुरातुवराः खसाः । अधर्मरुचयश्चापि सम्भूता वेनकल्मषात्
पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् । अरणीमिव संरम्भान्ममन्थुर्जातमन्यवः
पृथुस्तस्मात् समुत्पन्नः करास्फालनतेजसः । पृथोः करतलाद्वापि यस्माज्जातः पृथुस्ततः । दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्वलन्
आद्यमाजगवं नाम धनुर्गृह्य महारवम् । शरांश्च बिभ्रद्रक्षार्थं कवचञ्च महाप्रभम्
तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः । समुत्पन्ने महारात्रि वेनश्च त्रिदिवङ्गतः
समुत्पन्नेन राजर्षिः स सत्पुत्रेण धीमता । पुरुषव्याघ्रः पुन्नाम्नो नरकात्र्त्रायते ततः
तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः । समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् । महता राजराज्येन महाराजं महाद्युतिम्
६२.१३० सोऽभिषिक्तो महाराजा देवैरङ्गिरसः सुतैः । आदिराजो महाराजः पृथुर्वैन्यः प्रतापवान्
पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । ततो राजेति नामास्य अनुरागादजायत
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः । पर्वताश्च विशीर्यन्ते ध्वजभङ्गश्च नाभवत्
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु
एतस्मिन्नेव काले च यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः । तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः
ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः । जुहावेन्द्राय देवेन ततः सूतो व्यजायत
प्रमादस्तत्र सञ्जज्ञे प्रायश्चित्तञ्च कर्मसु । शिष्यहव्येन यत्पृक्तमाभिभूतं गुरोर्हविः । अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम्
यच्च क्षत्रात्सम्भवद्ब्राह्मण्यां हीनयोनितः । सूतः पूर्वेण साधर्मतुल्यधर्मः प्रकीर्त्तितः
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् । रथनागाश्च चरितं जघन्यञ्च चिकित्सितम्
पृथोः स्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः । तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः । कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥२.१.
६२.१४२ तावूचतुस्तदा सर्वांस्तानृषीन्सूतमागधौ । आवां देवानृषींश्चैव प्रीणयावः स्वकर्मभिः
न चास्य कर्म वै विद्वो न तथा लक्षणं यशः । स्तोत्रं येनास्य कुर्यावो राज्ञस्तेजस्विनो द्विजाः
ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । दानधर्मरतो नित्यं सत्यवान् स जितेन्द्रियः । ज्ञानशीलो वदान्यस्तु संग्रामेष्वपराजितः
यानि कर्माणि कृतवान् पृथुश्चापि महाबलः । तानि शीलेन बद्धानि स्तुवद्भिः सूतमागधैः
ततः स्तवान्ते सुप्रीतः पृथुः प्रादात् प्रजेश्वरः । अनूपदेशं सूताय मगधं मागधाय च
तदा वै पृथिवीपालाः स्तूयन्ते सूतमागधैः । आशीर्वादैः प्रबोध्यन्ते सूतमागधबन्दिभिः
तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः । एष वो वृत्तिदो वैन्यो भवन्त्विति नराधिपः
ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः । त्वन्नो वृत्तिं विधत्स्वेति महर्षेर्वचनात्तदा । सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया
धनुर्गृहीत्वा बाणांश्च वसुधामार्द्दयद्बली । अस्यार्द्दनभय त्रस्ता गौर्भूत्वा प्राद्रवन्मही
तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत । सा लोकान् ब्रह्मलोकादीन् गत्वा वैन्यभयात्तदा । ददर्श चाग्रतो वैन्यं कार्मुकोद्यतधारिणम् ॥२.१.