श्वेताः कृष्णाश्च गौराश्च श्यामा धूम्राः समूलिकाः। ऊष्मपा दारकाश्चैव नीलाश्चैव पराशराः। पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् ।। ९.
अत ऊर्द्ध्वं निबोधध्वमिन्द्रप्रतिमसम्भवम्। वसिष्ठस्य कपिञ्जल्यां घृताच्यां समपद्यत। कुशीतियः समाख्यात इन्द्रप्रतिम उच्यते ।। ९.
पृथोः सुतायाः सम्भूतः पुत्रस्तस्या भवद्वसुः। उपमन्युः सुतस्तस्य यस्येमे उपमन्यवः ।। ९.
मित्रावरुणयोश्चैव कुण्डिनो ये परिश्रुताः। एकार्षेयास्तथैवान्ये वसिष्ठा नाम विश्रुताः। एते पक्षा वसिष्ठानां स्मृता एकादशेव तु ।। ९.
इत्येते ब्रह्मणः पुत्रा मानसा ह्यष्ट विश्रुताः। भ्रातरः सुमहाभागा तेषां वंशाः प्रतिष्ठिताः ।। ९.
त्रींल्लोकान्धारयन्तीमान्देवर्षिगणसङ्कुलान् । तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः। यैर्व्याप्ता पृथिवी सर्वा सूर्य्यस्येव गभस्तिभिः ।। ९.
एतच्छ्रुत्वा वचस्तस्य सुतस्य विदितात्मनः। उत्तरं परिपप्रच्छुः सूतपुत्रं द्विजातयः ।। १०.
कथं द्वितीयमुत्पन्ना भवानी प्राक्सती तु या। आसीद्दाक्षायणी पूर्वमुमा कथम जायत ।। १०.
मेनायां पितृकन्यायां जनयामास शैलरुट्। केचैते पितरश्चैव येषां मेना तु मानसी ।। १०.
मैनाकश्चैव दौहित्रो दौहित्री च तथा ह्युमा। एकपर्णा तथा चैव तथा या चैकपाटला ।। १०.
गङ्गा चैव सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा। पूर्वमेव मयोद्दिष्टं श्रृणुध्वं मम सर्वशः ।। १०.
अनेके पितरश्चैव वर्त्तन्ते व्क च वा पुनः। श्रोतुमिच्छामि भद्रन्ते श्राद्धस्य च परं विधिम् ।। १०.
पुत्राश्च ते स्मृताः केषां कथञ्च पितरस्तु ते । पितरः कथमुत्पन्नाः कस्य पुत्राः किमात्मकाः ।। १०.
स्वर्गे तु पितरोऽन्ये ये देवानामपि देवताः। एवं वै श्रोतुमिच्छामि पितॄणां सर्गमुत्तमम्। यथावद्दत्तमस्माभिः श्राद्धं प्रीणाति वै पितॄन् ।। १०.
यदर्थं तेन दृश्यन्ते तत्र किं कारणं स्मृतम्। स्वर्गे हि के तु वर्त्तन्ते पितरो नरके तु के ।। १०.
अभिसन्धाय पितरं पितुश्च पितरं तथा। पितुः पितामहञ्चैव त्रिषु पिण्डेषु नामतः ।। १०.
कानि श्राद्धानि देयानि कथं गच्छन्ति वै पितॄन् । कथञ्च शक्तास्ते दातुं नरकस्थाः फलं पुनः ।। १०.
के चेह पितरो नाम कान् यजामो वयं पुनः । देवा अपि पुतॄन् स्वर्गे यजन्तीति हि नः श्रुतम् ।। १०.
एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुत। स्पष्टाभिधानमर्थं वै तद्भवान्वक्तुमर्हति ।। १०.
ऋषीणान्तु वचः श्रुत्वा सूतस्तत्त्वार्थदर्शिवान्। आचचक्षे यथाप्रश्रं ऋषीणां मानसं ततः ।। १०.
अत्र वो वर्णयिष्यामि यथाप्रज्ञं यथाश्रुतम्। मन्वन्तरेषु जायन्ते पितरो देवसूनवः ।। १०.
अतीतानागते ज्येष्ठाः कनिष्ठाः क्रमशस्तु ते। देवैः सार्द्धं पुरातीताः पितरो येऽन्तरेषु वै। वर्त्तन्ते साम्प्रतं ये तु तान्वै वक्ष्यामि निश्चयात् ।। १०.
श्राद्धञ्चैषां मनुष्याणां श्राद्धमेव प्रवर्त्तते। देवानसृजन् ब्रह्मा नायक्षन्निति वै पुनः । तमुत्सृज्य तदात्मानमसृजंस्ते फलार्थिनः ।। १०.
ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ। न स्म किञ्चिद्विजानन्ति ततो लोके ह्यमुह्यत ।। १०.
ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम्। अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ।। १०.
प्रायश्चित्तं चरध्वं वै व्यभिचारो हि यः कृतः । पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ।। १०.
ततस्ते स्वान्सुतांश्चैव प्रायश्चित्तजिघृक्षवः। अपृच्छन् संयतात्मानो विधिवच्च मिथो मिथः ।। १०.
तेभ्यस्ते नियतात्मानः पुत्राः शंसुरनेकधा। प्रायश्चित्तानि धर्मज्ञा वाङ्मनः कर्म्मजानि तु ।। १०.
ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः। यूयं वै पितरोऽस्माकं ये वयं प्रतिबोधिताः। धर्मज्ञानञ्च कामश्च को वरो वः प्रदीयताम् ।। १०.
पुनस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः। तस्माद्यदुक्तं युष्माभिस्तत्तथा न तदन्यथा ।। १०.