निध्रुवस्य तु या पत्नी माता वै कुण्डपायिनाम्। असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।। ९.
शाण्डिल्यानां वचः श्रुत्वा देवलः सुमहायशाः। निध्रुवाः शाण्डिल्या रैभ्यास्त्रयः पश्चात्तु कश्यपाः ।। ९.
वरप्रभृतयो देवा देवलस्य प्रजास्त्विमाः। चतुर्युगे त्वतिक्रान्ते मनोर्ह्येकादशे प्रजाः। अथावशिष्टे तस्मिस्तु द्वापरे सम्प्रवर्तते ।। ९.
मानसस्य चरिष्यन्तस्तस्य पुत्रो दमः किल। मानसस्तस्य दायादस्तृणबिन्दुरिति श्रुतः ।। ९.
त्रेतायुगमुखे राजा तृतीये सम्बभूव ह। तस्य कन्या त्विडविडा रूपेणाप्रतिमाभवत्। पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ।। ९.
ऋषिरिडविडायान्तु विश्रवाः समपद्यत। तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धनाः ।। ९.
बृहस्पतेर्बृहत्कीर्त्तिर्देवाचार्यस्य कीर्त्तितः । कन्यां तस्योपयेमे स नाम्ना वै देववर्णिनीम् ।। ९.
पुष्पोत्ककटाञ्च वाकाञ्च सुते माल्यवतः स्थितौ। कैकसीं मालिनः कन्यां तासान्तु श्रृणुत प्रजाः ।। ९.
ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी। दिव्येन विधिना युक्तमार्षेणैव श्रुतेन च। राक्षसेन च रूपेण आसुरेण बलेन च ।। ९.
त्रिपादं सुमहाकायं स्थूलशीर्षं महातनुम्। अष्टदंष्ट्रं हरिच्छ्मश्रुं शङ्कुकर्णं विलोहितम् ।। ९.
ह्रस्व बाहुं प्रबाहुञ्च पिङ्गलं सुविभीषणम्। वैवर्तज्ञानसम्पन्नं सम्बुद्धं ज्ञानसम्पदा ।। ९.
एवंविधं सुतं दृष्ट्वा विश्वरूपधरं तथा। पिता दृष्ट्वाब्रवीत्तत्र कुबेरोऽयमिति स्वयम् ।। ९.
कुत्सायां क्वितिशब्दोऽयं शरीरं बेरमुच्यते । कुबेरः कुशरीरत्वान्नाम्ना तेन च सोऽङ्कितः ।। ९.
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव। तस्माद्वैश्रवणो नाम नाम्ना लोके भविष्यति ।। ९.
ऋद्ध्यां कुबेरोऽजनयद्विश्रुतं नलकूबरम्। रावणं कुम्भकर्णञ्च कन्यां शूर्पणखान्तथा। विभीषणं चतुर्थांस्तान्कैकस्यजनयेत्सुतान् ।। ९.
शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्द्धजः। चतुष्पाद्विंशतिबुजो महाकायो महा बलः ।। ९.
जात्याञ्जननिभो दंष्ट्रो लोहितग्रीव एव च। राजसेनो जययुक्तो रूपेण च बलेन च ।। ९.
सत्यबुद्धिर्दृढतनू राक्षसैरेव रावणः । निसर्गाद्दारुणः क्रूरो रावणाद्रावणस्तु सः ।। ९.
हिरण्यकशिपुस्त्वासीत्स राजा पूर्वजन्मनि। चतुर्युगानि राजात्र त्रयोदश स राक्षसः ।। ९.
ताः पञ्चकोट्यो वर्षाणामाख्याताः सङ्ख्यया द्विजैः। नियुतान्येकषष्टिश्च सङ्ख्याविद्भिरुदाहृता ।। ९.
षष्टिशतसहस्राणि वर्षाणान्तु स रावणः । देवतानां ऋषीणाञ्च घोरं कृत्वा प्रजागरम् ।। ९.
त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात्। रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ।। ९.
महोदयः प्रहस्तश्च महापांशुखरस्तथा। पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ।। ९.
त्रिशिरा दूषणश्चैव विद्युज्जिह्वश्च राक्षसः। कन्या ह्यसलिका चैव वाकायाः प्रसवाः स्मृताः ।। ९.
इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश। दारुणाबिजनाः सर्वे देवैरपि दुरासदाः ।। ९.
सर्वे लब्धवराश्चैव पुत्रपौत्रसमन्विताः। यक्षाणाञ्चैव सर्वेषां पौलस्त्या ये च राक्षसाः ।। ९.
आगस्त्यवैश्वामित्राणां क्रूराणां ब्रह्मरक्षसाम्। वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ।। ९.
तेषामैडविडो राजा पौलस्त्यः सव्यपिङ्गलः। इतरे वै यज्ञमुखास्तेन रक्षोगणास्त्रयः ।। ९.
यातु धाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः । निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ।। ९.
पौलस्त्या नैऋताश्चैव आगत्स्याः कौशिकास्तथा। इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ।। ९.