पश्चिमायां दिशि तथा रजसः पुत्रमच्युतम्। केतुमन्तं महात्मानं राजानं सोऽभ्यषेचयत् ।। ९.
मनुष्याणामधिपतिं चक्रे चैव सुतं मनुम्। तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ।। ९.
स्वायम्भुवेऽन्तरे पूर्वं ब्रह्मणा तेऽभिषेचिताः। नृपा ह्येतेऽभिषिच्यन्ते मनवो ये भवन्ति वै ।। ९.
मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः। एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः। अतीतानागताः सर्वे स्मृता मन्वन्तरेश्वराः ।। ९.
राजसूयेऽभिषिक्तश्च पृथुरेभिर्नरोत्तमैः। वेददृष्टेन विधिना कृतो राजा प्रतापवान् ।। ९.
एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात् । पुनरेव महाभागः प्रजानां पतिरीश्वरः ।। ९.
कश्यपो गोत्रकामस्तु चचार परमं तपः । पुत्रौ गोत्रकरौ मह्यं भवेतामित्यचिन्तयत् ।। ९.
तस्य प्रध्यायमानस्य कश्यपस्य महात्मनः। ब्रह्मणोंऽशौ सुतौ पश्चात् प्रादुर्भूतौ महौजसौ ।। ९.
वत्सारश्चासितश्चैव तावुभौ ब्रह्मवादिनौ। वत्सारान्निध्रुवो जज्ञे रैभ्यश्च स महायशाः ।। ९.
रैभ्यस्य रैभ्या विज्ञेया निध्रुवस्य निबोधत। च्यवनस्य सुकन्यायां सुमेधाः समपद्यत ।। ९.
निध्रुवस्य तु या पत्नी माता वै कुण्डपायिनाम्। असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत ।। ९.
शाण्डिल्यानां वचः श्रुत्वा देवलः सुमहायशाः। निध्रुवाः शाण्डिल्या रैभ्यास्त्रयः पश्चात्तु कश्यपाः ।। ९.
वरप्रभृतयो देवा देवलस्य प्रजास्त्विमाः। चतुर्युगे त्वतिक्रान्ते मनोर्ह्येकादशे प्रजाः। अथावशिष्टे तस्मिस्तु द्वापरे सम्प्रवर्तते ।। ९.
मानसस्य चरिष्यन्तस्तस्य पुत्रो दमः किल। मानसस्तस्य दायादस्तृणबिन्दुरिति श्रुतः ।। ९.
त्रेतायुगमुखे राजा तृतीये सम्बभूव ह। तस्य कन्या त्विडविडा रूपेणाप्रतिमाभवत्। पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ।। ९.
ऋषिरिडविडायान्तु विश्रवाः समपद्यत। तस्य पत्न्यश्चतस्रस्तु पौलस्त्यकुलवर्द्धनाः ।। ९.
बृहस्पतेर्बृहत्कीर्त्तिर्देवाचार्यस्य कीर्त्तितः । कन्यां तस्योपयेमे स नाम्ना वै देववर्णिनीम् ।। ९.
पुष्पोत्ककटाञ्च वाकाञ्च सुते माल्यवतः स्थितौ। कैकसीं मालिनः कन्यां तासान्तु श्रृणुत प्रजाः ।। ९.
ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी। दिव्येन विधिना युक्तमार्षेणैव श्रुतेन च। राक्षसेन च रूपेण आसुरेण बलेन च ।। ९.
त्रिपादं सुमहाकायं स्थूलशीर्षं महातनुम्। अष्टदंष्ट्रं हरिच्छ्मश्रुं शङ्कुकर्णं विलोहितम् ।। ९.
ह्रस्व बाहुं प्रबाहुञ्च पिङ्गलं सुविभीषणम्। वैवर्तज्ञानसम्पन्नं सम्बुद्धं ज्ञानसम्पदा ।। ९.
एवंविधं सुतं दृष्ट्वा विश्वरूपधरं तथा। पिता दृष्ट्वाब्रवीत्तत्र कुबेरोऽयमिति स्वयम् ।। ९.
कुत्सायां क्वितिशब्दोऽयं शरीरं बेरमुच्यते । कुबेरः कुशरीरत्वान्नाम्ना तेन च सोऽङ्कितः ।। ९.
यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव। तस्माद्वैश्रवणो नाम नाम्ना लोके भविष्यति ।। ९.
ऋद्ध्यां कुबेरोऽजनयद्विश्रुतं नलकूबरम्। रावणं कुम्भकर्णञ्च कन्यां शूर्पणखान्तथा। विभीषणं चतुर्थांस्तान्कैकस्यजनयेत्सुतान् ।। ९.
शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्द्धजः। चतुष्पाद्विंशतिबुजो महाकायो महा बलः ।। ९.
जात्याञ्जननिभो दंष्ट्रो लोहितग्रीव एव च। राजसेनो जययुक्तो रूपेण च बलेन च ।। ९.
सत्यबुद्धिर्दृढतनू राक्षसैरेव रावणः । निसर्गाद्दारुणः क्रूरो रावणाद्रावणस्तु सः ।। ९.
हिरण्यकशिपुस्त्वासीत्स राजा पूर्वजन्मनि। चतुर्युगानि राजात्र त्रयोदश स राक्षसः ।। ९.
ताः पञ्चकोट्यो वर्षाणामाख्याताः सङ्ख्यया द्विजैः। नियुतान्येकषष्टिश्च सङ्ख्याविद्भिरुदाहृता ।। ९.