६२.११० न यष्टव्यं न होतव्यमिति तस्य प्रजापतेः । आसीत् प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते
अहमिज्यश्च पूज्यश्च सर्वयज्ञे द्विजातिभिः । मयि यज्ञो विधातव्यो मयि होतव्यमित्यपि
तमतिक्रान्तमर्यादमाददानमसाम्प्रतम् । ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तथा
वयं दीक्षां प्रवेक्ष्यामः संवत्सरशतान् बहून् । माऽधर्मं वेन कार्षीस्त्वं नैष धर्मः सनातनः । निधने च प्रसूतोऽसि प्रजापतिरसंशयः
पालयिष्ये प्रजाश्चेति त्वया पूर्वं प्रतिश्रुतम् । तांस्तथा वादिनः सर्वान् ब्रह्मर्षीनब्रवीत्तदा
स प्रहस्य तु दुर्बुद्धिरिदं वचनकोविदः । स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वै मया
वीर्यश्रुततपःसत्यैर्मया वा कः समो भुवि । महात्मानमनूनं मां यूयं जानीत तत्त्वतः
प्रभवः सर्वलोकानां धर्माणाञ्च विशेषतः । इच्छन् दहेयं पृथिवीं प्लावयेयं जलेन वा । सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा
यदा न शक्यते स्तम्भान्मानाच्च भृशमोहितः । अनुनेतुं नृपो वेनस्ततः क्रुद्धा महर्षयः
निगृह्य तं महाबाहुं विस्फुरन्तं यथाऽनलम् । ततोऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः ॥२.१.
६२.१२० तस्मात् प्रमथ्यमानाद्वै जज्ञे पूर्वमभिश्रुतः । ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि तथा द्विजाः
स भीतः प्राञ्जलिश्चैव स्थितवान् व्याकुलेन्द्रियः । तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन् किल
निषादवंशकर्त्ताऽसौ बभूवानन्तविक्रमः । धीवरानसृजत्सोऽपि वेनकल्मषसम्भवान्
ये चान्ये विन्ध्यनिलयास्तुम्बुरातुवराः खसाः । अधर्मरुचयश्चापि सम्भूता वेनकल्मषात्
पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् । अरणीमिव संरम्भान्ममन्थुर्जातमन्यवः
पृथुस्तस्मात् समुत्पन्नः करास्फालनतेजसः । पृथोः करतलाद्वापि यस्माज्जातः पृथुस्ततः । दीप्यमानः स्ववपुषा साक्षादग्निरिवोज्वलन्
आद्यमाजगवं नाम धनुर्गृह्य महारवम् । शरांश्च बिभ्रद्रक्षार्थं कवचञ्च महाप्रभम्
तस्मिञ्जातेऽथ भूतानि संप्रहृष्टानि सर्वशः । समुत्पन्ने महारात्रि वेनश्च त्रिदिवङ्गतः
समुत्पन्नेन राजर्षिः स सत्पुत्रेण धीमता । पुरुषव्याघ्रः पुन्नाम्नो नरकात्र्त्रायते ततः
तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः । समागम्य तदा वैन्यमभ्यषिञ्चन्नराधिपम् । महता राजराज्येन महाराजं महाद्युतिम्
६२.१३० सोऽभिषिक्तो महाराजा देवैरङ्गिरसः सुतैः । आदिराजो महाराजः पृथुर्वैन्यः प्रतापवान्
पित्राऽपरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः । ततो राजेति नामास्य अनुरागादजायत
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः । पर्वताश्च विशीर्यन्ते ध्वजभङ्गश्च नाभवत्
अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया । सर्वकामदुघा गावः पुटके पुटके मधु
एतस्मिन्नेव काले च यज्ञे पैतामहे शुभे । सूतः सूत्यां समुत्पन्नः सौत्येऽहनि महामतिः । तस्मिन्नेव महायज्ञे जज्ञे प्राज्ञोऽथ मागधः
ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः । जुहावेन्द्राय देवेन ततः सूतो व्यजायत
प्रमादस्तत्र सञ्जज्ञे प्रायश्चित्तञ्च कर्मसु । शिष्यहव्येन यत्पृक्तमाभिभूतं गुरोर्हविः । अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम्
यच्च क्षत्रात्सम्भवद्ब्राह्मण्यां हीनयोनितः । सूतः पूर्वेण साधर्मतुल्यधर्मः प्रकीर्त्तितः
मध्यमो ह्येष सूतस्य धर्मः क्षत्रोपजीवनम् । रथनागाश्च चरितं जघन्यञ्च चिकित्सितम्
पृथोः स्तवार्थं तौ तत्र समाहूतौ सुरर्षिभिः । तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः । कर्मैतदनुरूपं वां पात्रं स्तोत्रस्य चाप्ययम् ॥२.१.