एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः । तेषां पुत्राश्च पौत्राश्च यैरिदं पूरितं जगत् ॥ ८.
इति सर्गैकदेशस्य कीर्तितोऽवयवो मया। मारीचोऽयं प्रजा सर्गः समासेन प्रकीर्तितः। न शक्यं व्यासतो वक्तुमपि वर्षशतैर्द्विजाः ॥ ८.
अदितिर्धर्मशीला तु बलशीला दितिः स्मृता। तपःशीला तु सुरभि र्मायाशीला दनुः स्मृता ॥ ८.
क्रूरशीला तथा कद्रुः क्रौञ्च्यथ श्रुतिशालिनी । इरा ग्रहणशीला तु दनायुर्भक्षणे रता ॥ ८.
वाहशीला तु विनता ताम्रा वै पाशशालिनी। स्वभावा लोकमातॄणां शीलान्येतानि सर्वशः ॥ ८.
धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः। रजः सत्त्वतमो वृत्ता धार्मिकाधार्मिकास्तु वै ॥ ८.
मातृतुल्याश्चाबिजाताः कश्यपस्यात्मजाः प्रजाः। देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः। पिशाचाः पशवश्चैव मृगाः पतङ्गवीरुधः ॥ ८.
यस्माद्दाक्षायणीष्वेते जज्ञिरे मानुषीष्विह। मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥ ८.
धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै। ततोऽधः स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥ ८.
जायन्ते कार्यसिद्धयर्थं मानुषेषु पुनः पुनः। इत्येवं वंशप्रभवः प्रसङ्ख्यातस्तपस्विनाम् ॥ ८.
सुराणामसुराणाञ्च गन्धर्वाप्सरसां तथा। यक्षरक्षःपिशाचानां सुपर्णोरगपक्षिणाम् ॥ ८.
व्यालानां शिखिनाञ्चैव ओषधीनाञ्च सर्वशः। कृमिकीटपतङ्गानां क्षुद्राणां जलजाश्च ये। पशूनां ब्राह्णानाञ्च श्रीमतां पुण्यलक्षणम् ॥ ८.
आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः। श्रोतव्यश्चैव सततं ग्राह्यश्चैवानुसूयता ॥ ८.
इमन्तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्णवैद्यसंसदि । अपत्यलाभं हि लबेत्सुपुष्कलं श्रियं धनं प्रेत्य च शोभनां गतिम् ॥ ८.
एवं प्रजासु सृष्टासु कश्यपे न महात्मना। प्रतिष्ठितासु सर्वासु स्थावरासु चरासु च ।। ९.
अभिषिच्याधिपत्येषु तेषां मुख्यः प्रजापतिः। ततः क्रमेण राज्यानि व्यादेष्टुमुपचक्रमे ।। ९.
द्विजातीनां वीरुधाञ्च नक्षत्राणां ग्रहैः सह। यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत ।। ९.
बृहस्पतिं तु विश्वेषां ददावङ्गिरसां पतिम्। भृगूणामधिपञ्चैव काव्यं राज्येऽभ्यषेचयत् ।। ९.
आदित्यानां पुनर्विष्णुं वसूनामथ पावकम् । प्रजापतीनां दक्षञ्च मरुतामथ वासवम् ।। ९.
दैत्यानामथ राजानं प्रह्लादं दितिनन्दनम्। नारायणं तु साध्यानां रुद्राणां वृषभध्वजम् ।। ९.
विप्रचित्तिञ्च राजानं दानवानामथादिशत्। अपां तु वरुणं राज्ये राज्ञां वैश्रवणं पतिम्। यक्षाणां राक्षसानाञ्च पार्थिवानां धनस्य च ।। ९.
वैवस्वतं पितॄणाञ्च यमं राज्येऽभ्यषेचयत्। सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् ।। ९.
शैलानां हिमवन्तञ्च नदीनामथ सागरम्। गन्धर्वाणामधिपतिं चक्रे चित्ररथं तदा ।। ९.
उच्चैःश्रवसमश्वानां राजानञ्चाभ्यषेचयत्। मृगाणामथ शार्दूलं गोवृषञ्च चतुष्पदाम् ।। ९.
पक्षिणामथ सर्वेषां गरुडं पततां वरम्। गन्धानां मातुलञ्चैव भूतानामशरीरिणाम् ।। ९.
शब्दाकाशबलानाञ्च वायुं बलवतां वरम्। सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् ।। ९.
सरीसृपाणां सर्पाणां नागानाञ्चैव तक्षकम्। सागराणां नदीनाञ्च मेघानां वर्षितस्य च। आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् ।। ९.
सर्वाप्सरोगणानाञ्च कामदेवं तथैव च। ऋतूनामथ मासानामार्त्तवानां तथैव च ।। ९.
पक्षाणाञ्च विपक्षाणां मुहूर्त्तानाञ्च पर्वणाम्। कलाकाष्ठाप्रमाणानां गते रयनयोस्तथा। गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् ।। ९.
प्रजापतिर्वै रजसः पूर्वस्यान्दिशि विश्रुतम्। पुत्रं नाम्ना सुधामानं राजानं सोऽभ्यषेचयत् ।। ९.