प्रजार्थं तपतां तेषां तपः परमदुश्चरम्। उत्पद्यन्तीह सर्वेषां निधनेष्विह सर्वशः ।। ६१.
देवासुराः पितृगणा मुनयो मनवस्तथा। सर्पा भूताः पिशाचाश्च गन्धर्वा यक्षराक्षसाः ।। ६१.
ततस्तेषां तु ये शिष्टा शिष्टाचारान् प्रचक्षते । सप्तर्षयो मनुश्चैव आदौ मन्वन्तरस्य ह। प्रारम्भन्ते च कर्माणि मनुष्या दैवतैः सह ।। ६१.
मन्वन्तरादौ प्रागेव त्रेतायुगमुखे ततः । पूर्वं देवास्ततस्ते वै स्थिते धर्मे तु सर्वशः ।। ६१.
ऋषीणां ब्रह्मचर्येण गत्वाऽऽनृण्यन्तु वै ततः। पितॄणां प्रजया चैव देवानामिज्यया तथा ।। ६१.
शतं वर्षसहस्राणि धर्मे वर्णात्मके स्थिताः। त्रयीं वार्त्तां दण्डनीतिं धर्मान् वर्णाश्रमांस्तथा। स्थापयित्वाश्रमांश्चैव स्वर्गाय दधिरे मतीः ।। ६१.
पूर्वं देवेषु तेष्वेव स्वर्गाय प्रमुखेषु च। पूर्वं देवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ।। ६१.
मन्वन्तरे परावृत्ते स्थानान्युत्सृज्य सर्वशः। मन्त्रैः सहोर्ध्वङ्गच्छन्ति महर्लोकमनामयम् ।। ६१.
विनिवृत्तविकारास्ते मानसीं सिद्धिमास्थिताः। अवेक्षमाणा वशिनस्तिष्ठन्त्याभूतसंप्लवम् ।। ६१.
ततस्तेषु व्यतीतेषु सर्वेष्वेतेषु सर्वदा। शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः। उपस्थिता इहैवान्ये देवा ये स्वर्गवासिनः ।। ६१.
ततस्ते तपसा युक्ता स्थानान्यापूरयन्ति वै। सत्यैन ब्रह्मचर्येण श्रुतेन च समन्विताः ।। ६१.
सप्तर्षीणं मनोश्चैव देवानां पितृभिः सह। निधनानीह पूर्वेषामादिना च भविष्यता ।। ६१.
तेषामत्यन्तविच्छेद इह मन्वन्तरक्षयात्। एवं पूर्वानुपूर्व्येण स्थितिरेषानवस्थिता। मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ।। ६१.
एवं मन्वन्तराणान्तु प्रतिसन्धानलक्षणम्। अतीतानागतानान्तु प्रोक्तं स्वायम्भुवेन तु ।। ६१.
मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् । एवमत्यन्तविच्छिन्नं भवत्याभूतसंप्लवात् ।। ६१.
मन्वन्तराणां परिवर्त्तनानि एकान्ततस्तानि महर्गतानि। महर्जनञ्चैव जनन्तपश्च एकान्तगानि स्म भवन्ति सत्ये ।। ६१.
तद्भाविनां तत्र तु दर्शनेन नानात्वदृष्टेन च प्रत्ययेन। सत्ये स्थितानीह तदा तु तानि प्रप्ते विकारे प्रतिसर्गकाले ।। ६१.
मन्वन्तराणां परिवर्त्तनानि मुञ्चन्ति सत्यन्तु ततोऽपरान्ते। ततोऽभियोगाद्विषमप्रमाणं विशन्ति नारायणमेव देवम् ।। ६१.
मन्वन्तराणां परिवर्त्तनेषु चिरप्रवृत्तेषु निधिस्वभावात्। क्षणं रसं तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवन्दमानः ।। ६१.
इत्युत्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम्। वायुप्रणीतान्युपलभ्य दृश्यं दिव्यौजसा व्याससमासयोगैः ।। ६१.
सर्वाणि राजर्षिसुरर्षिमन्ति ब्रह्मर्षिदेवोरगवन्ति चैव। सुरेशसप्तर्षिपितृप्रजैशैर्युक्तानि सम्यक् परिवर्त्तनानि ।। ६१.
उदारवंशाभिजनद्युतीनां प्रकृष्टमेधाभिसमेधितानाम्। कीर्तिद्युतिख्यातिभिरन्वितानां पुण्यं हि विख्यापनमीश्वराणाम् ।। ६१.
स्वर्गीयमेतत् परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम्। जप्यं महत्पर्वसु चैतदग्र्यं दुःस्वप्नशान्तिः परमायुषेयम् ।। ६१.
प्रजेशदेवर्षिमनुप्रधानां पुण्यप्रसूतिं प्रथितामजस्य। ममापि विख्यापनसंयमाय सिद्धिं जुषध्वं सुमहेशतत्वम् । ६१.
इत्येतदन्तरं प्रोक्तं मनोः स्वायम्भुवस्य तु। विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ।। ६१.