ततो मन्वन्तरे तस्मिन् प्रक्षीणा देवतास्तु ताः। सम्पूर्णे स्थितिकाले तु तिष्ठन्त्येकं कृतं युगम् ।। ६१.
उत्पद्यन्ते भविष्याश्च यावन्मन्वन्तरेश्वराः। देवताः पितरश्चैव ऋषयो मनुरेव च ।। ६१.
मन्वन्तरे तु सम्पूर्णे यद्यन्यद्वै कलौ युगे। सम्पद्यते कृतं तेषु कलिशिष्टेषु वै तदा ।। ६१.
यथा कृतस्य सन्तानः कलिपूर्वः स्मृतो बुधैः। तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च ।। ६१.
क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः। मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ।। ६१.
स्प्तर्षयो मनुश्चैव कालावेक्षास्तु ये स्थिताः। मन्वन्तरं प्रतीक्षन्ते क्षीयन्ते तपसि स्थिताः ।। ६१.
मन्वन्तरव्यवस्थार्थं सन्तत्यर्थञ्च सर्वशः। पूर्ववत् सम्प्रवर्त्तन्ते प्रवृत्ते वृष्टिसर्ज्जने ।। ६१.
द्वन्द्वेषु सम्प्रवृत्तेषु उत्पन्नास्वौषधीषु च। प्रजासु च निकेतासु संस्थितासु क्वचित् क्वचित् ।। ६१.
वार्त्तायान्तु प्रवृत्तायां सद्धर्मे ऋषिभाविते । निरानन्दे गते लोके नष्टे स्थावरजङ्गमे ।। ६१.
अग्रामनगरे चैव वर्णाश्रमविवर्जिते। पूर्वमन्वन्तरे शिष्टे ये भवन्तीह धार्मिकाः । सप्तर्षयो मनुश्चैव सन्तानार्थं व्यवस्तिताः ।। ६१.
प्रजार्थं तपतां तेषां तपः परमदुश्चरम्। उत्पद्यन्तीह सर्वेषां निधनेष्विह सर्वशः ।। ६१.
देवासुराः पितृगणा मुनयो मनवस्तथा। सर्पा भूताः पिशाचाश्च गन्धर्वा यक्षराक्षसाः ।। ६१.
ततस्तेषां तु ये शिष्टा शिष्टाचारान् प्रचक्षते । सप्तर्षयो मनुश्चैव आदौ मन्वन्तरस्य ह। प्रारम्भन्ते च कर्माणि मनुष्या दैवतैः सह ।। ६१.
मन्वन्तरादौ प्रागेव त्रेतायुगमुखे ततः । पूर्वं देवास्ततस्ते वै स्थिते धर्मे तु सर्वशः ।। ६१.
ऋषीणां ब्रह्मचर्येण गत्वाऽऽनृण्यन्तु वै ततः। पितॄणां प्रजया चैव देवानामिज्यया तथा ।। ६१.
शतं वर्षसहस्राणि धर्मे वर्णात्मके स्थिताः। त्रयीं वार्त्तां दण्डनीतिं धर्मान् वर्णाश्रमांस्तथा। स्थापयित्वाश्रमांश्चैव स्वर्गाय दधिरे मतीः ।। ६१.
पूर्वं देवेषु तेष्वेव स्वर्गाय प्रमुखेषु च। पूर्वं देवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ।। ६१.
मन्वन्तरे परावृत्ते स्थानान्युत्सृज्य सर्वशः। मन्त्रैः सहोर्ध्वङ्गच्छन्ति महर्लोकमनामयम् ।। ६१.
विनिवृत्तविकारास्ते मानसीं सिद्धिमास्थिताः। अवेक्षमाणा वशिनस्तिष्ठन्त्याभूतसंप्लवम् ।। ६१.
ततस्तेषु व्यतीतेषु सर्वेष्वेतेषु सर्वदा। शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः। उपस्थिता इहैवान्ये देवा ये स्वर्गवासिनः ।। ६१.
ततस्ते तपसा युक्ता स्थानान्यापूरयन्ति वै। सत्यैन ब्रह्मचर्येण श्रुतेन च समन्विताः ।। ६१.
सप्तर्षीणं मनोश्चैव देवानां पितृभिः सह। निधनानीह पूर्वेषामादिना च भविष्यता ।। ६१.
तेषामत्यन्तविच्छेद इह मन्वन्तरक्षयात्। एवं पूर्वानुपूर्व्येण स्थितिरेषानवस्थिता। मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ।। ६१.
एवं मन्वन्तराणान्तु प्रतिसन्धानलक्षणम्। अतीतानागतानान्तु प्रोक्तं स्वायम्भुवेन तु ।। ६१.
मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् । एवमत्यन्तविच्छिन्नं भवत्याभूतसंप्लवात् ।। ६१.
मन्वन्तराणां परिवर्त्तनानि एकान्ततस्तानि महर्गतानि। महर्जनञ्चैव जनन्तपश्च एकान्तगानि स्म भवन्ति सत्ये ।। ६१.
तद्भाविनां तत्र तु दर्शनेन नानात्वदृष्टेन च प्रत्ययेन। सत्ये स्थितानीह तदा तु तानि प्रप्ते विकारे प्रतिसर्गकाले ।। ६१.
मन्वन्तराणां परिवर्त्तनानि मुञ्चन्ति सत्यन्तु ततोऽपरान्ते। ततोऽभियोगाद्विषमप्रमाणं विशन्ति नारायणमेव देवम् ।। ६१.
मन्वन्तराणां परिवर्त्तनेषु चिरप्रवृत्तेषु निधिस्वभावात्। क्षणं रसं तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवन्दमानः ।। ६१.
इत्युत्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम्। वायुप्रणीतान्युपलभ्य दृश्यं दिव्यौजसा व्याससमासयोगैः ।। ६१.