कालिका शतिकेभ्यश्च सर्पा जायन्ति सर्वशः। संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ ८.
गोभ्यो हि महिषेभ्यश्च जायन्ते जन्तवः प्रभो। मत्स्यादयश्च विविधा अण्डकुक्षौ विशेषतः ॥ ८.
चैवीरिकाश्च जायन्ते तथा गोजाकुलानि च। तथान्यानि च सूक्ष्माणि जलौकादीनि जातयः ॥ ८.
मक्षिकाणां विकाराणि जायन्ते जात योऽपरे । प्रायेण तु वसन्त्यस्मिन्नुच्छिष्टोदककर्द्दमे ॥ ८.
मशकानां विकाराणि भ्रमराणां तथैव च। तृणेभ्यश्चैव जायन्ते पुत्रिका पुत्रभासकाः ॥ ८.
मणिच्छेदास्तथा व्यालाः पोतजाः परिकीर्त्तिताः। शतवेरिविकाराणि करीषेभ्यो भवन्तिह ॥ ८.
एवमादिरसङ्ख्यातो गणः संस्वेदजो मया। समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ॥ ८.
तथाऽन्ये नैऋताः सत्त्वास्ते स्मृता उपसर्गजाः। पूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः ॥ ८.
प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः । केचित्तु योनिजा देवाः केचिदेवानिमित्ततः ॥ ८.
तूलालाघश्च कोलश्च शिवा कन्या तथैव च। अपत्यं सरमायास्तु गणा वै सरमादयः ॥ ८.
श्यामश्च शबलश्चैव अर्जुनो हरितस्तथा। कृष्णो धूम्रारूणश्चैव तूलालाघश्च कद्रुकाः ॥ ८.
सुरसाथ विजज्ञे तु शतमेकं शिरो मतम्। सर्पाणां तक्षको राजा नागानाञ्चापि वासुकिः । द्र. गरुडपुराणे १.१९७.१२ मध्ये वासुकेः पार्थिवमण्डले एवं तक्षकस्य वायुमण्डले स्थितिः तमोबहुल इत्येष गणः क्रोधवशात्मकः ॥ ८.
पुलहस्यात्मजा सर्गस्ताम्रायास्तन्निबोधत। बह्वन्यास्त्वभिविख्यातास्ताम्रायाश्च विजज्ञिरे ॥ ८.
श्येनी भासी तथा क्रौञ्ची धृतराष्ट्री शुकी तथा। अरुणस्य भार्या श्येनी तु वीर्यवन्तौ महाबलौ। सम्पातिञ्च जटायुञ्च प्रसूता पक्षिसत्तमौ ॥ ८.
सम्पातिरजनत् पुत्रं कन्यामेकां तथैव च। जटायुषश्च ये पुत्राः काक गृध्राश्चकर्णिनः ॥ ८.
भार्या गरुत्मतश्चापि भासी क्रौञ्ची तथा शुकी। धृतराष्ट्री च भद्रा च तास्वपत्यानि वक्ष्यते ॥ ८.
शुकी गरुत्मतः पुत्रान् सुषुवे षट् परिश्रुतान् । त्रिशिरं सुमुखञ्चैव बलं पृष्ठं महाबलम् ॥ ८.
त्रिशङ्खनेत्रं सुमुखं सुरूपं सुरसं बलम्। एषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ॥ ८.
चतुर्दश सहस्राणि क्रूराणां पन्नगाशिनाम्। पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरः ॥ ८.
व्याप्तानि यानि देशानि तानि वक्ष्ये यथाक्रमम्। शाल्मलिद्वीपमखिलं देवकूटञ्च पर्वतम् ॥ ८.
मणिमन्तञ्च शैलेन्द्रं सहस्रशिखरं तथा। पर्णमालं सुकेशञ्च शतश्रृङ्गं तथाचलम् ॥ ८.
कौरजं पञ्चशिखरं हेमकूटञ्च पर्वतम्। प्रचण्डवायुप्रभवैर्दीपितैः पझरागिभिः ॥ ८.
शैलजालानि व्याप्तानि गारुडैस्तैर्महात्मभिः । भासीपुत्राः स्मृता भासा उलूका काककुक्कुटाः ॥ ८.
मयूराः कलविङ्काश्च कपोता लावतित्तिराः। क्रौञ्ची वार्द्धीणसान् श्येनी कुररान्सारसान्बकान् ॥ ८.
इत्येवमादयोन्येऽपि क्रव्यादा ये च पक्षिणः। धृतराष्ट्री च हंसांश्च कलहंसांश्च भामिनी ॥ ८.
चक्रवाकांश्च विहगान्सर्वांश्चैवादकान् द्विजान्। एतानेव विजज्ञेऽथ पुत्रपौत्रमनन्तकम् ॥ ८.
गरुडस्यात्मजाः प्रोक्ता इरायाः श्रृणुत प्रजाः। इरा प्रजज्ञे कन्या वैतिस्रः कमललोचनाः ॥ ८.
वन स्पतीनां वृक्षाणां वीरुधाञ्चैव मातरः। लता चैवाथ वल्ली च वीरुधा चेति तास्तु वै ॥ ८.
लता वनस्पतीञ्जज्ञे ह्यपुष्पान् पुलिनस्थितान् । युक्तान्पुष्पफलैर्वृक्षान् लता वै सम्प्रसूयते ॥ ८.
अथ वल्ली तु गुल्मांश्च त्वक्सारास्तृणजातयः। वीरुधा तदपत्यानि वंशश्चात्र समाप्यते ॥ ८.