चतुर्द्दशगुणो ह्येष काल आहूतसंप्लवः। पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ।। ६१.
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः। ब्रह्माणमग्रतः कृत्वा सह देवर्षिदानवैः। प्रविशन्ति सुरश्रेष्ठं देवदेवं महेश्वरम् ।। ६१.
स स्रष्टा सर्वभूतानि कल्पादिषु पुनः पुनः। इत्येष स्थितिकालो वै मनोर्देवर्षिभिः सह ।। ६१.
सर्वमन्वन्तराणां वै प्रतिसन्धिं निबोधत। युगाख्या या समुद्दिष्टा प्रागेवास्मिन् मया तव ।। ६१.
कृतत्रेतादि संयुक्तं चतुर्युगमिति स्मृतम्। तदेकसप्ततिगुणं परिवृत्तं तु साधिकम्। मनोरेकमधीकारं प्रोवाच भगवान् प्रभुः ।। ६१.
एवं मन्वन्तराणां तु सर्वेषामेव लक्षणम्। अतीतानागतानां वै वर्त्तमानेन कीर्त्तितम् ।। ६१.
इत्येष कीर्त्तितः सर्गा मनोः स्वायम्भुवस्य ह। प्रति सन्धिन्तु वक्ष्यामि तस्य वै चापरस्य तु ।। ६१.
मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह। अवश्यम्भाविनार्थेन यथा तद्वै निवर्त्तते ।। ६१.
अस्मिन् मन्वन्तरे पूर्वं त्रैलोक्यस्येश्वरास्तु ये। सप्तर्षयश्च देवास्ते पितरो मनवस्तथा। मन्वन्तरस्य काले तु सम्पूर्णे साधकास्तथा ।। ६१.
क्षीणाधिकाराः संवृत्ता बुद्ध्वा पर्यायमात्मनः। महर्लोकाय ते सर्वे उन्मुखा दधिरे गतिम् ।। ६१.
ततो मन्वन्तरे तस्मिन् प्रक्षीणा देवतास्तु ताः। सम्पूर्णे स्थितिकाले तु तिष्ठन्त्येकं कृतं युगम् ।। ६१.
उत्पद्यन्ते भविष्याश्च यावन्मन्वन्तरेश्वराः। देवताः पितरश्चैव ऋषयो मनुरेव च ।। ६१.
मन्वन्तरे तु सम्पूर्णे यद्यन्यद्वै कलौ युगे। सम्पद्यते कृतं तेषु कलिशिष्टेषु वै तदा ।। ६१.
यथा कृतस्य सन्तानः कलिपूर्वः स्मृतो बुधैः। तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च ।। ६१.
क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः। मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा ।। ६१.
स्प्तर्षयो मनुश्चैव कालावेक्षास्तु ये स्थिताः। मन्वन्तरं प्रतीक्षन्ते क्षीयन्ते तपसि स्थिताः ।। ६१.
मन्वन्तरव्यवस्थार्थं सन्तत्यर्थञ्च सर्वशः। पूर्ववत् सम्प्रवर्त्तन्ते प्रवृत्ते वृष्टिसर्ज्जने ।। ६१.
द्वन्द्वेषु सम्प्रवृत्तेषु उत्पन्नास्वौषधीषु च। प्रजासु च निकेतासु संस्थितासु क्वचित् क्वचित् ।। ६१.
वार्त्तायान्तु प्रवृत्तायां सद्धर्मे ऋषिभाविते । निरानन्दे गते लोके नष्टे स्थावरजङ्गमे ।। ६१.
अग्रामनगरे चैव वर्णाश्रमविवर्जिते। पूर्वमन्वन्तरे शिष्टे ये भवन्तीह धार्मिकाः । सप्तर्षयो मनुश्चैव सन्तानार्थं व्यवस्तिताः ।। ६१.
प्रजार्थं तपतां तेषां तपः परमदुश्चरम्। उत्पद्यन्तीह सर्वेषां निधनेष्विह सर्वशः ।। ६१.
देवासुराः पितृगणा मुनयो मनवस्तथा। सर्पा भूताः पिशाचाश्च गन्धर्वा यक्षराक्षसाः ।। ६१.
ततस्तेषां तु ये शिष्टा शिष्टाचारान् प्रचक्षते । सप्तर्षयो मनुश्चैव आदौ मन्वन्तरस्य ह। प्रारम्भन्ते च कर्माणि मनुष्या दैवतैः सह ।। ६१.
मन्वन्तरादौ प्रागेव त्रेतायुगमुखे ततः । पूर्वं देवास्ततस्ते वै स्थिते धर्मे तु सर्वशः ।। ६१.
ऋषीणां ब्रह्मचर्येण गत्वाऽऽनृण्यन्तु वै ततः। पितॄणां प्रजया चैव देवानामिज्यया तथा ।। ६१.
शतं वर्षसहस्राणि धर्मे वर्णात्मके स्थिताः। त्रयीं वार्त्तां दण्डनीतिं धर्मान् वर्णाश्रमांस्तथा। स्थापयित्वाश्रमांश्चैव स्वर्गाय दधिरे मतीः ।। ६१.
पूर्वं देवेषु तेष्वेव स्वर्गाय प्रमुखेषु च। पूर्वं देवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ।। ६१.
मन्वन्तरे परावृत्ते स्थानान्युत्सृज्य सर्वशः। मन्त्रैः सहोर्ध्वङ्गच्छन्ति महर्लोकमनामयम् ।। ६१.
विनिवृत्तविकारास्ते मानसीं सिद्धिमास्थिताः। अवेक्षमाणा वशिनस्तिष्ठन्त्याभूतसंप्लवम् ।। ६१.
ततस्तेषु व्यतीतेषु सर्वेष्वेतेषु सर्वदा। शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः। उपस्थिता इहैवान्ये देवा ये स्वर्गवासिनः ।। ६१.