अष्टाशीतिसहस्राणि श्रुतर्षीणां स्मृतानि वै। ता एव संहिता ह्येते आवर्त्तन्ते पुनः पुनः ।। ६१.
श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे। युगे युगे तु ताः शाखा व्यस्यन्ते तैः पुनः पुनः ।। ६१.
द्वापरेष्विव सर्वेषु संहिताश्च श्रुतर्षिभिः। तेषां गोत्रेष्विमाः शाखा भवन्तीह पुनः पुनः। ताः शाखास्तत्र कर्त्तारो भवन्तीह युगक्षयात् ।। ६१.
एवमेव तु विज्ञेयं व्यतीतानागतेष्विह। मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ।। ६१.
अतीतेषु अतीतानि वर्त्तन्ते साम्प्रतेषु च। भविष्याणि च यानि स्युर्वर्ण्यन्तेऽनागतेष्वपि ।। ६१.
पूर्वेण पश्चिमं ज्ञेयं वर्त्तमानेन चोभयम्। एतेन क्रमयोगेन मन्वन्तरविनिश्चयः ।। ६१.
एवं देवाश्च पितर ऋषयो मनवश्च ये। मन्त्रैः सहोर्द्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह ।। ६१.
जनलोकात्सुराः सर्वे पशुकल्पात्पुनः पुनः। पर्याप्तकाले सम्प्राप्ते सम्भूता नैव नस्य (?) तु ।। ६१.
अवश्यम्भाविनार्थेन सम्बध्यन्ते तदा तु ते। ततस्ते दोषवज्जन्म पश्यन्ते रागपूर्वकम् ।। ६१.
निवर्त्तते तदा वृत्तिस्तेषामादोषदर्शनात् । एवं देव युगानीह दशकृत्वा निवर्त्तते ।। ६१.
जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तनम्। एवं देवयुगानीह व्यतीतानि सहस्रशः। निधनं ब्रह्मलोके वै गतानि मुनिभिस्सह ।। ६१.
न शक्यमानुपूर्व्येण तेषां वक्तुं सविस्तरान् । अनादित्वाच्च कालस्य असङ्ख्यानाच्च सर्वशः। मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह ।। ६१.
पितृभिर्मुनिभिर्देवैः सार्द्धं सप्तार्षिभिश्च वै। कालेन प्रतिसृष्टानां युगानाञ्च निवर्तनम् ।। ६१.
एतेन क्रमयोगेन कल्पमन्वन्तराणि तु। सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः ।। ६१.
मन्वन्तरान्ते संहारः संहारान्ते च सम्भवः। देवतानामृषीणाञ्च मनोः पितृगणस्य च ।। ६१.
न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि। विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः। मन्वन्तरस्य संख्यां तु मानुषेण निबोधत ।। ६१.
देवतानामृषीणाञ्च सङ्ख्यानार्थनिशारदैः। त्रिंशत्कोट्यस्तु संपूर्णाः सङ्ख्याताः सङ्ख्यया द्विजैः ।। ६१.
सप्तषष्टिस्तथान्यानि नियुतानि च सङ्ख्यया। विंशतिश्च सहस्राणि कालोऽयं सोधिकान् विना ।। ६१.
मन्वन्तरस्य सङ्ख्यैषा मानुषेण प्रकीर्तिता। वत्सरेणैव दिव्येन प्रवक्ष्याम्यन्तरम्मनोः ।। ६१.
अष्टौ शतसहस्राणि दिव्यया सङ्ख्यया स्मृतम्। द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ।। ६१.
चतुर्द्दशगुणो ह्येष काल आहूतसंप्लवः। पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ।। ६१.
तत्र सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः। ब्रह्माणमग्रतः कृत्वा सह देवर्षिदानवैः। प्रविशन्ति सुरश्रेष्ठं देवदेवं महेश्वरम् ।। ६१.
स स्रष्टा सर्वभूतानि कल्पादिषु पुनः पुनः। इत्येष स्थितिकालो वै मनोर्देवर्षिभिः सह ।। ६१.
सर्वमन्वन्तराणां वै प्रतिसन्धिं निबोधत। युगाख्या या समुद्दिष्टा प्रागेवास्मिन् मया तव ।। ६१.
कृतत्रेतादि संयुक्तं चतुर्युगमिति स्मृतम्। तदेकसप्ततिगुणं परिवृत्तं तु साधिकम्। मनोरेकमधीकारं प्रोवाच भगवान् प्रभुः ।। ६१.
एवं मन्वन्तराणां तु सर्वेषामेव लक्षणम्। अतीतानागतानां वै वर्त्तमानेन कीर्त्तितम् ।। ६१.
इत्येष कीर्त्तितः सर्गा मनोः स्वायम्भुवस्य ह। प्रति सन्धिन्तु वक्ष्यामि तस्य वै चापरस्य तु ।। ६१.
मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह। अवश्यम्भाविनार्थेन यथा तद्वै निवर्त्तते ।। ६१.
अस्मिन् मन्वन्तरे पूर्वं त्रैलोक्यस्येश्वरास्तु ये। सप्तर्षयश्च देवास्ते पितरो मनवस्तथा। मन्वन्तरस्य काले तु सम्पूर्णे साधकास्तथा ।। ६१.
क्षीणाधिकाराः संवृत्ता बुद्ध्वा पर्यायमात्मनः। महर्लोकाय ते सर्वे उन्मुखा दधिरे गतिम् ।। ६१.