प्रधानमात्मयोनिश्च गुह्यं सत्त्वञ्च शब्द्यते। अविभागस्तथा शुक्रमक्षरं बहु वाचकम्। परमब्रह्मणे तस्मै नित्यमेव नमो नमः ।। ६१.
कृते पुनः क्रिया नास्ति कुत एवाकृतक्रिया। सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् ।। ६१.
श्रोतव्यं वै श्रुतं वापि तथैवासाधुसाधुता। ज्ञातव्यञ्चाथ मन्तव्यं स्प्रष्टव्यं भोज्यमेव च। द्रष्टव्यञ्चाथ श्रोतव्यं ज्ञातव्यं वाथ किञ्चन ।। ६१.
दर्शितं यदनेनैव ज्ञानं तद्वै सुरर्षिणाम् । यद्वै दर्शितवानेष कस्तदन्वेष्टुमर्हति । सर्वाणि सर्वान्सर्वांश्च भगवानेव सोऽब्रवीत् ।। ६१.
यदा यत्क्रियते येन तदा तत्सोऽभिमन्यते। येनेदं क्रियते पूर्वं तदन्येन विभावितम् ।। ६१.
यदा तु क्रियते किञ्चित्केनचिद्वाङ्मयं क्वचित्। तेनैव तत्कृतं पूर्वं कर्त्तॄणां प्रतिभाति वै ।। ६१.
विरक्तञ्चातिरिक्तञ्च ज्ञानाज्ञाने प्रियाप्रिये। धर्माधर्मौ सुखं दुःखं मृत्युश्चामृतमेव च। ऊर्द्ध्वन्तिर्यगधोभागस्तस्यैवादृष्टकारणम् ।। ६१.
स्वायम्भुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः। प्रत्येकविद्यम्भवति त्रेतास्विह पुनः पुनः ।। ६१.
व्यस्यते ह्येकविद्यन्तद्द्वापरेषु पुनः पुनः । ब्रह्मा चैतदुवाचादौ तस्मिन् वैवस्वतेऽन्तरे ।। ६१.
आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः। कुर्वन्ति संहिता ह्येते जायमानाः परस्परम् ।। ६१.
अष्टाशीतिसहस्राणि श्रुतर्षीणां स्मृतानि वै। ता एव संहिता ह्येते आवर्त्तन्ते पुनः पुनः ।। ६१.
श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे। युगे युगे तु ताः शाखा व्यस्यन्ते तैः पुनः पुनः ।। ६१.
द्वापरेष्विव सर्वेषु संहिताश्च श्रुतर्षिभिः। तेषां गोत्रेष्विमाः शाखा भवन्तीह पुनः पुनः। ताः शाखास्तत्र कर्त्तारो भवन्तीह युगक्षयात् ।। ६१.
एवमेव तु विज्ञेयं व्यतीतानागतेष्विह। मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ।। ६१.
अतीतेषु अतीतानि वर्त्तन्ते साम्प्रतेषु च। भविष्याणि च यानि स्युर्वर्ण्यन्तेऽनागतेष्वपि ।। ६१.
पूर्वेण पश्चिमं ज्ञेयं वर्त्तमानेन चोभयम्। एतेन क्रमयोगेन मन्वन्तरविनिश्चयः ।। ६१.
एवं देवाश्च पितर ऋषयो मनवश्च ये। मन्त्रैः सहोर्द्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह ।। ६१.
जनलोकात्सुराः सर्वे पशुकल्पात्पुनः पुनः। पर्याप्तकाले सम्प्राप्ते सम्भूता नैव नस्य (?) तु ।। ६१.
अवश्यम्भाविनार्थेन सम्बध्यन्ते तदा तु ते। ततस्ते दोषवज्जन्म पश्यन्ते रागपूर्वकम् ।। ६१.
निवर्त्तते तदा वृत्तिस्तेषामादोषदर्शनात् । एवं देव युगानीह दशकृत्वा निवर्त्तते ।। ६१.
जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तनम्। एवं देवयुगानीह व्यतीतानि सहस्रशः। निधनं ब्रह्मलोके वै गतानि मुनिभिस्सह ।। ६१.
न शक्यमानुपूर्व्येण तेषां वक्तुं सविस्तरान् । अनादित्वाच्च कालस्य असङ्ख्यानाच्च सर्वशः। मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह ।। ६१.
पितृभिर्मुनिभिर्देवैः सार्द्धं सप्तार्षिभिश्च वै। कालेन प्रतिसृष्टानां युगानाञ्च निवर्तनम् ।। ६१.
एतेन क्रमयोगेन कल्पमन्वन्तराणि तु। सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः ।। ६१.
मन्वन्तरान्ते संहारः संहारान्ते च सम्भवः। देवतानामृषीणाञ्च मनोः पितृगणस्य च ।। ६१.
न शक्यमानुपूर्व्येण वक्तुं वर्षशतैरपि। विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः। मन्वन्तरस्य संख्यां तु मानुषेण निबोधत ।। ६१.
देवतानामृषीणाञ्च सङ्ख्यानार्थनिशारदैः। त्रिंशत्कोट्यस्तु संपूर्णाः सङ्ख्याताः सङ्ख्यया द्विजैः ।। ६१.
सप्तषष्टिस्तथान्यानि नियुतानि च सङ्ख्यया। विंशतिश्च सहस्राणि कालोऽयं सोधिकान् विना ।। ६१.
मन्वन्तरस्य सङ्ख्यैषा मानुषेण प्रकीर्तिता। वत्सरेणैव दिव्येन प्रवक्ष्याम्यन्तरम्मनोः ।। ६१.
अष्टौ शतसहस्राणि दिव्यया सङ्ख्यया स्मृतम्। द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ।। ६१.