ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्द्वरेतसः। मन्त्रब्राह्मणकर्त्तारो जायन्ते ह युगक्षये ।। ६१.
एवमावर्त्तमानास्ते द्वापरेषु पुनः पुनः। कल्पानां भाष्यविद्यानां नानाशास्त्रकृतः क्षये ।। ६१.
भविष्ये द्वापरे चैव द्रोणिर्द्वैपायनः पुनः । वेदव्यासो ह्यतीतेऽस्मिन् भविता सुमहातपाः ।। ६१.
भविष्यन्ति भविष्येषु शाखाप्रणयनानि तु। तस्मै तद्ब्रह्मणा ब्रह्मतपसा प्राप्तमव्ययम् ।। ६१.
तपसा कर्म सम्प्राप्तं कर्मणा हि ततो यशः। यशसा प्राप्य सत्यं हि सत्येनाप्तो हि चाव्ययः ।। ६१.
अव्ययादमृतं शुक्रममृतात् सर्वमेव हि। ध्रुवमेकाक्षरमिदं स्वात्मन्येव व्यवस्थितम्। बृहत्त्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते ।। ६१.
प्रणवाव स्थितं भूयो भूर्भुवःस्वरिति स्मृतम्। ऋग्यजुः सामाथर्वरूपिणे ब्रह्मणे नमः ।। ६१.
जगतः प्रलयोत्पत्तौ यत्तत्कारणसंज्ञितम्। महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ।। ६१.
अगाधापरमक्षय्यं जगत्सम्मोहनालयम्। सप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ।। ६१.
साङ्ख्यज्ञानवतां निष्ठा गतिः सङ्गदमात्मनः। यत्तदव्यक्तममृतं प्रकृतिब्रह्म शाश्वतम् ।। ६१.
प्रधानमात्मयोनिश्च गुह्यं सत्त्वञ्च शब्द्यते। अविभागस्तथा शुक्रमक्षरं बहु वाचकम्। परमब्रह्मणे तस्मै नित्यमेव नमो नमः ।। ६१.
कृते पुनः क्रिया नास्ति कुत एवाकृतक्रिया। सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् ।। ६१.
श्रोतव्यं वै श्रुतं वापि तथैवासाधुसाधुता। ज्ञातव्यञ्चाथ मन्तव्यं स्प्रष्टव्यं भोज्यमेव च। द्रष्टव्यञ्चाथ श्रोतव्यं ज्ञातव्यं वाथ किञ्चन ।। ६१.
दर्शितं यदनेनैव ज्ञानं तद्वै सुरर्षिणाम् । यद्वै दर्शितवानेष कस्तदन्वेष्टुमर्हति । सर्वाणि सर्वान्सर्वांश्च भगवानेव सोऽब्रवीत् ।। ६१.
यदा यत्क्रियते येन तदा तत्सोऽभिमन्यते। येनेदं क्रियते पूर्वं तदन्येन विभावितम् ।। ६१.
यदा तु क्रियते किञ्चित्केनचिद्वाङ्मयं क्वचित्। तेनैव तत्कृतं पूर्वं कर्त्तॄणां प्रतिभाति वै ।। ६१.
विरक्तञ्चातिरिक्तञ्च ज्ञानाज्ञाने प्रियाप्रिये। धर्माधर्मौ सुखं दुःखं मृत्युश्चामृतमेव च। ऊर्द्ध्वन्तिर्यगधोभागस्तस्यैवादृष्टकारणम् ।। ६१.
स्वायम्भुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः। प्रत्येकविद्यम्भवति त्रेतास्विह पुनः पुनः ।। ६१.
व्यस्यते ह्येकविद्यन्तद्द्वापरेषु पुनः पुनः । ब्रह्मा चैतदुवाचादौ तस्मिन् वैवस्वतेऽन्तरे ।। ६१.
आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः। कुर्वन्ति संहिता ह्येते जायमानाः परस्परम् ।। ६१.
अष्टाशीतिसहस्राणि श्रुतर्षीणां स्मृतानि वै। ता एव संहिता ह्येते आवर्त्तन्ते पुनः पुनः ।। ६१.
श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे। युगे युगे तु ताः शाखा व्यस्यन्ते तैः पुनः पुनः ।। ६१.
द्वापरेष्विव सर्वेषु संहिताश्च श्रुतर्षिभिः। तेषां गोत्रेष्विमाः शाखा भवन्तीह पुनः पुनः। ताः शाखास्तत्र कर्त्तारो भवन्तीह युगक्षयात् ।। ६१.
एवमेव तु विज्ञेयं व्यतीतानागतेष्विह। मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै ।। ६१.
अतीतेषु अतीतानि वर्त्तन्ते साम्प्रतेषु च। भविष्याणि च यानि स्युर्वर्ण्यन्तेऽनागतेष्वपि ।। ६१.
पूर्वेण पश्चिमं ज्ञेयं वर्त्तमानेन चोभयम्। एतेन क्रमयोगेन मन्वन्तरविनिश्चयः ।। ६१.
एवं देवाश्च पितर ऋषयो मनवश्च ये। मन्त्रैः सहोर्द्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह ।। ६१.
जनलोकात्सुराः सर्वे पशुकल्पात्पुनः पुनः। पर्याप्तकाले सम्प्राप्ते सम्भूता नैव नस्य (?) तु ।। ६१.
अवश्यम्भाविनार्थेन सम्बध्यन्ते तदा तु ते। ततस्ते दोषवज्जन्म पश्यन्ते रागपूर्वकम् ।। ६१.
निवर्त्तते तदा वृत्तिस्तेषामादोषदर्शनात् । एवं देव युगानीह दशकृत्वा निवर्त्तते ।। ६१.