धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च। प्रत्यूषस्य प्रभासस्य कश्यपस्य तथा पुनः ।। ६१.
देवर्षयः सुतास्तेषां नामतस्तान्निबोधत। देवर्षी धर्मपुत्रौ तु नरनारायणानुभौ ।। ६१.
वालखिल्याः क्रतोः पुत्राः कर्दमः पुलहस्य तु। कुबेरश्चैव पौलस्त्यः प्रत्यूषस्याचलः स्मृतः ।। ६१.
पर्वतो नारदश्चैव कश्यपस्यात्मजावुभौ। ऋषन्ति देवान् तस्मात्ते तस्माद्देवर्षयः स्मृताः ।। ६१.
मानवे वैषये वंशे ऐलवंशे च ये नृपाः। ऐला ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते ।। ६१.
ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः । ब्रह्मलोकप्रतिष्ठास्तु स्मृता ब्रह्मर्षयो मताः ।। ६१.
देवलोकप्रतिष्ठाश्च ज्ञेया देवर्षयः शुभाः। इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः ।। ६१.
अभिजात्या च तपसा मन्त्रव्याहरणैस्तथा। एवं ब्रह्मर्षयः प्रोक्ता दिव्या राजर्षयस्तु ये ।। ६१.
देवर्षयस्तथान्ये च तेषां वक्ष्यामि लक्षणम्। भूतभव्यभवज्ञानं सत्याभिव्याहृतं तथा ।। ६१.
सम्बुद्धास्तु स्वयं ये तु सम्बुद्धा ये च वै स्वयम्। तपसेह प्रसिद्धा ये गर्भेयैश्च प्रणोदितम् ।। ६१.
मन्त्रव्याहारिणो ये च ऐश्वर्यात्सर्वगाश्च ये। इत्येते ऋषिभिर्युक्ता देवद्विजनृपास्तु ये ।। ६१.
एतान् भावानधीयाना ये चैते ऋषयो मताः। सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ।। ६१.
दीर्घायुषो मन्त्रकृत ईश्वरा दिव्यचक्षुषः। बुद्धाः प्रत्यक्षधर्माणो गोत्रप्रवर्तकाश्च ये ।। ६१.
षट्कर्माभिरता नित्यं शालिनो गृहमेधिनः। तुल्यैर्व्यवहरन्ति स्म अदृष्टैः कर्महेतुभिः ।। ६१.
अग्राम्यैर्वर्त्तयन्ति स्म रसैश्चैव स्वयंकृतैः। कुटुम्बिन ऋद्विमन्तो बाह्यान्तरनिवासिनः ।। ६१.
कृतादिषु युगाख्येषु सर्वेष्वेव पुनः पुनः। वर्णाश्रमव्यवस्थानं क्रियन्ते प्रथमन्तु वै ।। ६१.
प्राप्तै त्रेतायुगमुखे पुनः सप्तर्षयस्त्विह। प्रवर्त्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः। तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः ।। ६१.
जायमाने पिता पुत्रे पुत्रः पितरि चैव हि। एवं समेत्याविच्छेदाद्वर्त्तयन्त्यायुगक्षयात्। अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम् ।। ६१.
अर्यम्णो दक्षिणा ये तु पितृयाणं समाश्रिताः। दाराग्निहोत्रिणस्ते वै ये प्रजाहेतवः स्मृताः ।। ६१.
गृहमेधिनाञ्च संख्येयाः श्मशानान्याश्रयन्ति ते। अष्टाशीतिसहस्राणि निहिता उत्तरायणे ।। ६१.
ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्द्वरेतसः। मन्त्रब्राह्मणकर्त्तारो जायन्ते ह युगक्षये ।। ६१.
एवमावर्त्तमानास्ते द्वापरेषु पुनः पुनः। कल्पानां भाष्यविद्यानां नानाशास्त्रकृतः क्षये ।। ६१.
भविष्ये द्वापरे चैव द्रोणिर्द्वैपायनः पुनः । वेदव्यासो ह्यतीतेऽस्मिन् भविता सुमहातपाः ।। ६१.
भविष्यन्ति भविष्येषु शाखाप्रणयनानि तु। तस्मै तद्ब्रह्मणा ब्रह्मतपसा प्राप्तमव्ययम् ।। ६१.
तपसा कर्म सम्प्राप्तं कर्मणा हि ततो यशः। यशसा प्राप्य सत्यं हि सत्येनाप्तो हि चाव्ययः ।। ६१.
अव्ययादमृतं शुक्रममृतात् सर्वमेव हि। ध्रुवमेकाक्षरमिदं स्वात्मन्येव व्यवस्थितम्। बृहत्त्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते ।। ६१.
प्रणवाव स्थितं भूयो भूर्भुवःस्वरिति स्मृतम्। ऋग्यजुः सामाथर्वरूपिणे ब्रह्मणे नमः ।। ६१.
जगतः प्रलयोत्पत्तौ यत्तत्कारणसंज्ञितम्। महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ।। ६१.
अगाधापरमक्षय्यं जगत्सम्मोहनालयम्। सप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ।। ६१.
साङ्ख्यज्ञानवतां निष्ठा गतिः सङ्गदमात्मनः। यत्तदव्यक्तममृतं प्रकृतिब्रह्म शाश्वतम् ।। ६१.