पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम्। जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ।। ६१.
शौनकस्तु द्विधा कृत्वा ददावेकन्तु बभ्रवे। द्वितीयां संहितां धीमान्सैन्धवायनसंज्ञिते ।। ६१.
सैन्धवो मुञ्जकेशाय भिन्ना सा च द्विधा पुनः। नक्षत्र कल्पो वैतानस्तृतीयः संहितानिधिः। चतुर्थोऽङ्गिरसः कल्पः शान्तिकल्पश्च पञ्चमः ।। ६१.
श्रेष्ठस्त्वथर्वणो ह्येते संहितानां विकल्पनाः। षट्शः कृत्वा मयाप्युक्तं पुराणमृषिसत्तमाः ।। ६१.
आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः। भारद्वाजोऽग्निवर्चाश्च वसिष्ठो मित्रयुश्च यः । सावर्णिः सोमदत्तिस्तु सुशर्मा शांशपायनः ।। ६१.
एते शिष्या मम ब्रह्मन् पुराणेषु दृढव्रताः। त्रिभिस्तिस्रः कृतास्तिस्रः संहिताः पुनरेव हि ।। ६१.
काश्यपः संहिताकर्त्ता सावर्णिः शांशपायनः। सामिका च चतुर्थीस्यात्सा चैषा पूर्वसंहिता ।। ६१.
सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः। पाठान्तरे पृथग्भूता वेदशाखा यथा तथा। चतुःसाहस्रिकाः सर्वाः शांशपायनिकामृते ।। ६१.
लोमहर्षणिका मूलास्ततः काश्यपिकाः पराः। सावर्णिकास्तृतीयास्ता यजुर्वाक्यार्थपण्डिताः ।। ६१.
शांशपायनिकाश्चान्या नोदनार्थविभूषिताः । सहस्राणि ऋचामष्टौ षट्शतानि तथैव च ।। ६१.
एताः पञचदशान्याश्च दशान्या दशभिस्तथा। वालखिल्याः समप्रैखाः (षाः) ससावर्णाः प्रकीर्तिताः ।। ६१.
अष्टौ सामसहस्राणि सामानि च चतुर्द्दश। आरण्यकं सहोमञ्च एताद्गायन्ति सामगाः ।। ६१.
द्वादशैव सहस्राणि छन्द आध्वर्यवं स्मृतम्। यजुषां ब्राह्मणानाञ्च यथा व्यासो व्यकल्पयत् ।। ६१.
सग्राम्यारण्यकन्तत्स्यात्समन्त्रकरणं तथा। अतः परं कथानान्तु पूर्वा इति विशेषणम् ।। ६१.
ग्राम्यारण्यं समन्त्रञ्च ऋग्ब्राह्मणयजुः स्मृतम्। तथा हारिद्रवीयाणां खिलान्युपखिलानि च। तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम् ।। ६१.
द्वे सहस्रे शतन्यूने वेदे वाजसनेयके। ऋग्गणः परि संख्यातो ब्राह्मणन्तु चतुर्गुणम् ।। ६१.
अष्टौ सहस्राणि शतानि चाष्टौ अशीतिरन्यान्यधिकश्च पादः। एतत्प्रमाणं यजुषामृचाञ्च सशुक्रियं साखिल याज्ञवल्क्यम् ।। ६१.
तथा चरणविद्यानां प्रमाणं संहितां श्रृणु। षट्साहस्रमृचामुक्तमृचः षड्विंशतिः पुनः । एतावदधिकं तेषां यजुः कामं विवक्षति ।। ६१.
एकादश सहस्राणि दश चान्या दशोत्तराः । ऋचान्दश सहस्राणि अशीतित्रिशतानि च ।। ६१.
सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः। एतावद्भृगुविस्तारमन्यच्चाथर्विकं बहु ।। ६१.
ऋचामथर्वणां पञ्च सहस्राणि विनिश्चयः। सहस्रमन्यद्विज्ञेयमृषिभिर्विंशतिं विना ।। ६१.
एतदङ्गिरसा प्रोक्तन्तेषामारण्यकं पुनः। इति संख्या प्रसंख्याता शाखाभेदास्तथैव च ।। ६१.
कर्त्तारश्चैव शाखानां भेदे हेतुस्तथैव च। सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाः स्मृताः ।। ६१.
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः। अनित्यभावाद्देवानां मन्त्रोत्पत्तिः पुनः पुनः ।। ६१.
मन्वन्तराणां क्रियते सुराणां नामनिश्चयः। द्वापरेषु पुनर्भेदाः श्रुतानां परिकीर्त्तिताः ।। ६१.
एवं वेदं तदान्यस्य भगवानृषिसत्तमः। शिष्येभ्यश्च पुनर्दत्त्वा तपस्तप्तुं गतो वनम्। तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः ।। ६१.
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्म शास्त्रं पुराणञ्च विद्यास्त्वेताश्चतुर्दश ।। ६१.
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः। अर्थशास्त्रं चतुर्थन्तु विद्यास्त्वष्टादशैव तु ।। ६१.
ज्ञेया ब्रह्मर्षयः पूर्वन्तेभ्यो देवर्षयः पुनः। राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः। तेभ्य ऋषिप्रकृतयो मुनिभिः संशितव्रतैः ।। ६१.
कश्यपेषु वसिष्ठेषु तथा भृग्वङ्गिरोऽत्रिषु। पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः। यस्मादृषन्ति ब्रह्माणन्तेन ब्रह्मर्षयः स्मृताः ।। ६१.