इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम्। शान्तक्रोधं द्विजं दृष्ट्वा तत्रैवान्तरधीयत ।। ६१.
तस्य शिष्यो भवेद्धीमान्पौष्यञ्जी द्विजसत्तमाः। हिरण्यनाभः कौशिक्यौ द्वितीयोऽभून्नराधिपः ।। ६१.
अध्यापयत्तु पौष्यञ्जी सहस्रार्द्धन्तु संहिताः। तेनान्योदीच्यसामान्याः शिष्याः पौष्यञ्जिनः शुभाः ।। ६१.
शतानि पञ्च कौशिक्यः संहितानाञ्च वीर्यवान्। शिष्या हिरण्यनाभस्य स्मृतास्ते प्राच्यसामगाः ।। ६१.
लोकाक्षी कुथुमिश्चैव कुशीती लाङ्गलिस्तथा। पौष्यञ्जिशिष्याश्चत्वारस्तेषां भेदान्निबोधत ।। ६१.
राणायनीयः स हि तण्डिपुत्रस्तस्मादन्यो मूलचारी सुविद्वान्। सकतिपुत्रः सहसात्यपुत्र एतान् भेदान् वित्त लोकाक्षिणस्तु ।। ६१.
त्रयस्तु कुथुमेः पुत्रा औरसो रसपासरः। भागवित्तिश्च तेजस्वी त्रिविधाः कौथुमाः स्मृताः ।। ६१.
शौरिद्युः श्रृङ्गिपुत्रश्चद्वावेतौ चरितव्रतौ। राणायनीयः सौमित्रिः सामवेदविशारदौ ।। ६१.
प्रोवाच संहितास्तिस्रः श्रृङ्गिपुत्रो महातपाः। चैलः प्राचीनयोगश्च सुरालश्च द्विजोत्तमाः ।। ६१.
प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः। आसुरायणवैशाख्यौ वेदवृद्धपरायणौ ।। ६१.
प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः। कौथुमस्य तु भेदास्ते पाराशर्यस्य षट् स्मृताः। लाङ्गलिः शालिहोत्रश्च षट् षट् प्रोवाच संहिताः ।। ६१.
भालुकिः कामहानिश्च जैमिनिर्लोमगायिनः। कण्डश्च कोलहश्चैव षडेते लाङ्गलाः स्मृताः। एते लाङ्गलिनः शिष्याः संहिता यैः प्रसाधिताः ।। ६१.
ततो हिरण्यनाभस्य कृतशिष्यो नृपात्मजः । सोऽकरोच्च चतुर्विंशत्संहिता द्विपदां वरः । प्रोवाच चैव शिष्येभ्यो येभ्यस्तांश्च निबोधत ।। ६१.
राडश्च महवीर्यश्च पञ्चमो वाहनस्तथा। तालकः पाण्डकश्चैष कालिको राजिकस्तथा। गौतमश्चाजबस्तश्च सोमराजापतत्ततः ।। ६१.
पृष्ठग्नः परिकृष्टश्च उलूखलक एव च। यवीयसश्च वैशालो अंगुलीयश्च कौशिकः ।। ६१.
सालिमञ्जरिसत्यश्च कापीयः कानिकश्च यः। पराशरश्च धर्मात्मा इति क्रान्तास्तु सामगाः ।। ६१.
सामगानान्तु सर्वेषां श्रेष्ठौ द्वौ तु प्रकीर्त्तितौ। पौष्यञ्जिश्च कृतिश्चैव संहितानां विकल्पकौ ।। ६१.
अथर्वाणं द्विधा कृत्वा सुमन्तुरददद् द्विजाः । कबन्धाय पुनः कृत्स्रं स च विद्याद्यथाक्रमम् ।। ६१.
कबन्धस्तु द्विदा कृत्वा पथ्यायैकं पुनर्ददौ। द्वितीयं वेदस्पर्शाय स चतुर्द्धाकरोत् पुनः ।। ६१.
मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च। शौकायनिश्च धर्मज्ञश्चतुर्थस्तपनः स्मृतः।? वेदस्पर्शस्य चत्वारः शिष्यास्त्वेते दृढव्रताः ।। ६१.
पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम्। जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ।। ६१.
शौनकस्तु द्विधा कृत्वा ददावेकन्तु बभ्रवे। द्वितीयां संहितां धीमान्सैन्धवायनसंज्ञिते ।। ६१.
सैन्धवो मुञ्जकेशाय भिन्ना सा च द्विधा पुनः। नक्षत्र कल्पो वैतानस्तृतीयः संहितानिधिः। चतुर्थोऽङ्गिरसः कल्पः शान्तिकल्पश्च पञ्चमः ।। ६१.
श्रेष्ठस्त्वथर्वणो ह्येते संहितानां विकल्पनाः। षट्शः कृत्वा मयाप्युक्तं पुराणमृषिसत्तमाः ।। ६१.
आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः। भारद्वाजोऽग्निवर्चाश्च वसिष्ठो मित्रयुश्च यः । सावर्णिः सोमदत्तिस्तु सुशर्मा शांशपायनः ।। ६१.
एते शिष्या मम ब्रह्मन् पुराणेषु दृढव्रताः। त्रिभिस्तिस्रः कृतास्तिस्रः संहिताः पुनरेव हि ।। ६१.
काश्यपः संहिताकर्त्ता सावर्णिः शांशपायनः। सामिका च चतुर्थीस्यात्सा चैषा पूर्वसंहिता ।। ६१.
सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः। पाठान्तरे पृथग्भूता वेदशाखा यथा तथा। चतुःसाहस्रिकाः सर्वाः शांशपायनिकामृते ।। ६१.
लोमहर्षणिका मूलास्ततः काश्यपिकाः पराः। सावर्णिकास्तृतीयास्ता यजुर्वाक्यार्थपण्डिताः ।। ६१.
शांशपायनिकाश्चान्या नोदनार्थविभूषिताः । सहस्राणि ऋचामष्टौ षट्शतानि तथैव च ।। ६१.