बाष्कलिश्च भरद्वाजस्तिस्रः प्रोवाच संहिताः। रथीतरो निरुक्तञ्च पुनश्चक्रे चतुर्थकम् ।। ६१.
त्रयस्तस्याभवञ्छिष्या महात्मानो गुणान्विताः। धीमान्नन्दायनीयश्च पन्नगारिश्च बुद्धिमान्। तृतीयश्चार्यवस्ते च तपसा शंसितव्रताः ।। ६१.
वीतरागा महातेजाः संहिताज्ञानपारगाः। इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्त्तिताः ।। ६१.
वैशम्पायनगोत्रोऽसौ यजुर्वेदं व्यकल्पयत्। षडशीतिश्च तस्यापि संहितानां विकल्पकाः ।। ६१.
शिष्येभ्यः प्रददौ ताश्च जगृहुस्ते विधानतः। एकस्तत्र परित्यक्तो याज्ञवल्क्यो महातपाः। षडशीतिश्च तस्यापि संहितानां विकल्पकाः ।। ६१.
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः। त्रिधा भेदास्तु ते प्रोक्ता भेदेऽस्मिन्नवमे शुभे ।। ६१.
उदीच्या मध्यदेशाश्च प्राच्याश्चैव पृथग्विधाः। श्यामायनिरुदीच्यानां प्रधानः सम्बभूव ह ।। ६१.
मध्य देशप्रतिष्ठानामारुणिः प्रथमः स्तुतः। आलम्बिरादिः प्राच्यानान्त्रयोदश्यादयस्तु ते ।। ६१.
इत्येते चरकाः प्रोक्ताः संहितावादिनो द्विजाः। ऋषय स्तद्वचः श्रुत्वा सूतं जिज्ञासवोऽब्रुवन् ।। ६१.
चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः। किञ्चीर्णं कस्य हेतोश्च वाचकत्वञ्च भेजिरे। इत्युक्तः प्राह तेषां स चरकत्वमभूद्यथा ।। ६१.
कार्यमासीदृषीणाञ्च किञ्चिद्ब्राह्मणसत्तमाः। मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम् ।। ६१.
यो नोऽत्र सप्तरात्रेण नागच्छेद् द्विजसत्तमाः। स कुर्याद्ब्रह्मवध्यां वै समयो नः प्रकीर्तितः ।। ६१.
ततस्ते सगणाः सर्वे वैशम्पायन वर्जिताः। प्रययुः सप्तरात्रेण यत्र सन्धिः कृतोऽभवत् ।। ६१.
ब्राह्मणानान्तु वचनाद्ब्रह्मवध्याञ्चकार सः । शिष्यानथ समानीय स वैशण्पायनोऽब्रवीत् ।। ६१.
ब्रह्मवद्याञ्चरध्वं वै मत्कृते द्विजसत्तमाः। सर्वे यूयं समागम्य ब्रूत मे तद्धितं वचः ।। ६१.
अहमेव चरिष्यामि तिष्ठन्तु मुनयस्त्विमे। बलञ्चोत्थापयिष्यामि तपसा स्वेन भावितः ।। ६१.
एवमुक्तस्ततः क्रुद्धो याज्ञवल्क्यमथाब्रवीत् । उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे ।। ६१.
एवमुक्तः स रूपाणि यजूंषि प्रददौ गुरोः। रुधिरेण तथाक्तानि छर्दित्वा ब्रह्मवित्तमः ।। ६१.
ततः स ध्यानमास्थाय सूर्यमाराधयद् द्विजाः । सूर्यब्रह्म यदुच्छिन्नं खं गत्वा प्रतितिष्ठति ।। ६१.
ततो यानि गतान्यूर्द्ध्वं यजूंष्यादित्यमण्डलम्। तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरीतये। अश्व रूपाय मार्तण्डो याज्ञवल्क्याय धीमते ।। ६१.
यजूंष्यधीयन्ते यानि ब्राह्मणा येन केन च। अश्वरूपाय दत्तानि ततस्ते वाजिनोऽभवन् ।। ६१.
ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः । वैशम्पायनशिष्यास्ते चरकाः समुदाहृताः ।। ६१.
इत्येते चरकाः प्रोक्ता वाजिनस्तान्निबोधत। याज्ञवल्क्यस्य शिष्यास्ते कण्ववैधेयशालिनः ।। ६१.
मध्यन्दिनश्च शापेयी विदिग्धश्चाप्य उद्दलः। ताम्रायणश्च वात्स्यश्च तथा गालवशैशिरी। आटवी च तथा पर्णी वीरणी सपरायणः ।। ६१.
इत्येते वाजिनः प्रोक्ता दश पञ्च च संस्मृताः। शतमेकाधिकं कृत्स्नं यजुषां वै विकल्पकाः ।। ६१.
पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः। सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्प्रभुः। सुकर्माणं सुतं सुत्वा पुत्रमध्यापयत्प्रभुः ।। ६१.
स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः। प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः ।। ६१.
अनध्यायेष्वधीयानांस्ताञ्जघान शतक्रतुः। प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारणात् ।। ६१.
क्रुद्धं दृष्ट्वा ततः शक्रो वरमस्मै ददौ पुनः। भाविनौ ते महावीर्यौ शिष्यावनलवर्चसौ ।। ६१.
अधीयानौ महाप्राज्ञौ सहस्रं सहितावुभौ। एतौ सुरौ महाभागौ मा क्रुध्य द्विजसत्तम ।। ६१.