शाकल्ये तु मृते सर्वे ब्रह्मघ्नास्ते बभूविरे। तदा चिन्तां परां प्राप्य गतास्ते ब्रह्मणोऽन्तिकम् ।। ६०.
तान् ज्ञात्वा चेतसा ब्रह्मा प्रेषितः पवनःपुरे। तत्र गच्छत यूयं वःसद्यः पापं प्रणश्यति ।। ६०.
द्वादशार्कं नमस्कृत्या तथा वै वालुकेश्वरम् । एकादश तथा रुद्रान् वायुपुत्रं विशेषतः। कुण्डे चतुष्टये स्नात्वा ब्रह्महत्यां तरिष्यथ ।। ६०.
सर्वे शीघ्रतरा भूत्वा तत्पुरं समुपागताः। स्नानं कृतं विधानेन देवानां दर्शनं कृतम् ।। ६०.
उत्तरेश्वरं नमस्कृत्य वाडवानां प्रसादतः। सर्वे पापविनिर्मुक्ता गतास्ते सूर्यमण्डलम् ।। ६०.
तदा प्रभृति तत्तीर्थं जातं पातकनाशनम्। वायोः पुरं पवित्रञ्च वायुना निर्मितं पुरा ।। ६०.
अञ्जनागर्भसम्भूतहनुमान्पवनात्मजः। यदा जातो महादेवोहनुमान्सत्यविक्रमः। तदेवं निर्मितं तीर्थं वायुना ब्रह्मयोनिना ।। ६०.
ऊर्व्यां जातास्तु ये शूद्रा ब्राह्मणानां निवेदिताः। वृत्त्यर्थं ब्रह्मयज्ञार्थं करस्तेषु कृतो महान् ।। ६०.
अनेन विधिना जातं विप्राणां शासनं महत् । गोघ्नो वापि कृतघ्नो वा सुरापी गुरूतल्पगः। वाडादित्यं नमस्कृत्य सर्वपापैः प्रमुच्यते ।। ६०.
भारद्वाजो याज्ञवल्क्यो गालकिः सालकिस्तथा। धीमान् शतबलाकश्च नैगमश्च द्विजोत्तमः ।। ६१.
बाष्कलिश्च भरद्वाजस्तिस्रः प्रोवाच संहिताः। रथीतरो निरुक्तञ्च पुनश्चक्रे चतुर्थकम् ।। ६१.
त्रयस्तस्याभवञ्छिष्या महात्मानो गुणान्विताः। धीमान्नन्दायनीयश्च पन्नगारिश्च बुद्धिमान्। तृतीयश्चार्यवस्ते च तपसा शंसितव्रताः ।। ६१.
वीतरागा महातेजाः संहिताज्ञानपारगाः। इत्येते बह्वृचाः प्रोक्ताः संहिता यैः प्रवर्त्तिताः ।। ६१.
वैशम्पायनगोत्रोऽसौ यजुर्वेदं व्यकल्पयत्। षडशीतिश्च तस्यापि संहितानां विकल्पकाः ।। ६१.
शिष्येभ्यः प्रददौ ताश्च जगृहुस्ते विधानतः। एकस्तत्र परित्यक्तो याज्ञवल्क्यो महातपाः। षडशीतिश्च तस्यापि संहितानां विकल्पकाः ।। ६१.
सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः। त्रिधा भेदास्तु ते प्रोक्ता भेदेऽस्मिन्नवमे शुभे ।। ६१.
उदीच्या मध्यदेशाश्च प्राच्याश्चैव पृथग्विधाः। श्यामायनिरुदीच्यानां प्रधानः सम्बभूव ह ।। ६१.
मध्य देशप्रतिष्ठानामारुणिः प्रथमः स्तुतः। आलम्बिरादिः प्राच्यानान्त्रयोदश्यादयस्तु ते ।। ६१.
इत्येते चरकाः प्रोक्ताः संहितावादिनो द्विजाः। ऋषय स्तद्वचः श्रुत्वा सूतं जिज्ञासवोऽब्रुवन् ।। ६१.
चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः। किञ्चीर्णं कस्य हेतोश्च वाचकत्वञ्च भेजिरे। इत्युक्तः प्राह तेषां स चरकत्वमभूद्यथा ।। ६१.
कार्यमासीदृषीणाञ्च किञ्चिद्ब्राह्मणसत्तमाः। मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम् ।। ६१.
यो नोऽत्र सप्तरात्रेण नागच्छेद् द्विजसत्तमाः। स कुर्याद्ब्रह्मवध्यां वै समयो नः प्रकीर्तितः ।। ६१.
ततस्ते सगणाः सर्वे वैशम्पायन वर्जिताः। प्रययुः सप्तरात्रेण यत्र सन्धिः कृतोऽभवत् ।। ६१.
ब्राह्मणानान्तु वचनाद्ब्रह्मवध्याञ्चकार सः । शिष्यानथ समानीय स वैशण्पायनोऽब्रवीत् ।। ६१.
ब्रह्मवद्याञ्चरध्वं वै मत्कृते द्विजसत्तमाः। सर्वे यूयं समागम्य ब्रूत मे तद्धितं वचः ।। ६१.
अहमेव चरिष्यामि तिष्ठन्तु मुनयस्त्विमे। बलञ्चोत्थापयिष्यामि तपसा स्वेन भावितः ।। ६१.
एवमुक्तस्ततः क्रुद्धो याज्ञवल्क्यमथाब्रवीत् । उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे ।। ६१.
एवमुक्तः स रूपाणि यजूंषि प्रददौ गुरोः। रुधिरेण तथाक्तानि छर्दित्वा ब्रह्मवित्तमः ।। ६१.
ततः स ध्यानमास्थाय सूर्यमाराधयद् द्विजाः । सूर्यब्रह्म यदुच्छिन्नं खं गत्वा प्रतितिष्ठति ।। ६१.
ततो यानि गतान्यूर्द्ध्वं यजूंष्यादित्यमण्डलम्। तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरीतये। अश्व रूपाय मार्तण्डो याज्ञवल्क्याय धीमते ।। ६१.