लोके वेदे तथाध्यात्मे विद्यास्थानैरलंकृताः। शापोत्तमगुणैर्युक्ता नृपौघपरिवर्जनाः । वादाः समभवंस्तत्र धनहेतोर्महात्मनाम् ।। ६०.
ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः। सर्वे ते मुनयस्तेन याज्ञवल्क्येन धीमता । एकैकशस्ततः पृष्टा नैवोत्तरमथाव्रुवन् ।। ६०.
तान्विजित्य मुनीन् सर्वान् ब्रह्मराशिर्महाद्युतिः। शाकल्यमिति होवाच वादकर्त्तारमञ्जसा ।। ६०.
शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्टसे। पूर्णस्त्वं जडमानेन वाताध्मातो यथा दृतिः ।। ६०.
एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः। प्रोवाच याज्ञवल्क्यं तं पुरुषं मुनिसन्निधौ ।। ६०.
त्वमस्मांस्तृणवत्त्यक्त्वा तथैवेमान् द्विजोत्तमान्। विद्याधनं महासारं स्वयंग्राहं जिघृक्षसि ।। ६०.
शाकल्येनैवनुक्तः स्याद्याज्ञवल्क्यः समब्रवीत्। ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ।। ६०.
कामश्चार्थेन सम्बद्धस्तेनार्थं कामयामहे । कामप्रश्रधना विप्राः कामप्रश्रान्वदामहे ।। ६०.
पणश्चैषोऽस्य राजर्षेस्तस्मान्नीतं धनं मया। एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः। याज्ञवल्क्यमथोवाच कामप्रश्रार्थमद्वचः ।। ६०.
ब्रूहीदानीं मयोद्दिष्टान् कामप्रश्रान् यथार्थतः। ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् ।। ६०.
साग्रं प्रश्नसहस्रन्तु शाकल्यस्तमुचूचुदत्। याज्ञवल्क्योऽब्रवीत्सर्वान् ऋषीणां श्रृण्वतां तदा ।। ६०.
शाकल्ये चापि निर्वादे याज्ञवल्क्यस्तमब्रवीत् । प्रश्रमेकं ममापि त्वं वद शाकल्य कामिकम्। शापः पणोऽस्य वादस्य अब्रुवन् मृत्युमाव्रजेत् ।। ६०.
अथ सन्नोदितं प्रश्रं याज्ञवल्क्येन धीमता । शाकल्यस्तमविज्ञाय सद्यो मृत्युमवाप्नुयात् ।। ६०.
एवं मृतः स शाकल्यः प्रश्रव्याख्यानपीडितः। एवं वादश्च सुमहानासीत्तेषां धनार्थिभिः। ऋषीणां मुनिभिः सार्द्धं याज्ञवल्क्यस्य चैव हि ।। ६०.
सर्वैः पृष्टांस्तु सम्प्रश्रान् शतशोऽथ सहस्रशः। व्याख्याय वै मुने तेषां प्रश्रसारं महागतिः ।। ६०.
याज्ञवल्क्यो धनं गृह्य यशो विख्याप्य चात्मनः। जगाम वै गृहं स्वस्थः शिष्यैः परिवृतो वशी ।। ६०.
देवमित्रस्तु शाकल्यो महात्मा द्विजसत्तमः। चकार संहिताः पञ्चबुद्धिमान् पदवित्तमः ।। ६०.
तच्छिष्या अभवन् पञ्च मुद्घलो गोलकस्तथा। खालीयश्च तथा मत्स्वः शैशिरेयस्तु पञ्चमः ।। ६०.
प्रोवाच संहितास्तिस्रः शाकपूर्णरथीतरः। निरुक्तञ्च पुनश्चक्रे चतुर्थं द्विजसत्तमः ।। ६०.
तस्य शिष्यास्तु चत्वारः केतवो दालकिस्तथा। धर्मशर्मा देवशर्मा सर्वे व्रतधरा द्विजाः ।। ६०.
शाकल्ये तु मृते सर्वे ब्रह्मघ्नास्ते बभूविरे। तदा चिन्तां परां प्राप्य गतास्ते ब्रह्मणोऽन्तिकम् ।। ६०.
तान् ज्ञात्वा चेतसा ब्रह्मा प्रेषितः पवनःपुरे। तत्र गच्छत यूयं वःसद्यः पापं प्रणश्यति ।। ६०.
द्वादशार्कं नमस्कृत्या तथा वै वालुकेश्वरम् । एकादश तथा रुद्रान् वायुपुत्रं विशेषतः। कुण्डे चतुष्टये स्नात्वा ब्रह्महत्यां तरिष्यथ ।। ६०.
सर्वे शीघ्रतरा भूत्वा तत्पुरं समुपागताः। स्नानं कृतं विधानेन देवानां दर्शनं कृतम् ।। ६०.
उत्तरेश्वरं नमस्कृत्य वाडवानां प्रसादतः। सर्वे पापविनिर्मुक्ता गतास्ते सूर्यमण्डलम् ।। ६०.
तदा प्रभृति तत्तीर्थं जातं पातकनाशनम्। वायोः पुरं पवित्रञ्च वायुना निर्मितं पुरा ।। ६०.
अञ्जनागर्भसम्भूतहनुमान्पवनात्मजः। यदा जातो महादेवोहनुमान्सत्यविक्रमः। तदेवं निर्मितं तीर्थं वायुना ब्रह्मयोनिना ।। ६०.
ऊर्व्यां जातास्तु ये शूद्रा ब्राह्मणानां निवेदिताः। वृत्त्यर्थं ब्रह्मयज्ञार्थं करस्तेषु कृतो महान् ।। ६०.
अनेन विधिना जातं विप्राणां शासनं महत् । गोघ्नो वापि कृतघ्नो वा सुरापी गुरूतल्पगः। वाडादित्यं नमस्कृत्य सर्वपापैः प्रमुच्यते ।। ६०.
भारद्वाजो याज्ञवल्क्यो गालकिः सालकिस्तथा। धीमान् शतबलाकश्च नैगमश्च द्विजोत्तमः ।। ६१.