द्विपिनश्च सुतास्तस्या व्यालेयाश्चामिषाशिनः। ऋषयश्चापि कार्त्स्न्येन प्रजासर्गं निबोधत। तस्या दुहितरः पञ्च तासां नामानि मे श्रृणु ॥ ८.
मीना माता तथा वृत्ता परिवृत्ता तथैव च। अनुवृत्ता तु विज्ञेया तासां वै श्रृणुत प्रजाः ॥ ८.
सहस्रदन्ता मकराः पाठीनास्तामरोहिताः। इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ॥ ८.
ग्राहाश्चतुर्विधा ज्ञेयास्तथानुज्येष्ठका अपि। निष्कांश्च शिशुमारांश्च मता व्यजनयत्प्रजाः ॥ ८.
वृत्ता कूर्मविकाराणि नैकानि जलचारिणाम्। तथा शङ्खविकाराणि जनयामास नैकशः ॥ ८.
मण्डूकानां विकाराणि अनुवृत्ता व्यजायत। ऐणेयानां विकाराणि शम्बूकानां तथैव च ॥ ८.
तथा शुक्तिविकाराणि वराटककृतानि च। तथा शङ्खविकाराणि परिवृत्ता व्यजायत ॥ ८.
कालकूटविकाराणि जलौकविहितानि च । इत्येष हि ऋषेर्वंशः पञ्चशाखाः प्रकीर्त्तिताः ॥ ८.
तिर्यगं हेतुकमाद्यादुर्बहुलं वंशविस्तरम्। संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह ॥ ८.
स्वस्तिपिकशरीरेभ्यो जायन्त्युत्पादका द्विजाः। मनुष्याः स्वेदमलजाः उशना नाम जन्तवः। नानापिपीलिकगणाः कीटका बद्धपादकाः ॥ ८.
शङ्खोपलविकाराणि कीलकाचारकाणि च। इत्येवमादिबहुलाः स्वेदजाः पार्थिवा गणाः ॥ ८.
तथा घर्मादितप्ताभ्यस्त्वद्भ्यो वृष्टिभ्य एव च। नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे ॥ ८.
मीनकाः पिप्पला दंशास्तथा तित्तिरपुत्रिकाः। नीलचित्राश्च जायन्ते ह्यलका बहुविस्तराः ॥ ८.
जलजाः स्वेदजाश्चैव जायन्ते जन्तवस्त्विमे। काशातो यञ्जकाः कीटनलदा बहुपादकाः ॥ ८.
सिहला रोमलाश्चैव पिच्छलाः परिकीर्त्तिताः। इत्येमादिर्हि गणो जलजः स्वेदजः स्मृतः ॥ ८.
सर्पिर्भ्यो माषमुद्गानां जायन्ते क्रमशस्तथा। जम्बुबिल्वाम्रपूगेभ्यः फलेभ्यश्चैव जन्तवः ॥ ८.
मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च। तथा कोटरशुष्केभ्यो निहितेभ्यो भवन्ति हि ॥ ८.
अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा। जन्तवस्तुरगादिभ्यो विषादिभ्यस्तथैव च ॥ ८.
बहून्यहानि निःक्षिप्ते सम्भवन्ति च गोमये। जायन्ते कृमयो विप्रा काष्ठेभ्यश्च घुणादयः ॥ ८.
क्रमाद्द्रुमाणां जायन्ते विविधा नीलमक्षिकाः। तथा शुष्कविकारेभ्यः पुत्रिकाः प्रभवन्ति च ॥ ८.
कालिका शतिकेभ्यश्च सर्पा जायन्ति सर्वशः। संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ ८.
गोभ्यो हि महिषेभ्यश्च जायन्ते जन्तवः प्रभो। मत्स्यादयश्च विविधा अण्डकुक्षौ विशेषतः ॥ ८.
चैवीरिकाश्च जायन्ते तथा गोजाकुलानि च। तथान्यानि च सूक्ष्माणि जलौकादीनि जातयः ॥ ८.
मक्षिकाणां विकाराणि जायन्ते जात योऽपरे । प्रायेण तु वसन्त्यस्मिन्नुच्छिष्टोदककर्द्दमे ॥ ८.
मशकानां विकाराणि भ्रमराणां तथैव च। तृणेभ्यश्चैव जायन्ते पुत्रिका पुत्रभासकाः ॥ ८.
मणिच्छेदास्तथा व्यालाः पोतजाः परिकीर्त्तिताः। शतवेरिविकाराणि करीषेभ्यो भवन्तिह ॥ ८.
एवमादिरसङ्ख्यातो गणः संस्वेदजो मया। समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः ॥ ८.
तथाऽन्ये नैऋताः सत्त्वास्ते स्मृता उपसर्गजाः। पूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः ॥ ८.
प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः । केचित्तु योनिजा देवाः केचिदेवानिमित्ततः ॥ ८.
तूलालाघश्च कोलश्च शिवा कन्या तथैव च। अपत्यं सरमायास्तु गणा वै सरमादयः ॥ ८.