एक आसीद्यजुर्वेदस्तञ्चतुर्द्धा व्यकल्पयत्। चतुर्होत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ।। ६०.
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथैव च। उद्गात्रं सामभिश्वक्रे ब्रह्मत्वञ्चाप्यथर्वभिः। ब्रह्मत्वमकरोद्यज्ञे वेदेनाथर्वणेन तु ।। ६०.
ततः सऋचमुद्धृत्य ऋग्वेदं समकल्प यत्। होतृकं कल्प्यते तेन यज्ञवाहं जगद्धितम् ।। ६०.
सामभिः सामवेदञ्च तेनोद्गात्रमरोचयत् । राज्ञस्त्वथर्ववेदेन सर्वकर्माण्यकारयत् ।। ६०.
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कुलकर्मभिः। पुराणसंहिताश्चक्रे पुराणार्थविशारदः ।। ६०.
यच्छिष्टन्तु यजुर्वेदे तेन यज्ञमथायुजत्। युञ्जानः स यजुर्वेदे इति शास्त्रविनिश्चयः ।। ६०.
पदानामुद्धृतत्वाच्च यजूंषि विषमाणि वै । स तेनोद्धृतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः। प्रयुज्यते ह्यश्वमेधस्तेन वा युज्यते तु सः ।। ६०.
ऋचो गृहीत्वा पैलस्तु व्यभजत्तद् विधा पुनः । द्विष्कृत्वा संयुगे चैव शिष्याभ्यामददत्प्रभुः ।। ६०.
इन्द्रप्रमतये चैकां द्वितीयां बाष्कलाय च। चतस्रः संहिताः कृत्वा बाष्कलिर्द्विजसत्तमः। शिष्यानध्यापयामास शुश्रूषाभिरतान् हितान् ।। ६०.
बोधन्तु प्रथमां शाखां द्वितीयामग्निमाठरम्। पाराशरं तृतीयान्तु याज्ञवल्क्यामथापराम् ।। ६०.
इन्द्रप्रमतिरेकान्तु संहितां द्विजसत्तमः। अध्यापयन्महाभागं मार्कण्डेयं यशस्विनम् ।। ६०.
सत्यश्रवसमग्र्यन्तु पुत्रं स तु महायशाः। सत्यश्रवाः सत्यहितं पुनरध्यापयद् द्विजः ।। ६०.
सोऽपि सत्यतरं पुत्रं पुनरध्यापयद्विभुः। सत्यश्रियं महात्मानं सत्यधर्मपरायणम् ।। ६०.
अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः । सत्यश्रियस्तु विद्वासः शास्त्रग्रहणतत्पराः ।। ६०.
शाकल्यः प्रथमस्तेषां तस्मादन्यो रथ(ा)न्तरः । बाष्कलिश्च भरद्वाज इति शाखाप्रवर्तकाः ।। ६०.
देवमित्रस्तु शाकल्यो ज्ञानाहङ्कारगर्वितः। जनकस्यस यज्ञे वै विनाशमगमद् द्विजः ।। ६०.
कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः। जनकस्याश्वमेधेन कथं वादो बभूव ह ।। ६०.
किमर्थञ्चाभवद्वादः केन सार्द्धमथापि वा। सर्वमेतद्यथावृत्तमाचक्ष्व विदितन्तव। ऋषीणान्तु वचः श्रुत्वा तदुत्तरमथाब्रवीत् ।। ६०.
जनकस्याश्वमेधे तु महानासीत्समागमः। ऋषीणान्तु सहस्राणि तत्राजग्मुरनेकशः। राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षवः ।। ६०.
आगतान् ब्राह्मणान् दृष्ट्वा जिज्ञासास्याभवत्ततः। कोन्वेषां ब्राह्मणः श्रेष्ठः कथं मे निश्चयो भवेत्। इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ।। ६०.
गवां सहस्रमादाय सुवर्णमधिकं ततः। ग्रामान् रत्नानि दासांश्च मुनीन् प्राह नराधिपः। सर्वानहं प्रपन्ननोऽस्मि शिरसा श्रेष्ठभागिनः ।। ६०.
यदेतदाहृतं वित्तं ये वः श्रेष्ठतमो भवेत्। तस्मै तदुपनीतं हि विद्यावित्तं द्विजोत्तमाः ।। ६०.
जनकस्य वचः श्रुत्वा मुनयस्ते श्रुतिक्षमाः। दृष्ट्वा धनं महासारं धनवृद्ध्या जिघृक्षवः । श्रद्धयाञ्चक्रुरन्योन्यं वेदज्ञानमदोल्बणाः ।। ६०.
मनसा गतवित्तास्ते ममेदं धनमित्युत। ममैवैतन्न वेत्यन्यो ब्रूहि किं वा विकल्ष्यते। इत्येवं धनदोषेण वादांश्चक्रुरनेकशः ।। ६०.
तथान्यस्तत्र वै विद्वान् ब्रह्मवाहसुतः कविः। याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः ।। ६०.
ब्रह्मणोऽङ्गात् समुत्पन्नो वाक्यं प्रोवाच सुस्वरम्। शिष्यं ब्रह्मविदां श्रेष्ठो धनमेतद् गृहाण भो ।। ६०.
नयस्व च गृहं वत्स ममैतन्नात्र संशयः। सर्ववेदेष्वहं वक्ता नान्यः कश्चित्तु मत्समः। योवा न प्रीयते विप्रः स मे ह्यवतु माऽचिरम् ।। ६०.
ततो ब्रह्मार्णवः क्षुब्धः समुद्र इव सम्प्लवे । तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ।। ६०.
क्रोध माकार्षुविद्वांसो भवन्तः सत्यवादिनः। वदामहे यथायुक्तं जिज्ञासन्तः परस्परम् ।। ६०.
ततोऽभ्युपागमंस्तेषां वादा जग्मुरनेकशः। सहस्रधा शुभैरर्थैः सूक्ष्मदर्शनसम्भवैः ।। ६०.