अत्रिरर्च्चिसनश्चैव श्यामावांश्चाथ निष्ठुरः। वल्गूतको मुनिर्द्धीमांस्तथा पूर्वातिथिश्च यः। इत्येते चात्रयः प्रोक्ता मन्त्रकारा महर्षयः ।। ५९.
वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः। चतुर्थ इन्द्रप्रमतिः पञ्चमस्तु भरद्वसुः ।। ५९.
षष्ठस्तु मैत्रावरुणाः कुण्डिनः सप्तमस्तथा। सुद्युम्नश्चाष्टमश्चैव नवमोऽथ बृहस्पतिः। दशमस्तु भरद्वाजौ मन्त्रब्राह्मणकारकाः ।। ५९.
एते चैव हि कर्तारो विधर्मध्वंसकारिणः। लक्षणं ब्रह्मणश्चैतद्विहितं सर्वशाखिनाम् ।। ५९.
हेतुर्हितेः स्मृतो धातोर्यन्निहन्त्युदितम्परैः। अथ वार्थपरि प्राप्तेर्हिनोतेर्गतिकर्मणः ।। ५९.
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् । निन्दां तामाहुराचार्या यद्दोषन्निन्द्यते वचः ।। ५९.
प्रषूर्वाच्छंसतेर्धातोः प्रशसां गुणवत्तया। इदन्त्विदमिदं नेदमित्यनिश्चित्य संशयः ।। ५९.
इदमेव विधातव्यमित्ययं विधिरुच्यते । अन्यस्यान्यस्य चोक्तत्वाद्बुधैः परकृतिः स्मृता ।। ५९.
यो ह्यत्यन्ततरोक्तश्च पुराकल्पः स उच्यते। पुराविक्रान्तवाचित्वात् पुराकल्पस्य कल्पना ।। ५९.
मन्त्रब्राह्मणकल्पैस्तु निगमैः शुद्धविस्तरैः । अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ।। ५९.
यथा हीदं तथा तद्वै इदं वापि तथैव तत्। इत्येष ह्युपदेशोऽयं दशमो ब्राह्मणस्य तु ।। ५९.
इत्येतद्ब्राह्मणस्यादौ विहितं लक्षणं बुधः । तस्य तद्वृत्तिरुद्दिष्टा व्याख्याप्यनुपदं द्विजैः ।। ५९.
मन्त्राणां कल्पनं चैव विधिदृष्टेषु कर्मसु। मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽवनात् ।। ५९.
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।। ५९.
ऋषयस्तद्वचः श्रुत्वा सूतमाहुः सुदुस्तरम्। कथं वेदा पुरा व्यस्तास्तन्नो ब्रूहि महामते ।। ६०.
द्वापरे तु परावृत्ते मनोः स्वायम्भुवेऽन्तरे । ब्रह्मा मनुमुवाचेदं तद्वदिष्ये महामते ।। ६०.
परिवृत्ते युगे तात स्वल्पवीर्या द्विजातयः। संवृत्तां युग दोषेण सर्वे चैव यथाक्रमम् ।। ६०.
भ्रश्यमानं युगवशादल्पशिष्टं हि दृश्यते। दशसाहस्रभागेन ह्यवशिष्टं कृतादिदम् ।। ६०.
वीर्यं तेजो बलं वाक्यं सर्वञ्चैव प्रणश्यति। वेदवेदा हि कार्याः स्युर्माभूद्वेदविनाशनम् ।। ६०.
वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति। यत्रे नष्टे देवनाशस्ततः सर्वं प्रणश्यति ।। ६०.
आद्यो वेदश्चतुष्पादः शतसाहस्रसंज्ञितः। पुनर्दशगुणः कृत्स्नो यज्ञो वै सर्वकामधुक् ।। ६०.
एवमुक्तस्तथेत्युक्त्वा मनुर्लोकहिते रतः। वेदमेकं चतुष्पादं चतुर्धा व्यभजत्प्रभुः ।। ६०.
ब्रह्मणो वचनात्तात लोकानां हितकाम्यया। तदिदं वर्त्तमानेन युष्माकं वेदकल्पनम् ।। ६०.
मन्वन्तरेण वक्ष्यामि व्यतीतानां प्रकल्पनम्। प्रत्यक्षेण परोक्षं वै तन्निबोधत सत्तमाः ।। ६०.
अस्मिन् युगे कृतो व्यासः पाराशर्यः परन्तपः। द्वैपायन इति ख्यातो विष्णोरंशः प्रकीर्तितः ।। ६०.
ब्रह्मणा चोदितः सोऽस्मिन् वेदं व्यस्तुं प्रचक्रमे। अथ शिष्यान् स जग्राह चतुरो वेदकारणात् ।। ६०.
जैमिनिञ्च सुमन्तुञ्च वैशम्पायनमेव च। पैलन्तेषां चतुर्थन्तु पञ्चमं लोमहर्षणम् ।। ६०.
ऋग्वेदश्रावकं पैलञ्जग्राह विधिवद् द्विजम् । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ।। ६०.
जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत। तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ।। ६०.
इतिहासपुराणस्य वक्तारं सम्यगेव हि। माञ्चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ।। ६०.