वाजश्रवाः सुवित्तश्च सुवाग्वेषपरायणः। दधीचः शङ्खमांश्चैव राजा वैश्रवणस्तथा। इत्येते ऋषिकाः प्रोक्तास्ते सत्यादृषिताङ्गताः ।। ५९.
ईश्वरा ऋषिकाश्चैव ये चान्ये वै तथा स्मृताः। एते मन्त्रक्षकृतः सर्वे कृत्स्नशस्तान्निबोधत ।। ५९.
भृगुः काव्यः प्रचेतास्तु दधीचो ह्यात्मवानपि । और्वोऽथ जमदग्निश्च दिवः सारस्वत स्तथा ।। ५९.
अद्विषेण ह्यरूपश्च वीतहव्य सुमेधसः। वैन्यः पृथुर्दिवोदासः प्रश्वारो गृत्समान्नभः। एकोनविंशदित्येते ऋषयो मन्त्रवादिनः ।। ५९.
अङ्गिरा वेधसश्चैव भारद्वाजोऽथ बाष्कलिः। तथामृतस्तथा गार्ग्यः शेनी संहृतिरेव च ।। ५९.
पुरुकुत्सोऽथ मान्धाता अम्बरीषस्तथैव च। आहार्योथाजमीढश्च ऋषभो वलिरेव च ।। ५९.
पृषदश्वो विरूपश्च कण्वश्चैवाथ मुद्गलः। युवनाश्वः पौरुकुत्सस्त्रसद्दस्युः सदस्युमान् ।। ५९.
उतथ्यश्च भरद्वाजस्तथा वाजश्रवा अपि । आयाप्यश्च सुवित्तिश्च वामदेवस्तथैव च ।। ५९.
औगजो बृहदुक्थश्च ऋषिर्दीर्घतपास्तथा। कक्षीवांश्च त्रयस्त्रिंशत् स्मृता अङ्गिरसो वराः। एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत ।। ५९.
काश्यपश्चैव वत्सारो विभ्रमो रैभ्य एव च। असितो देवलश्चैव षडेते ब्रह्मवादिनः ।। ५९.
अत्रिरर्च्चिसनश्चैव श्यामावांश्चाथ निष्ठुरः। वल्गूतको मुनिर्द्धीमांस्तथा पूर्वातिथिश्च यः। इत्येते चात्रयः प्रोक्ता मन्त्रकारा महर्षयः ।। ५९.
वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः। चतुर्थ इन्द्रप्रमतिः पञ्चमस्तु भरद्वसुः ।। ५९.
षष्ठस्तु मैत्रावरुणाः कुण्डिनः सप्तमस्तथा। सुद्युम्नश्चाष्टमश्चैव नवमोऽथ बृहस्पतिः। दशमस्तु भरद्वाजौ मन्त्रब्राह्मणकारकाः ।। ५९.
एते चैव हि कर्तारो विधर्मध्वंसकारिणः। लक्षणं ब्रह्मणश्चैतद्विहितं सर्वशाखिनाम् ।। ५९.
हेतुर्हितेः स्मृतो धातोर्यन्निहन्त्युदितम्परैः। अथ वार्थपरि प्राप्तेर्हिनोतेर्गतिकर्मणः ।। ५९.
तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् । निन्दां तामाहुराचार्या यद्दोषन्निन्द्यते वचः ।। ५९.
प्रषूर्वाच्छंसतेर्धातोः प्रशसां गुणवत्तया। इदन्त्विदमिदं नेदमित्यनिश्चित्य संशयः ।। ५९.
इदमेव विधातव्यमित्ययं विधिरुच्यते । अन्यस्यान्यस्य चोक्तत्वाद्बुधैः परकृतिः स्मृता ।। ५९.
यो ह्यत्यन्ततरोक्तश्च पुराकल्पः स उच्यते। पुराविक्रान्तवाचित्वात् पुराकल्पस्य कल्पना ।। ५९.
मन्त्रब्राह्मणकल्पैस्तु निगमैः शुद्धविस्तरैः । अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् ।। ५९.
यथा हीदं तथा तद्वै इदं वापि तथैव तत्। इत्येष ह्युपदेशोऽयं दशमो ब्राह्मणस्य तु ।। ५९.
इत्येतद्ब्राह्मणस्यादौ विहितं लक्षणं बुधः । तस्य तद्वृत्तिरुद्दिष्टा व्याख्याप्यनुपदं द्विजैः ।। ५९.
मन्त्राणां कल्पनं चैव विधिदृष्टेषु कर्मसु। मन्त्रो मन्त्रयतेर्धातोर्ब्राह्मणो ब्रह्मणोऽवनात् ।। ५९.
अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम्। अस्तोभमनवद्यञ्च सूत्रं सूत्रविदो विदुः ।। ५९.
ऋषयस्तद्वचः श्रुत्वा सूतमाहुः सुदुस्तरम्। कथं वेदा पुरा व्यस्तास्तन्नो ब्रूहि महामते ।। ६०.
द्वापरे तु परावृत्ते मनोः स्वायम्भुवेऽन्तरे । ब्रह्मा मनुमुवाचेदं तद्वदिष्ये महामते ।। ६०.
परिवृत्ते युगे तात स्वल्पवीर्या द्विजातयः। संवृत्तां युग दोषेण सर्वे चैव यथाक्रमम् ।। ६०.
भ्रश्यमानं युगवशादल्पशिष्टं हि दृश्यते। दशसाहस्रभागेन ह्यवशिष्टं कृतादिदम् ।। ६०.
वीर्यं तेजो बलं वाक्यं सर्वञ्चैव प्रणश्यति। वेदवेदा हि कार्याः स्युर्माभूद्वेदविनाशनम् ।। ६०.
वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति। यत्रे नष्टे देवनाशस्ततः सर्वं प्रणश्यति ।। ६०.