गुणसाम्ये वर्त्तमाने सर्वसम्प्रलये तदा। अतिचारे तु देवानामतिदेशे तयोर्यथा ।। ५९.
अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्त्तते । तेन ह्यबुद्धिपूर्वं तच्चेतनेन ह्यधिष्ठितम् ।। ५९.
वर्त्तते च यथा तौ तु यथा मत्स्योदके उभे। चेतनाधिष्ठितं तत्त्वं प्रवर्त्तति गुणात्मना ।। ५९.
करणत्वात्तथा कार्यं तदा तस्य प्रवर्त्तते। विषये विषयित्वाच्च ह्यर्थेऽर्थित्वात्तथैव च ।। ५९.
कालेन प्रापणीयेन भेदास्तु कारणात्मकाः। संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ।। ५९.
महतश्वाप्यहङ्कारस्तस्माद्भूतेन्द्रियाणि च। भूतभेदास्तु भेदेभ्यो जज्ञिरे ते परस्परम्। संसिद्धिकारणं कार्यं सद्य एव विवर्त्तते ।। ५९.
यथोल्मुकस्रुटन्नूर्द्ध्वमेककालं प्रवर्त्तते। तथा विवृतः क्षेत्रज्ञः कालेनैकेन कर्मणा ।। ५९.
यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते। तथा विवृत्तो ह्यव्यक्तात् खद्योत इव चेल्वणः ।। ५९.
स महान् सशरीरस्तु यत्रैवाग्रे व्यवस्थितः। तत्रैव संस्थितो विद्वान् द्वारशालामुखे स्थितः ।। ५९.
महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते । तत्रैव संस्थितो विद्वांस्तमसोऽन्त इति श्रुतिः ।। ५९.
बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा । ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् ।। ५९.
सांसिद्दिकान्यथैतानि सुप्रतीकानि तस्य वै । महतः सशरीरस्य वैवर्त्त्यात् सिद्धिरुच्यते ।। ५९.
अत्र शेते च यत्पुर्यां क्षेत्रज्ञानमथापि वा। पुरीशयत्वात्पुरुषः क्षेत्रज्ञानात् सउच्यते ।। ५९.
क्षेत्रज्ञः क्षेत्रविज्ञानात् भगवान् मतिरुच्यते। यस्माद्बुद्ध्या तु शेते ह तस्माद्बोधात्मकः स वै । संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् ।। ५९.
एवं निवृत्तिः क्षेत्रज्ञा क्षेत्रज्ञेनाभिसंहिता। क्षेत्रज्ञेन परिज्ञातो भोग्योऽयं विषयस्त्विति ।। ५९.
ऋषीत्येष गतौ धातुःश्रुतौ सत्ये तपस्यथ। एतत्सन्नियते तस्मिन् ब्रह्मणा स ऋषिः स्मृतः ।। ५९.
निवृत्तिसमकालं तु बुद्ध्याव्यक्तमृषिः स्वयम्। परं हि ऋषते यस्मात्परमर्षिस्ततः स्मृतः ।। ५९.
गत्यर्थादृषतेर्द्धातोर्नामनिर्वृत्तिरादितः । यस्मादेष स्वयम्भूतस्तस्माच्चात्मर्षिता स्मृता। ईश्वराः स्वयमुद्भूता मानसा ब्रह्मणः सुताः ।। ५९.
यस्मान्न हन्यते मानैर्महान् परिगतः पुरः। यस्मादृषन्ति ये धीरा महान्तं सर्वतो गुणैः। तस्मान्महर्षयः प्रोक्ता बुद्धेः परमदर्शिनः ।। ५९.
ईश्वराणां शुभास्तेषां मानसान्तरसाश्च ते। अहङ्कारं तमश्चैव त्यक्त्वा च ऋषिताङ्गाताः ।। ५९.
तस्मात्तु ऋषयस्ते वै भूतादौ तत्त्वदर्शनाः। ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवाः ।। ५९.
तन्मात्राणि च सत्यञ्च ऋषन्ते ते महौजसः। सत्यर्षयस्ततस्ते वै परमाः सत्यदर्शनाः ।। ५९.
ऋषीणाञ्च सुतास्ते तु विज्ञेया ऋषिपुत्रकाः । ऋषन्ति वै श्रुतं यस्माद्विशेषांश्चैव तत्त्वतः। तस्मात् श्रुतर्षयस्तेऽपि श्रुतस्य परिदर्शनाः ।। ५९.
अव्यक्तात्मा महात्मा चाहङ्कारात्मा तथैव च। भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते । इत्येता ऋषिजातीस्तु नामभिः पञ्च वै श्रृणु ।। ५९.
भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहःक्रतुः। मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चेति ते दश। ब्रह्मणो मानसा ह्येते उद्भूताः स्वयमीश्वराः ।। ५९.
प्रवर्त्तन्ते ऋषेर्यस्मान्महांस्तस्मान्महर्षयः। ईश्वराणां सुतास्त्वेते ऋषयस्तान्निबोधत ।। ५९.
काव्यो बृहस्पतिश्चैव कश्यपश्चोशनास्तथा। उतथ्यो वामदेवश्च अपोज्यश्चैशिजस्तथा ।। ५९.
कर्द्दमो विश्रवाः शक्तिर्वालखिल्य स्तथा धराः। इत्येते ऋषयः प्रोक्ता ज्ञानतो ऋषिताङ्गताः ।। ५९.
ऋषिपुत्रानृषिकांस्तु गर्भोत्पन्नान्निबोधत। वत्सरो नग्रहूश्चैव भारद्वाजस्तथैव च ।। ५९.
बृहदुत्थः शरद्वांश्च अगस्त्यश्चौशिजस्तथा। ऋषिर्दीर्घतमाश्चैव बृहदुक्थः शरद्वतः ।। ५९.