मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः। मनुः सप्तर्षयश्चैव लोकसन्तानकारणात्। धर्मार्थं ये च शिष्ट वै याथातथ्यं प्रचक्ष्यते ।। ५९.
मन्वादयश्च ये शिष्टा ये मया प्रागुदीरिताः। तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ।। ५९.
त्रयी वार्ता दण्डनीतिरिज्या वर्णाश्रमास्तथा। शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः। पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स शाश्वतः ।। ५९.
दानं सत्यन्तपोऽलोभो विद्येज्याप्रजनी दया। अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ।। ५९.
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च वै। मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ।। ५९.
विज्ञेयः श्रवणात् श्रौतः स्मरणात् स्मार्त्त उच्यते। इज्या वेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः। प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ।। ५९.
दृष्ट्वा प्रभूतमर्थं यः पृष्टो वै न निगूहति। यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ।। ५९.
ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च। इत्येतत् तपसो मूलं सुघोरं तद्दुरासदम् ।। ५९.
पशूनां द्रव्यहविषामृक्सामयजुषां तथा। ऋत्विजां दक्षिणानाञ्च संयोगो योग उच्यते ।। ५९.
आत्मवत्सर्वभूतेषु यो हितायाहिताय च। समा प्रवर्त्तते दृष्टिः कृत्स्ना ह्येषा दया स्मृता ।। ५९.
आक्रुष्टोऽभिहतो वापि नाक्रोशेद्यो न हन्ति वा। वाङ्मनःकर्मभिः क्षान्तिस्तितिक्षैषा क्षमा स्मृता ।। ५९.
स्वामिनारक्ष्यमाणानामुत्सृष्टानाञ्च मृत्सु च। परस्वानामनादानमलोभ इह कीर्त्यते ।। ५९.
मैथुनस्यासमाचारो ह्यचिन्तनमकल्पनम्। निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं दम उच्यते ।। ५९.
आत्मार्थं वा परार्थं वा इन्द्रियाणीह यस्य वै। न मिथ्या सम्प्रवर्तन्ते शमस्यै तत्तु लक्षणम् ।। ५९.
दशात्मके यो विषये कारणे चाष्टलक्षणे। न क्रुध्येत्तु प्रतिहतः स जितात्मा विभाव्यते ।। ५९.
यद्यदिष्टतमं द्रव्यं न्यायेनोपागतञ्च यत्। तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ।। ५९.
दानं त्रिविधमित्येतत् कनिष्ठज्येष्ठमधयमम् । तत्र नैःश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये। कारुण्यात्सर्वभूतेभ्यः सुविभागस्तु बन्धुषु ।। ५९.
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः। शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसङ्गतः ।। ५९.
अप्रद्वेषो ह्यनिष्टेषु तथेष्टानभिनन्दनम्। प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता ।। ५९.
संन्यासः कर्मणो न्यासः कृतानामकृतैः सह। कुशलाकुशलानाञ्च प्रहाणं त्याग उच्यते ।। ५९.
अव्यक्ताद्योऽविशेषाच्च विकारोऽस्मिन्नचेतने। चेतनाचेतान्यत्वविज्ञानं ज्ञानमुच्यते ।। ५९.
प्रत्यङ्गानां तु धर्मस्य इत्येतल्लक्षणं स्मृतम् । ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वे स्वायम्भुवेऽन्तरे ।। ५९.
अत्र वो वर्त्तयिष्यामि विधिर्मन्वन्तरस्य यः । इतरेतरवर्णस्य चातुर्वर्णस्य चैव हि। प्रतिमन्वन्तरञ्चैव श्रुतिरन्या विधीयते ।। ५९.
ऋचो यजूषिं सामानि यथावत् प्रतिदैवतम्। आभूतसंप्लवस्यापि वर्ज्यैकं शतरुद्रियम् ।। ५९.
विधिर्होत्रं तथा स्तोत्रं पूर्ववत्सम्प्रवर्तते। द्रव्यस्तोत्रं गुणस्तोत्रं कर्म स्तोत्रं तथैव च। चतुर्थमाभिजनिकं स्तोत्रमेतच्चतुर्विधम् ।। ५९.
मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये। प्रवर्त्तयति तेषां वै ब्रह्मस्तोत्रं चतुर्विधम्। एवं मन्त्रगुणानाञ्च समुत्पत्तिश्चतुर्विधा ।। ५९.
अथर्वयजुषां साम्नां वेदेष्विह पृथक् पृथक् । ऋषीणान्तप्यतामुग्रन्तपः परमदुश्चरम् ।। ५९.
मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह। परितोषाद्भयाद्दुःखात्सुखाच्छोकाच्च पञ्चधा ।। ५९.
ऋषीणां तपःकार्त्स्न्येन दर्शनेन यदृच्छया। ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः ।। ५९.
अतीतानागतानान्तु पञ्चधा ऋषिरुच्यते। अतस्त्वृषीणां वक्ष्यामि ह्यार्षस्य च समुद्भवम् ।। ५९.