अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु वै। परमायुः शतन्त्वेतन्मनुष्याणां कलौ स्मृतम् ।। ५९.
देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं ह्रसत्। अह्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ।। ५९.
देवासुरप्रमाणन्तदुच्छ्रायं कलिजैः स्मृतम्। चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ।। ५९.
स्वेनाङ्गुलप्रमाणेन ऊर्द्ध्वमापादमस्तकम्। इत्येष मानुषोत्सेधो ह्रसतीह युगान्तिके ।। ५९.
सर्वेषु युगकालेषु अतीतानागतेष्विह। स्वेनाङ्गुलप्रमाणेन अष्टतालः स्मृतो नरः ।। ५९.
आपादतो मस्तकन्तु नवतालो भवेत्तु यः। संहताजानुबाहुस्तु स सुरैरपि पूज्यते ।। ५९.
गवाश्वहस्तिनाञ्चैव महिष स्थावरात्मनाम्। क्रमेणैतेन योगेन ह्रासवृद्धी युगे युगे ।। ५९.
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै। अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः ।। ५९.
अङ्गुलानां सहस्रन्तु चत्वारिंशाङ्गुलं विना । पञ्चाशतं हयानाञ्च उत्सेधः शाखिनां स्मृतः ।। ५९.
मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः। तल्लक्षणस्तु देवानां दृश्यते तत्त्वर्शनात् ।। ५९.
बुद्ध्यातिशययुक्तञ्च देवानां कायमुच्यते । देवानतिशयञ्चैव मानुषं कायमुच्यते ।। ५९.
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः। पशूनां पक्षिणाञ्चैव स्थावराणां निबोधत ।। ५९.
गावो ह्यजा महिष्योऽश्वा हस्तिनः पक्षिणो नगाः। उपयूक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ।। ५९.
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः । यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः ।। ५९.
तेषां रूपानुरूपैस्तैः प्रमाणैः स्थाणुजङ्गमैः। मनोज्ञैस्तत्त्वभावज्ञैः सुखिनो ह्युपपेदिरे ।। ५९.
अतः शिष्टान् प्रवक्ष्यामि सतः साधूंस्तथैव च। सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत। सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रजक्ष्यते ।। ५९.
दशात्मके ये विषये कारणे चाष्टलक्षणे । न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ।। ५९.
सामान्येषु च धर्मेषु तथा वैशेषिकेषु च। ब्रह्मक्षत्रविशो युक्ता यस्मात्तस्माद्द्विजातयः ।। ५९.
वर्णाश्रमेषु युक्तस्य स्वर्गगोमुखचारिणः। श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मः स उच्यते ।। ५९.
विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः। क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ।। ५९.
साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः। यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ।। ५९.
एवमाश्रमधर्माणां साधनात् साधवः स्मृताः। गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः ।। ५९.
न च देवा न पितरो मुनयो न च मानवाः। अयं धर्मो ह्ययं नेति ब्रुवन्तोऽभिन्नदर्शनाः ।। ५९.
धर्माधर्माविह प्रोक्तौ शब्दावेतौ क्रियात्मकौ। कुशलाकुशलं कर्म धर्मा धर्माविति स्मृतौ ।। ५९.
धारणा धृतिरित्यर्थाद्धातोर्धर्मः प्रकीर्त्तितः । अधारणेऽमहत्त्वे च अधर्म इति चोच्यते ।। ५९.
अत्रेष्टप्रापका धर्मा आचार्यैरुपदिश्यते। वृद्धा ह्यलोलुपाश्चैव आत्मवन्तो ह्यदम्भकाः। सम्यग्विनीता ऋजवस्तानाचार्यान् प्रचक्षते ।। ५९.
स्वयमाचरते यस्मादाचारं स्थापयत्यपि। आचिनोति च शास्त्रार्थान्यमैः सन्नियमैर्युतः ।। ५९.
पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयोऽब्रुवन्। ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि च श्रुतिः ।। ५९.
मन्वन्तरस्यातीतस्य स्मृत्वाचारं पुनर्जगौ। तस्मात्स्मार्तः स्मृतो धर्मो वर्णाश्रमविभागजः ।। ५९.
स एष द्विविधो धर्मः शिष्टाचार इहोच्यते। शेषशब्दात् शिष्ट इति शिष्टाचारः प्रचक्ष्यते ।। ५९.