इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः। अतीतानागतानां वै सर्वाण्येवान्तराणि ।। ५८.
अनागतेषु तद्वच्च तर्क्कः कार्यो विजानता। मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ।। ५८.
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै। व्याख्यातानि विजानीद्वं कल्पे कल्पेन चैव हि ।। ५८.
अस्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत। देवा ह्यष्टविधा ये च इह मन्वन्तरेश्वराः ।। ५८.
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः। एवं वर्णाश्रमाणान्तु प्रविभागो युगे युगे ।। ५८.
युगस्वभावाच्च तथा विधत्ते वै सदा प्रभुः । वर्णाश्रमविभागश्च युगानि युगसिद्धये ।। ५८.
अनुषङ्गः समाख्यातः सृष्टिसर्गन्निबोधत। विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ।। ५८.
युगेषु यास्तु जायन्ते प्रजास्ता वै निबोधत। आशुरी सर्पगोपक्षिपैशाची यक्षराक्षसी। यस्मिन् युगे च सम्भूतिस्तासां यावत्तु जीवितम् ।। ५९.
पिशाचासुरगन्धर्वा यक्षराक्षसपन्नगाः। युगमात्रन्तु जीवन्ति ऋते मृत्युवधेन ते ।। ५९.
मानुषाणां पशूनाञ्च पक्षिणां स्थावरैःसह। तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ।। ५९.
अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु वै। परमायुः शतन्त्वेतन्मनुष्याणां कलौ स्मृतम् ।। ५९.
देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं ह्रसत्। अह्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ।। ५९.
देवासुरप्रमाणन्तदुच्छ्रायं कलिजैः स्मृतम्। चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ।। ५९.
स्वेनाङ्गुलप्रमाणेन ऊर्द्ध्वमापादमस्तकम्। इत्येष मानुषोत्सेधो ह्रसतीह युगान्तिके ।। ५९.
सर्वेषु युगकालेषु अतीतानागतेष्विह। स्वेनाङ्गुलप्रमाणेन अष्टतालः स्मृतो नरः ।। ५९.
आपादतो मस्तकन्तु नवतालो भवेत्तु यः। संहताजानुबाहुस्तु स सुरैरपि पूज्यते ।। ५९.
गवाश्वहस्तिनाञ्चैव महिष स्थावरात्मनाम्। क्रमेणैतेन योगेन ह्रासवृद्धी युगे युगे ।। ५९.
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै। अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः ।। ५९.
अङ्गुलानां सहस्रन्तु चत्वारिंशाङ्गुलं विना । पञ्चाशतं हयानाञ्च उत्सेधः शाखिनां स्मृतः ।। ५९.
मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः। तल्लक्षणस्तु देवानां दृश्यते तत्त्वर्शनात् ।। ५९.
बुद्ध्यातिशययुक्तञ्च देवानां कायमुच्यते । देवानतिशयञ्चैव मानुषं कायमुच्यते ।। ५९.
इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः। पशूनां पक्षिणाञ्चैव स्थावराणां निबोधत ।। ५९.
गावो ह्यजा महिष्योऽश्वा हस्तिनः पक्षिणो नगाः। उपयूक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः ।। ५९.
देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः । यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः ।। ५९.
तेषां रूपानुरूपैस्तैः प्रमाणैः स्थाणुजङ्गमैः। मनोज्ञैस्तत्त्वभावज्ञैः सुखिनो ह्युपपेदिरे ।। ५९.
अतः शिष्टान् प्रवक्ष्यामि सतः साधूंस्तथैव च। सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत। सायुज्यं ब्रह्मणोऽत्यन्तं तेन सन्तः प्रजक्ष्यते ।। ५९.
दशात्मके ये विषये कारणे चाष्टलक्षणे । न क्रुध्यन्ति न हृष्यन्ति जितात्मानस्तु ते स्मृताः ।। ५९.
सामान्येषु च धर्मेषु तथा वैशेषिकेषु च। ब्रह्मक्षत्रविशो युक्ता यस्मात्तस्माद्द्विजातयः ।। ५९.
वर्णाश्रमेषु युक्तस्य स्वर्गगोमुखचारिणः। श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मः स उच्यते ।। ५९.
विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः। क्रियाणां साधनाच्चैव गृहस्थः साधुरुच्यते ।। ५९.