एवं युगाद्युगस्तेह सन्तानस्तु परस्परम् । वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ।। ५८.
सुखमायुर्बलं रूपं धर्मार्थौ काम एव च । युगेष्वेतानि हीयन्ते त्रीणि पादक्रमेण तु ।। ५८.
ससन्ध्यंशेषु हीयन्ते युगानां धर्मसिद्धयः। इत्येष प्रतिसन्धिर्वः कीर्त्तितस्तु मया द्विजाः ।। ५८.
चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् ५८.
ब्रह्मणस्तदहः प्रोक्तं रात्रिश्च तावती स्मृता । अत्रार्जवं जडीभावो भूतानामायुगक्षयात् ।। ५८.
एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम्। एषा चतुर्युगानान्तु गणना ह्येकसप्ततिः। क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ।। ५८.
चतुर्युगे तथैकस्मिन् भवतीह यथाश्रुतम्। तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् ।। ५८.
सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु । पञ्चविंशत्परिमिता न न्यूना नाधिकास्तथा ।। ५८.
तथा कल्पयुगैः सार्द्धं भवन्ति समलक्षणाः। मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ।। ५८.
तथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभवात् । तथा न सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः ।। ५८.
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः। अतीतानागतानां वै सर्वाण्येवान्तराणि ।। ५८.
अनागतेषु तद्वच्च तर्क्कः कार्यो विजानता। मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ।। ५८.
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै। व्याख्यातानि विजानीद्वं कल्पे कल्पेन चैव हि ।। ५८.
अस्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत। देवा ह्यष्टविधा ये च इह मन्वन्तरेश्वराः ।। ५८.
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः। एवं वर्णाश्रमाणान्तु प्रविभागो युगे युगे ।। ५८.
युगस्वभावाच्च तथा विधत्ते वै सदा प्रभुः । वर्णाश्रमविभागश्च युगानि युगसिद्धये ।। ५८.
अनुषङ्गः समाख्यातः सृष्टिसर्गन्निबोधत। विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ।। ५८.
युगेषु यास्तु जायन्ते प्रजास्ता वै निबोधत। आशुरी सर्पगोपक्षिपैशाची यक्षराक्षसी। यस्मिन् युगे च सम्भूतिस्तासां यावत्तु जीवितम् ।। ५९.
पिशाचासुरगन्धर्वा यक्षराक्षसपन्नगाः। युगमात्रन्तु जीवन्ति ऋते मृत्युवधेन ते ।। ५९.
मानुषाणां पशूनाञ्च पक्षिणां स्थावरैःसह। तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ।। ५९.
अस्थितिस्तु कलौ दृष्टा भूतानामायुषस्तु वै। परमायुः शतन्त्वेतन्मनुष्याणां कलौ स्मृतम् ।। ५९.
देवासुरप्रमाणात्तु सप्तसप्ताङ्गुलं ह्रसत्। अह्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् ।। ५९.
देवासुरप्रमाणन्तदुच्छ्रायं कलिजैः स्मृतम्। चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतम् ।। ५९.
स्वेनाङ्गुलप्रमाणेन ऊर्द्ध्वमापादमस्तकम्। इत्येष मानुषोत्सेधो ह्रसतीह युगान्तिके ।। ५९.
सर्वेषु युगकालेषु अतीतानागतेष्विह। स्वेनाङ्गुलप्रमाणेन अष्टतालः स्मृतो नरः ।। ५९.
आपादतो मस्तकन्तु नवतालो भवेत्तु यः। संहताजानुबाहुस्तु स सुरैरपि पूज्यते ।। ५९.
गवाश्वहस्तिनाञ्चैव महिष स्थावरात्मनाम्। क्रमेणैतेन योगेन ह्रासवृद्धी युगे युगे ।। ५९.
षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै। अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः ।। ५९.
अङ्गुलानां सहस्रन्तु चत्वारिंशाङ्गुलं विना । पञ्चाशतं हयानाञ्च उत्सेधः शाखिनां स्मृतः ।। ५९.
मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः। तल्लक्षणस्तु देवानां दृश्यते तत्त्वर्शनात् ।। ५९.