विचारणन्तु निर्वेदात् साम्यावस्था विचारणात्। साम्यावस्थासु सम्बोधः सम्बोधाद्धर्मशीलता ।। ५८.
तासुपगमयुक्तासु कलिशिष्टासु वै स्वयम्। अहोरात्रं तदा तासां युगन्तु परिवर्त्तते ।। ५८.
चित्तसम्मोहनं कृत्वा तासान्तैः सप्तमन्तु तत्। भाविनोऽर्थस्य च बलात्ततः कृतमवर्तत ।। ५८.
प्रवृत्ते तु पुनस्तस्मिंस्ततः कृतयुगे तु वै। उत्पन्नाः कलिशिष्टास्तु कार्तयुग्यः प्रजाम्तदा ।। ५८.
तिष्ठन्ति चेह ये सिद्धाः सुदृष्टा विचरन्ति च। सदा सप्तर्षयश्चैव तत्र ते च व्यवस्थिताः ।। ५८.
ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह। कलिजैः सह ते सर्वे निर्विशेषास्तदाभवन् ।। ५८.
तेषां सप्तर्षयो धर्म कथयन्तीतरेषु च । वर्णा श्रमाचारयुक्तः श्रौतः स्मार्तो द्विधा तु सः ।। ५८.
ततस्तेषु क्रियावत्सु वर्त्तन्ते वै प्रजाः कृते । श्रौतः स्मार्त्तः कृतानान्तु धर्मः सप्तर्षिदर्शितः ।। ५८.
तासु धर्मव्यवस्तार्थं तिष्ठन्तीहायुगक्षयात् । मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै ।। ५८.
यथा दावप्रदग्धेषु तृणेष्विह तपे ऋतौ । नवानां प्रथमं दृष्टस्तेषां मूले तु सम्भवः ।। ५८.
एवं युगाद्युगस्तेह सन्तानस्तु परस्परम् । वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ।। ५८.
सुखमायुर्बलं रूपं धर्मार्थौ काम एव च । युगेष्वेतानि हीयन्ते त्रीणि पादक्रमेण तु ।। ५८.
ससन्ध्यंशेषु हीयन्ते युगानां धर्मसिद्धयः। इत्येष प्रतिसन्धिर्वः कीर्त्तितस्तु मया द्विजाः ।। ५८.
चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् ५८.
ब्रह्मणस्तदहः प्रोक्तं रात्रिश्च तावती स्मृता । अत्रार्जवं जडीभावो भूतानामायुगक्षयात् ।। ५८.
एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम्। एषा चतुर्युगानान्तु गणना ह्येकसप्ततिः। क्रमेण परिवृत्ता तु मनोरन्तरमुच्यते ।। ५८.
चतुर्युगे तथैकस्मिन् भवतीह यथाश्रुतम्। तथा चान्येषु भवति पुनस्तद्वै यथाक्रमम् ।। ५८.
सर्गे सर्गे यथा भेदा उत्पद्यन्ते तथैव तु । पञ्चविंशत्परिमिता न न्यूना नाधिकास्तथा ।। ५८.
तथा कल्पयुगैः सार्द्धं भवन्ति समलक्षणाः। मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ।। ५८.
तथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभवात् । तथा न सन्तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः ।। ५८.
इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः। अतीतानागतानां वै सर्वाण्येवान्तराणि ।। ५८.
अनागतेषु तद्वच्च तर्क्कः कार्यो विजानता। मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ।। ५८.
मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै। व्याख्यातानि विजानीद्वं कल्पे कल्पेन चैव हि ।। ५८.
अस्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत। देवा ह्यष्टविधा ये च इह मन्वन्तरेश्वराः ।। ५८.
ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः। एवं वर्णाश्रमाणान्तु प्रविभागो युगे युगे ।। ५८.
युगस्वभावाच्च तथा विधत्ते वै सदा प्रभुः । वर्णाश्रमविभागश्च युगानि युगसिद्धये ।। ५८.
अनुषङ्गः समाख्यातः सृष्टिसर्गन्निबोधत। विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ।। ५८.
युगेषु यास्तु जायन्ते प्रजास्ता वै निबोधत। आशुरी सर्पगोपक्षिपैशाची यक्षराक्षसी। यस्मिन् युगे च सम्भूतिस्तासां यावत्तु जीवितम् ।। ५९.
पिशाचासुरगन्धर्वा यक्षराक्षसपन्नगाः। युगमात्रन्तु जीवन्ति ऋते मृत्युवधेन ते ।। ५९.
मानुषाणां पशूनाञ्च पक्षिणां स्थावरैःसह। तेषामायुः परिक्रान्तं युगधर्मेषु सर्वशः ।। ५९.