दृश्यन्ते नाभिदृश्यन्ते वेदाः कलियुगेऽखिलाः। उत्सीदन्ते तदा यज्ञाः कोवला धर्मपीडिताः ।। ५८.
तदा त्वल्पेन कालेन सिद्धिं यास्यन्ति मानवाः। धन्या धर्मञ्चरिष्यन्ति युगान्ते द्विजसत्तमाः ।। ५८.
श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः. त्रेतायां वार्षिको धर्मो द्वापरे मासिकः स्मृतः। यथाशक्तिं चरन् प्राज्ञस्तदह्ना प्राप्रुयात् कलौ ।। ५८.
एषा कलियुगेऽवस्था सन्ध्यांशन्तु निबोध मे । युगे युगे तु हीयन्ते त्रींस्त्रीन् पादांश्च सिद्धयः ।। ५८.
युगस्वभावात्सन्ध्यास्तु तिष्ठन्तीमास्तु पादशः। सन्ध्यास्वभावाच्चांशेषु पादशस्ते प्रतिष्ठिताः ।। ५८.
एवं सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके। तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः ।। ५८.
गोत्रेण वै चन्द्रमसो नाम्ना प्रमितिरुच्यते। माधवस्य तु सोंशेन पूर्वं स्वायम्भुवेऽन्तरे ।। ५८.
समाः स विंशतिं पूर्णाः पर्यटन् वै वसुन्धराम्। आचकर्ष स वै सेनां सवाजिरथकुञ्जराम् ।। ५८.
प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः। स तदा तैः परिवृतो म्लेच्छान् हन्ति सहस्रशः ।। ५८.
स हत्वा सर्वगश्चैव राज्ञस्तान् शूद्रयोनिजात्। पाषण्डान् स ततः सर्वान्निःशेषान् कृतवान् प्रभुः ।। ५८.
नात्यर्थं धार्मिका ये च तान् सर्वान् हन्ति सर्वशः। वर्णव्यत्यासजातांश्च ये च तानुपजीविनः ।। ५८.
उदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च। प्राच्यान् प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् ।। ५८.
तथैव दाक्षिणात्यांश्च द्रविडान् सिंहलैः सह। गान्दारान् पारदांश्चैव पह्नवान् यवनांस्तथा ।। ५८.
तुषारान् वर्वरांश्चीनान् शूलिकान् दरदान् खसान्। लम्पाकान्थ केतांश्च किरातानाञ्च जातयः ।। ५८.
प्रवृत्तचक्रो बलवान् म्लेच्छानामन्तकृद्विभुः। अधृष्यः सर्वभूतानां चचाराथ वसुन्धराम् ।। ५८.
माधवस्य तु सोंशेन देवस्य हि विजज्ञिवान् । पूर्वजन्मविधिज्ञैश्च प्रमितिर्नाम वीर्यवान् ।। ५८.
गोत्रेण वै चन्द्रमसः पूर्वे कलियुगे प्रभुः। द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्ते विंशतिं समाः ।। ५८.
विनिघ्नन् सर्वभूतानि मानवानि सहस्रशः। कृत्वा वीर्यावशेषान्तु पृथ्वीं ऱूढेन कर्मणा । परस्परनिमित्तेन कोपेनाकस्मिकेन तु ।। ५८.
स साधयित्वा वृषलान् प्रायशस्तानधार्मिकान् । गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ।। ५८.
ततो व्यतीते तस्मिंस्तु अमात्ये सत्यसैनिके। उत्साद्य पार्थिवान् सर्वान् म्लेच्छांश्चैव सहस्रशः ।। ५८.
तत्र सन्ध्यांशके काले सम्प्राप्ते तु युगान्तिके। स्थितास्वल्पावशिष्टासु प्रजास्विह व्कचित् व्कचित् ।। ५८.
अप्रग्रहास्ततस्ता वै लोकचेष्टास्तु वृन्दशः। उपहिंसन्ति चान्योन्यं प्रपद्यन्ते परस्परम् ।। ५८.
अराजके युगवशात् संशये समुपस्थिते। प्रजास्ता वै ततः सर्वाः परस्परभयार्दिताः ।। ५८.
व्याकुलाश्च परिश्रान्तास्त्यक्त्वा दारान् गृहाणि च। स्वान् प्राणान् समवेक्षन्तो निष्ठां प्राप्ताः सुदुःखिताः ।। ५८.
नष्टे श्रौते स्मृते धर्मे परस्परहतास्तदा। निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः ।। ५८.
नष्टे वर्पे प्रतिहता ह्रस्वकाः पञ्जविंशकाः। हित्वा दारांश्च पुत्रांश्च विषादव्याकुलेन्द्रियाः ।। ५८.
अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः। प्रत्यन्तांस्तान्निपेवन्ते हित्वा जनपदान् स्वकान् ।। ५८.
सरितः सागरान् कूपान् सेवन्ते पर्वतांस्तदा। मधुमांसैर्मूलफलैर्वर्त्तयन्ति सुदुःखिताः ।। ५८.
चीरवस्त्राजिनधरा निष्पत्रा निष्परिग्रहाः। वर्णाश्रमपरिभ्रष्टाः सङ्करं घोरमास्थिताः ।। ५८.
एताः काष्ठामनुप्राप्ता अल्पशेषास्तथा प्रजाः । जराव्याधिक्षुधाविष्टा दुःखान्निर्वेदमागमन् ।। ५८.