राजानः शूद्रभूयिष्ठा पाषण्डानां प्रवर्तकाः। भ्रूणहत्याः प्रजास्तत्र प्रजा एवं प्रवर्त्तते ।। ५८.
आयुर्मेधा बलं रूपं कुलञ्चैव प्रहीयते। शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ।। ५८.
राजवृत्ते स्थिताश्चौराश्चौरवृत्ताश्च पार्थिवाः। भृत्याश्च नष्टसुहृदो युगान्ते पर्युपस्थिते ।। ५८.
अशीलिन्योऽव्रताश्चापि स्त्रियो मद्यामिषप्रियाः। मायामात्रा भविष्यन्ति युगान्ते प्रत्युपस्थिते ।। ५८.
श्वापदप्रबलत्वञ्च गवाञ्चैवाप्युपक्षयः। साधूनां विनिवृत्तिश्च विद्यात्तस्मिन् कलौ युगे ।। ५८.
तदा सूक्ष्मे महोदर्को दुर्लभो भोगिनां तथा। चतुराश्रमशैथिल्याद्धर्मः प्रविचलिष्यति ।। ५८.
तदा ह्यल्पफला देवी भवेद्भूमिर्महीयसी। शूद्रास्तपश्चरिष्यन्ति युगान्ते प्रत्युपश्थिते ।। ५८.
तदा ह्यैकाहिको धर्मो द्वापरे यश्च मासिकः। त्रेतायां वत्सरस्थश्च एकाहादतिरिच्यते ।। ५८.
अरक्षितारो हर्त्तारो बलिभागस्य पार्थिवाः। युगान्तेषु भविष्यन्ति स्वरक्षणपरायणाः ।। ५८.
अक्षत्रियाश्च राजानो विशः शूद्रोपजीविनः। शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ।। ५८.
पतयश्च भविष्यन्ति बहवोऽस्मिन् कलौ युगे। चित्रवर्षी तदा देवो यदा स्यात्तु युगक्षयः ।। ५८.
सर्वे वाणिजकाश्चापि भविष्यन्त्यधमे युगे। भूयिष्ठं कूटमानैश्च पण्यविक्रीततेजनैः ।। ५८.
कुशीलचर्या पाषण्डैर्वृथारूपैः समावृतम्। पुरुषाल्पं बहुस्त्रीकं युगान्ते पर्युपस्थिते ।। ५८.
बहुयाचनको लोको भविष्यति परस्परम्। क्रव्यादनः क्रूरवाक्यो नार्जवो नानसूयकः ।। ५८.
न कृते प्रतिकर्ता च क्षीणो लोको भविष्यति। अशङ्का चैव पतिते तद्युगान्तस्य लक्षणम् ।। ५८.
नरशून्या वसुमती शून्या चैव भविष्यति। मण्डलानि भवन्त्यत्र देशेषु नगरेषु च ।। ५८.
अल्पोदका चाल्पफला भविष्यति वसुन्धरा। गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्त्यशासनाः ।। ५८.
हर्त्तारः पररत्नानां परदारप्रधर्षकाः। कामात्मानो दुरात्मानो ह्यधर्मात् साहसप्रियाः ।। ५८.
अनष्टचेतनाः पुंसो मुक्तकेशास्तु चूलिकाः। ऊनषोडशवर्षाश्च प्रजायन्ते युगक्षये ।। ५८.
शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः। शूद्रा धर्मञ्चरिष्यन्ति युगान्ते पर्युपस्थिते ।। ५८.
सस्यचौरा भविष्यंति तथा चैलाभिमर्शनाः। चौराश्चौरस्य हर्त्तारो हन्तुर्हर्त्तार एव व ।। ५८.
ज्ञानकर्मण्युपरते लोके निष्क्रियताङ्गते । कीटमूषिकसर्पाश्च धर्षयिष्यन्ति मानवान् ।। ५८.
सुभिक्षं क्षेममारोग्यं सामर्थ्यं दुर्लभं भवेत्। कौशिकाः प्रतिवत्स्यन्ति देशान् क्षुद्भयपीडितान् ।। ५८.
दुःखेनाभिप्लुतानाञ्च परमायुः शतं भवेत्। दृश्यन्ते न च दृश्यन्ते वेदाः कलियुगेऽखिलाः ।। ५८.
उत्सीदन्ति तथा यज्ञाः केवला धर्मपीडिताः। कषायिणश्च निर्ग्रन्थास्तथा कापालिनश्च ह ।। ५८.
वेदविक्रयिणश्चान्ये तीर्थविक्रयिणोऽपरे । वर्णाश्रमाणां ये चान्ये पाषण्डाः परिपन्थिनः ।। ५८.
उत्पद्यन्ते तथा ते वै संप्राप्ते तु कलौ युगे। नाधीयन्ते तदा वेदाः शूद्रा धर्मार्थकोविदाः ।। ५८.
यजन्ते नाश्वमेधेन राजानः शूद्रयोनयः। स्त्रीवधं गोवधं कृत्वा हत्वा चैव परस्परम्। उपहन्युस्तदान्योन्यं साधयन्ति तथा प्रजाः ।। ५८.
दुःखप्रचारतोऽल्पायुर्देशोत्सादः सरोगता। मोहो ग्लानिस्तथासौख्यं तमोवृत्तं कलौ स्मृतम् ।। ५८.
प्रजा तु भ्रूणहत्यायामथ वै सम्प्रवर्त्तते। तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते। दुःखेनाभिप्लुतानां वै परमायुः शतं नृणाम् ।। ५८.