ततो दृष्टिविभिन्नैस्तैः कृतं शास्त्रकुलन्त्विदम्। एको वेदश्वतुष्पादस्त्रेतास्विह विधीयते ।। ५८.
संरोधादायुषश्चैव दृश्यते द्वापरेषु च । वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ।। ५८.
ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः। मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ।। ५८.
संहिता ऋग्यजुःसाम्नां संहन्यन्ते श्रुतर्षिभिः। सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः व्कचित्व्कचित् ।। ५८.
ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च। अन्ये तु प्रहितास्तीर्थैः केचित्तान् प्रत्यवस्थिताः ।। ५८.
द्वापरेषु प्रवर्त्तन्ते भिन्नवृत्ताश्रमा द्विजाः। एकमाध्वर्यवं पूर्वमासीद्द्वैधं पुनस्ततः ।। ५८.
सामान्यविपरीतार्थैः कृतं शास्त्रकुलन्त्विदम्। आध्वर्यवस्य प्रस्तावैर्बहुधा व्याकुलं कृतम् ।। ५८.
तथैवाथर्वऋक्साम्नां विकल्पैश्चाप्यसंक्षयैः। व्याकुलं द्वापरे भिन्ने क्रियते भिन्नदर्शनैः ।। ५८.
तैषां भेदाः प्रभेदाश्च विकल्पैश्चाप्यसंक्षयाः । द्वापरे सम्प्रवर्तन्ते विनश्यन्ति पुनः कलौ ।। ५८.
तेषां विपर्ययाश्चैव भवन्ति द्वापरे पुनः। अवृष्टिर्मरणञ्चैव तथैव व्याध्युपद्ववाः ।। ५८.
वाङ्मनःकर्मजैर्दुःखैर्निर्वेदो जायते पुनः । निर्वेदाज्जायते तेषां दुःखमोक्ष विचारणा ।। ५८.
विचाराणाच्च वैराग्यं वैराग्याद्दोपदर्शनम्। दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसम्भवः ।। ५८.
तेषाञ्च मानिनां पूर्वमाद्ये स्वायम्भुवेऽन्तरे। उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः ।। ५८.
आयुर्वेदविकल्पाश्च अङ्गानां ज्यौतिषस्य च। अर्थशास्त्रविकल्पश्च हेतुशास्त्रविकल्पनम् ।। ५८.
स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक्। द्वापरेष्वभिवर्त्तन्ते मतिभेदास्तथा नृणाम् ।। ५८.
मनसा कर्मणा वाचा कृच्छ्रा द्वार्त्ता प्रसिद्ध्यति। द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता ।। ५८.
लोभेऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः। वेदशास्त्रप्रणयनं धर्माणां सङ्करस्तथा ।। ५८.
द्वापरेषु प्रवर्त्तन्ते रोगो लोभो वधस्तथा। वर्णाश्रमपरिध्वंसाः कामद्वेषौ तथैव च ।। ५८.
पूर्णे वर्षसहस्रे द्वे परमायुस्तुथा नृणाम्। निःशेपे द्वापरे तस्मिन् तस्य सन्ध्या तु पादतः ।। ५८.
प्रतिष्ठते गुणैर्हीनो धर्मोऽसौ द्वापरस्य तु । तथैव सन्ध्यापादेन अंशस्तस्यावतिष्ठते ।। ५८.
द्वापरस्य च वर्षे या तिष्यस्य तु निबोधत। द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरतः ।। ५८.
हिंसासूयानृतं माया वधश्चैव तपस्विनाम्। एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः ।। ५८.
एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते। मनसा कर्मणा स्तुत्या वार्त्ता सिद्ध्यति वा न वा ।। ५८.
कलौ प्रमारको रोगः सततं क्षुद्भयानि वै। अनावृष्टिभयं घोरं दर्शनञ्च विपर्ययम् ।। ५८.
न प्रमाणं स्मृतेरस्ति तिष्ये लोके युगे युगे। गर्भस्थो म्रियते कश्चिद्यौवनस्थस्तथापरः । स्थाविरे मध्यकौमारे म्रियन्ते वै कलौ प्रजाः ।। ५८.
अधार्मिकास्त्वनाचारास्तीक्ष्ण कोपाल्पतेजसः। अनृतब्रुवश्च सततं तिष्ये जायन्ति वै प्रजाः ।। ५८.
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः। विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ।। ५८.
हिंसा माया तथेर्ष्या च क्रोधोऽसूयाक्षमानृतम्। तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः ।। ५८.
संक्षोभो जायतेऽत्यर्थं कलिमासाद्य वै युगम्। नाधीयन्ते तदा वेदा न यजन्ते द्विजातयः। उत्सीदन्ति नराश्चैव क्षत्रियाः सविशः क्रमात् ।। ५८.
क्षुद्राणामन्त्ययोनेस्तु सम्बन्धा ब्राह्मणैः सह। भवन्तीह कलौ तस्मिन् शयनासनभोजनैः ।। ५८.