श्रुत्वा वाक्यं ततस्तेषामविचार्य बलाबलम्। वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह। यथोपदिष्टैर्यष्टव्यमिति होवाच पार्थिवः ।। ५७.
यष्टव्यं पशुभिर्मेध्यैरथ बीजैः फलैस्तथा। हिंसास्वभावो यज्ञस्य इति मे दर्शयत्यसौ ।। ५७.
यथेह संहितामन्त्रा हिंसालिङ्गा महर्षिभिः। दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः। तत्प्रामाण्यान्मया चोक्तं तस्मान्मा मन्तुमर्हथ ।। ५७.
यदि प्रमाणं तान्येव मन्त्रवाक्यानि वै द्विजाः । तदा प्रावर्त्तता यज्ञो ह्यन्यथा नोऽनृतं वचः। एवं हृतोत्तरास्ते वै युक्तात्मानस्तपोधनाः ।। ५७.
अधस्व भवनं दृष्ट्वा तमर्थं वाग्यतो भव। मिथ्यावादी नृपो यस्मात् प्रविवेश रसातलम् ।। ५७.
इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम्। ऊर्द्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ।। ५७.
वसुधातलवासी तु तेन वाक्येन सोऽभवत्। धर्माणां संशयच्छेत्ता राजा वसुरथागतः ।। ५७.
तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशयः। बहूद्धारस्य धर्मस्य सूक्ष्माद्दूरमुपागतिः ।। ५७.
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित्। देवानृषीनुपादाय स्वायम्भुवमृते मनुम् ।। ५७.
तस्मान्न हिंसाधर्मस्य द्वारमुक्तं महर्षिभिः। ऋषिकोटिसहस्राणि कर्मभिः स्वैर्दिवं ययुः ।। ५७.
तस्मान्न दानं यज्ञं वा प्रशंसन्ति महर्षयः। तुच्छं मूलं फलं शाकमुदपात्रं तपोधनाः। एवं दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः ।। ५७.
अद्रोहश्चाप्यलोभश्च दमो भूतदया तपः। ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः। सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ।। ५७.
धर्ममन्त्रात्मको यज्ञस्तपश्चानशनात्मकम्। यज्ञेन देवानाप्नोति वैराग्यं तपसा पुनः ।। ५७.
ब्राह्मण्यं कर्मसंन्यासाद्वैराग्यात् प्रेक्षते लयम्। ज्ञानात् प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ।। ५७.
एवं विवादः सुमहान् यज्ञस्यासीत् प्रवर्त्तने। ऋषीणां देवतानाञ्च पूर्वं स्वायम्भुवेऽन्तरे ।। ५७.
ततस्ते ऋषयो दृष्ट्वाद्भुतं वर्त्म बलेन तु। वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागताः ।। ५७.
गतेषु देवसङ्घेषु देवा यज्ञमवाप्नुयुः। श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रमया नृपाः ।। ५७.
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः। सुमेधा विरजाश्चैव शङ्खपाद्रज एव च। प्राचीनबर्हिः पर्जन्यो हविर्द्धानादयो नृपाः ।। ५७.
एते चान्ये च बहवो नृपाः सिद्धा दिवं गताः। राजर्षयो महासत्त्वा येषां कीर्त्तिः प्रतिष्ठिता ।। ५७.
तस्माद्विशिष्यते यज्ञात्तपः सर्वेषु कारणैः। ब्रह्मणा तपसा सृष्ट जगद्विश्वमिदं पुरा ।। ५७.
तस्मान्नात्येति तद्यज्ञं तपोमूलमिदं स्मृतम्। यज्ञप्रवर्त्तनं ह्येवमतः स्वायम्भुवेऽन्तरे। ततःप्रभृति यज्ञोऽयं युगैः सह व्यवर्त्तत ।। ५७.
अत ऊर्द्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः। तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ।। ५८.
द्वापरादौ प्रजानान्तु सिद्धिस्त्रतायुगे तु या। परिवृत्ते युगे तस्मिंस्ततः सा संप्रणश्यति ।। ५८.
ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः। लोभोऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ।। ५८.
तम्भेदश्चैव वर्णानां कार्याणाञ्चा विनिर्णयः। यज्ञौषधेः पशोर्दण्डो मदो दम्भोऽक्षमा बलम्। एषां रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ।। ५८.
आद्ये कृते च धर्मोऽस्ति त्रेतायां सम्प्रपद्यते। द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ।। ५८.
वर्णानां विपरिध्वंसः संकीर्त्त्यते तथाश्रमः। द्वैधमुत्पद्यते चैव युगे तस्मिन् श्रुतौ स्मृतौ ।। ५८.
द्वैधात् श्रुतेः स्मृतेश्चैव निश्चयो नाधिगम्यते। अनिश्चयादिगमनाद्धर्मतत्त्वं निगद्यते। धर्मतत्त्वे तु भिन्नानां मतिभेदो भवेन्नृणाम् ।। ५८.
परस्परविभिन्नैस्तैर्दृष्टीनां विभ्रमेण च। अयं धर्मो ह्ययं नेति निश्चयो नाभिगम्यते ।। ५८.
कारणानाञ्च वकैल्यात् कारणस्याप्यनिश्चयात्। मतिभेदे च तेषां वै दृष्टीनां विभ्रमो भवेत् ।। ५८.