हविष्यग्नौ हूयमाने देवानां देवहोतृभिः। आहूतेषु च देवेषु यज्ञभाक्षु महात्मसु ।। ५७.
य इन्द्रियात्मका देवा यज्ञभाजस्तथा तु ये। तान् यजन्ते तदा देवाः कल्पादिषु भवन्ति ये ।। ५७.
अध्वर्यवः प्रैषकाले व्युत्थिता ये महर्षयः। महर्षयस्तु तान् दृष्ट्वा दीनान् पशुगणान् स्थितान् । पप्रच्छुरिन्द्रं सम्भूय कोऽयं यज्ञविधिस्तव ।। ५७.
अधर्मो बलवानेष हिंसाधर्मेप्सया तव। नेष्टः पशुवधस्त्वेष तव यज्ञे सुरोत्तम ।। ५७.
अधर्मो धर्मगाताय प्रारब्धः पशुभिस्त्वया। नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ।। ५७.
आगमेन भवान् यज्ञं करोतु यदिहेच्छसि। विधिदृष्टेन यज्ञेन धर्ममव्ययहेतुना। यज्ञबीजैः सुरश्रेष्ठ येषु हिंसा न विद्यते ।। ५७.
त्रिवर्षपरमं कालमुषितैरप्ररोहिभिः। एष धर्मो महानिन्द्र स्वयम्भुविङितः पुरा ।। ५७.
एवं विश्वभुगिन्द्रस्तु मुनिभिस्तत्त्वदर्शिभिः। जङ्गमैः स्थावरैर्वेति कैर्यष्टव्यमिहोच्यते ।। ५७.
ते तु खिन्ना विवादेन तत्त्वयुक्ता महर्षयः। सन्धाय वाक्यमिन्द्रेण प्रपच्छुश्चेश्वरं वसुम् ।। ५७.
महाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप। उत्तानपादे प्रब्रूहि संशयं छिन्धि नः प्रभो ।। ५७.
श्रुत्वा वाक्यं ततस्तेषामविचार्य बलाबलम्। वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह। यथोपदिष्टैर्यष्टव्यमिति होवाच पार्थिवः ।। ५७.
यष्टव्यं पशुभिर्मेध्यैरथ बीजैः फलैस्तथा। हिंसास्वभावो यज्ञस्य इति मे दर्शयत्यसौ ।। ५७.
यथेह संहितामन्त्रा हिंसालिङ्गा महर्षिभिः। दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः। तत्प्रामाण्यान्मया चोक्तं तस्मान्मा मन्तुमर्हथ ।। ५७.
यदि प्रमाणं तान्येव मन्त्रवाक्यानि वै द्विजाः । तदा प्रावर्त्तता यज्ञो ह्यन्यथा नोऽनृतं वचः। एवं हृतोत्तरास्ते वै युक्तात्मानस्तपोधनाः ।। ५७.
अधस्व भवनं दृष्ट्वा तमर्थं वाग्यतो भव। मिथ्यावादी नृपो यस्मात् प्रविवेश रसातलम् ।। ५७.
इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम्। ऊर्द्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ।। ५७.
वसुधातलवासी तु तेन वाक्येन सोऽभवत्। धर्माणां संशयच्छेत्ता राजा वसुरथागतः ।। ५७.
तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशयः। बहूद्धारस्य धर्मस्य सूक्ष्माद्दूरमुपागतिः ।। ५७.
तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित्। देवानृषीनुपादाय स्वायम्भुवमृते मनुम् ।। ५७.
तस्मान्न हिंसाधर्मस्य द्वारमुक्तं महर्षिभिः। ऋषिकोटिसहस्राणि कर्मभिः स्वैर्दिवं ययुः ।। ५७.
तस्मान्न दानं यज्ञं वा प्रशंसन्ति महर्षयः। तुच्छं मूलं फलं शाकमुदपात्रं तपोधनाः। एवं दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः ।। ५७.
अद्रोहश्चाप्यलोभश्च दमो भूतदया तपः। ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः। सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ।। ५७.
धर्ममन्त्रात्मको यज्ञस्तपश्चानशनात्मकम्। यज्ञेन देवानाप्नोति वैराग्यं तपसा पुनः ।। ५७.
ब्राह्मण्यं कर्मसंन्यासाद्वैराग्यात् प्रेक्षते लयम्। ज्ञानात् प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ।। ५७.
एवं विवादः सुमहान् यज्ञस्यासीत् प्रवर्त्तने। ऋषीणां देवतानाञ्च पूर्वं स्वायम्भुवेऽन्तरे ।। ५७.
ततस्ते ऋषयो दृष्ट्वाद्भुतं वर्त्म बलेन तु। वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागताः ।। ५७.
गतेषु देवसङ्घेषु देवा यज्ञमवाप्नुयुः। श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रमया नृपाः ।। ५७.
प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः। सुमेधा विरजाश्चैव शङ्खपाद्रज एव च। प्राचीनबर्हिः पर्जन्यो हविर्द्धानादयो नृपाः ।। ५७.
एते चान्ये च बहवो नृपाः सिद्धा दिवं गताः। राजर्षयो महासत्त्वा येषां कीर्त्तिः प्रतिष्ठिता ।। ५७.
तस्माद्विशिष्यते यज्ञात्तपः सर्वेषु कारणैः। ब्रह्मणा तपसा सृष्ट जगद्विश्वमिदं पुरा ।। ५७.