सुम्भपा त्रश्च कुमभी च वज्रदंष्ट्रश्च दुन्दुभिः। उपचारोपचारश्च उलूखल उलूखली ॥ ८.
अनर्कश्च अनर्का च कुखण्डश्च कुखण्डिका। पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ॥ ८.
नितुण्डश्च नितुण्डी च निपुणा निपुणस्तथा। छलादोच्छेषणा चैव प्रस्कन्दः स्कन्दिका तथा। षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश ॥ ८.
अजामुखा वक्रमुखाः पूरिणः स्कन्दिनस्तथा। विपादाङ्गारिकाश्चैव कुम्भपात्राः प्रकुन्दकाः ॥ ८.
उपचारोलूखलिका ह्यनर्काश्च कुखण्डिकाः। पाणिपात्राश्च नैतुण्डा ऊर्णाशा निपुणास्तथा ॥ ८.
सूचीमुखोच्छेषणादाः कुलान्येतानि षोडश। इत्येता ह्यभिजातास्तु कूष्माण्डानां प्रकीर्तिताः ॥ ८.
पिशाचास्ते तु विज्ञेयाः सुकल्पा इति जज्ञिरे। बीभत्सं विकृताचारं पुत्रपौत्रमनन्तकम्। अतस्तेषां पिशाचानां लक्षणञ्च निबोधत ॥ ८.
सर्वाङ्गकेशा वृत्ताख्या दंष्ट्रिणो नखिनस्तथा। तिर्यङ्गाः पुरुषादाश्च पिशाचास्ते ह्यधोमुखाः ॥ ८.
अकेशका ह्यरोमाणस्त्वग्वसाश्चर्मवाससः। कूष्माण्डिकाः पिशाचास्ते तिलभक्षाः सदामिषाः ॥ ८.
वक्राङ्गहस्तपादाश्च वक्रशीलागतास्तथा। ज्ञेया वक्रपिशाचास्ते वक्रगाः कामरूपिणः ॥ ८.
लम्बोदरास्तुण्डनाशा ह्रस्वकायशिरोभुजाः। नितुन्दकाः पिशाचास्ते तिलतक्षाः प्रियश्रवाः ॥ ८.
वामनाकृतयश्चैव वाचालाः प्लुतगामिनः। पिशाचानर्कमर्कास्ते वृक्षवासादनप्रियाः ॥ ८.
ऊर्द्ध्वबाहूर्द्ध्वरोमाण ऊर्द्ध्ववृक्षास्तथालयाः। मुञ्चन्ति पांशूनङ्गेभ्यः पिशाचाः पांशवश्च ते ॥ ८.
धमनीमतकाः शुष्काः श्मश्रुलाश्चीरवाससः। उपवीराः पिशाचाश्च श्मशानायतनास्तथा ॥ ८.
विष्टब्धाक्षा महाजिह्वा लेलिहाना ह्युदूखलाः। हस्त्युष्ट्रस्थूलशिरसो विरता बद्धपिण्डकाः ॥ ८.
पिशाचाः सुम्भपात्रास्ते अदृष्टान्नानि भुञ्जते। सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति वै ॥ ८.
अयुक्ताश्च विशन्तीह निपुणास्ते पिशाचकाः. आकर्ण दारितास्याश्च लम्बश्रूस्थूलनासिकाः ॥ ८.
हस्तपादाक्रान्तगणा ह्रस्वकाः क्षितिदृष्टयः। बालादास्ते पिशाचा वै सूतिकागृहसेविनः ॥ ८.
पृष्ठतः पाणिपादाश्च ह्रस्वका वातरंहसः। पिशितादाः पिशाचास्ते संग्रामे रुधिराशिनः ॥ ८.
नग्नका ह्यनिकेताश्च लम्बकेशाश्च पिण्डकाः। पिशाचाः स्कन्दिनस्ते वै अन्या उच्छुसनाशिनः । षोडश जातयस्तेषां पिशाचानां प्रकीर्त्तिताः ॥ ८.
एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वानुकम्पया। तेभ्यो ब्रह्मा वरं प्रादात्कारुण्यादल्पचेतसः। अन्तर्द्धानं प्रजास्तेषां कामरूपत्वमेव च ॥ ८.
उभयोः सन्द्ययोश्चारं स्थानान्याजीवमेव च। गृहाणि यानि भग्नानि शून्यान्यल्पजनानि च ॥ ८.
विध्वस्तानि च यानि स्युरनाचारोषितानि च। असंस्पृष्टोप लिप्तानि संस्कारैर्वर्जितानि च ॥ ८.
राजमार्गोपरथ्याश्च निष्कुण्ठाश्चत्वराणि च। द्वाराण्यष्टालकाश्चैव निर्ममान्संक्रमांस्तथा ॥ ८.
पथो नद्योऽथ तीर्थानि चैत्यवृक्षान्महापथान् । पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः ॥ ८.
अधार्मिका जनास्ते वै आजीवा विहिताः सुरैः। वर्णाश्रमाः सङ्करिकाः कारुशिल्पिजनास्तथा ॥ ८.
अमृतोपमसत्त्वानां चौरविश्वासघातिनाम्। एतैरन्यैश्च बहुबिरन्यायोपार्ज्जितैर्धनैः । आरभन्ते क्रिया यास्तु पिशाचास्तत्र देवताः ॥ ८.
मधुमांसौदनैर्दध्ना तिलचूर्णसुरासवैः। धूपैर्हारिद्रकृशरैस्तैलभद्रगुडौदनैः ॥ ८.
कृष्णानि चैव वासांसि धूपाः सुमनसस्तथा। एवं युक्ताः सुबलयस्तेषां वै पर्वसन्धिषु। पिशाचानामनुज्ञाय ब्रह्मा सोऽधिपतिर्ददौ ॥ ८.
सर्वभूतपिशाचानां गिरिशं शूलपाणिनम् । दृष्ट्वा त्वजनयन्पुत्रान्व्याघ्रान्सिंहांश्च भामिनी ॥ ८.